Sunday Meditation· Open to Everyone

अध्याय १, ब्राह्मण ४

संस्कृत

Passage 4.16

अथो अयं वा आत्मा सर्वेषां भूतानां लोकः । स यज्जुहोति यद्यजते तेन देवानां लोकः । अथ यदनुब्रूते तेन ऋषीणाम् । अथ यत्पितृभ्यो निपृणाति यत्प्रजामिच्छते तेन पितॄणाम् । अथ यन्मनुष्यान् वासयते यदेभ्योऽशनं ददाति तेन मनुष्याणाम् । अथ यत्पशुभ्यस्तृणोदकं विन्दति तेन पशूनाम् । यदस्य गृहेषु श्वापदा वयांस्या पिपीलिकाभ्य उपजीवन्ति तेन तेषां लोकः । यथा ह वै स्वाय लोकायारिष्टिमिच्छेत् । एवं हैवंविदे सर्वदा सर्वाणि भूतान्यरिष्टिमिच्छन्ति । तद्वा एतद्विदितं मीमांसितम् ॥ १६ ॥

पदच्छेद

अथathaउuअयम्ayamवैvaiआत्माātmāसर्वेषाम्sarveṣāmभूतानाम्bhūtānāmलोकःlokaḥसःsaḥयत्yatजुहोतिjuhotiयत्yatयजतेyajateतेनtenaदेवानाम्devānāmलोकःlokaḥअथathaयत्yatअनुब्रूतेanubrūteतेनtenaऋषीणाम्ṛṣīṇāmअथathaयत्yatपितृभ्यःpitṛbhyaḥनिपृणातिnipṛṇātiयत्yatप्रजाम्prajāmइच्छतेicchateतेनtenaपितॄणाम्pitṝṇāmअथathaयत्yatमनुष्यान्manuṣyānवासयतेvāsayateयत्yatएभ्यःebhyaḥअशनम्aśanamददातिdadātiतेनtenaमनुष्याणाम्manuṣyāṇāmअथathaयत्yatपशुभ्यःpaśubhyaḥतृणोदकम्tṛṇodakamविन्दतिvindatiतेनtenaपशूनाम्paśūnāmयत्yatअस्यasyaगृहेषुgṛheṣuश्वापदाःśvāpadāḥवयांसिvayāṃsiआāपिपीलिकाभ्यःpipīlikābhyaḥउपजीवन्तिupajīvantiतेनtenaतेषाम्teṣāmलोकःlokaḥयथाyathāहhaवैvaiस्वायsvāyaलोकायlokāyaअरिष्टिम्ariṣṭimइच्छेत्icchetएवम्evamहhaएवंविदेevaṃvideसर्वदाsarvadāसर्वाणिsarvāṇiभूतानिbhūtāniअरिष्टिम्ariṣṭimइच्छन्तिicchantiतत्tatवैvaiएतत्etatविदितम्viditamमीमांसितम्mīmāṃsitam

अन्वय

अथ उ अयम् आत्मा सर्वेषाम् भूतानाम् लोकः वै [अस्ति] । सः यत् जुहोति, यत् यजते, तेन देवानाम् लोकः [अस्ति] । अथ यत् अनुब्रूते, तेन ऋषीणाम् [लोकः अस्ति] । अथ यत् पितृभ्यः निपृणाति, यत् प्रजाम् इच्छते, तेन पितॄणाम् [लोकः अस्ति] । अथ यत् मनुष्यान् वासयते, यत् एभ्यः अशनम् ददाति, तेन मनुष्याणाम् [लोकः अस्ति] । अथ यत् पशुभ्यः तृणोदकम् विन्दति, तेन पशूनाम् [लोकः अस्ति] । यत् अस्य गृहेषु आ पिपीलिकाभ्यः श्वापदाः वयांसि उपजीवन्ति, तेन तेषाम् लोकः [अस्ति] । यथा ह वै स्वाय लोकाय अरिष्टिम् इच्छेत्, एवम् ह एवंविदे सर्वदा सर्वाणि भूतानि अरिष्टिम् इच्छन्ति । तत् वै एतत् विदितम् मीमांसितम् [अस्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय १, ब्राह्मण ४

Read the whole section →