Sunday Meditation· Open to Everyone

अध्याय १, ब्राह्मण ४

संस्कृत

Passage 4.15

तदेतद्ब्रह्म क्षत्रं विट्शूद्रः । तदग्निनैव देवेषु ब्रह्माभवद्ब्राह्मणो मनुष्येषु, क्षत्रियेण क्षत्रियः, वैश्येन वैश्यः, शूद्रेण शूद्रः । तस्मादग्नावेव देवेषु लोकमिच्छन्ते ब्राह्मणे मनुष्येषु । एताभ्यां हि रूपाभ्यां ब्रह्माभवत् । अथ यो ह वा अस्माल्लोकात्स्वं लोकमदृष्ट्वा प्रैति स एनमविदितो न भुनक्ति यथा वेदो वाननूक्तोऽन्यद्वा कर्माकृतम् । यदि ह वा अप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एव । आत्मानमेव लोकमुपासीत । स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते । अस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजते ॥ १५ ॥

पदच्छेद

तत्tatएतत्etatब्रह्मbrahmaक्षत्रम्kṣatramविट्viṭशूद्रःśūdraḥतत्tatअग्निनाagnināएवevaदेवेषुdeveṣuब्रह्मbrahmaअभवत्abhavatब्राह्मणःbrāhmaṇaḥमनुष्येषुmanuṣyeṣuक्षत्रियेणkṣatriyeṇaक्षत्रियःkṣatriyaḥवैश्येनvaiśyenaवैश्यःvaiśyaḥशूद्रेणśūdreṇaशूद्रःśūdraḥतस्मात्tasmātअग्नौagnauएवevaदेवेषुdeveṣuलोकम्lokamइच्छन्तेicchanteब्राह्मणेbrāhmaṇeमनुष्येषुmanuṣyeṣuएताभ्याम्etābhyāmहिhiरूपाभ्याम्rūpābhyāmब्रह्मbrahmaअभवत्abhavatअथathaयःyaḥहhaवैvaiअस्मात्asmātलोकात्lokātस्वम्svamलोकम्lokamअदृष्ट्वाadṛṣṭvāप्रैतिpraitiसःsaḥएनम्enamअविदितःaviditaḥनnaभुनक्तिbhunaktiयथाyathāवेदःvedaḥवाvāअननूक्तःananūktaḥअन्यत्anyatवाvāकर्मkarmaअकृतम्akṛtamयदिyadiहhaवैvaiअपिapiअनेवंवित्anevaṃvitमहत्mahatपुण्यम्puṇyamकर्मkarmaकरोतिkarotiतत्tatहhaअस्यasyaअन्ततःantataḥक्षीयतेkṣīyateएवevaआत्मानम्ātmānamएवevaलोकम्lokamउपासीतupāsītaसःsaḥयःyaḥआत्मानम्ātmānamएवevaलोकम्lokamउपास्तेupāsteनnaहhaअस्यasyaकर्मkarmaक्षीयतेkṣīyateअस्मात्asmātहिhiएवevaआत्मनःātmanaḥयत्yatयत्yatकामयतेkāmayateतत्tatतत्tatसृजतेsṛjate

अन्वय

तत् एतत् ब्रह्म क्षत्रम् विट् शूद्रः [इति अस्ति] । तत् अग्निना एव देवेषु ब्रह्म अभवत्; मनुष्येषु ब्राह्मणः [अभवत्]; क्षत्रियेण क्षत्रियः [अभवत्]; वैश्येन वैश्यः [अभवत्]; शूद्रेण शूद्रः [अभवत्] । तस्मात् देवेषु अग्नौ एव लोकम् इच्छन्ते, मनुष्येषु ब्राह्मणे [इच्छन्ते] । हि एताभ्याम् रूपाभ्याम् ब्रह्म अभवत् । अथ यः ह वै अस्मात् लोकात् स्वम् लोकम् अदृष्ट्वा प्रैति, सः अविदितः [लोकः] एनम् न भुनक्ति, यथा वेदः वा अननूक्तः, अन्यत् वा कर्म अकृतम् [न भुनक्ति] । यदि ह वै अपि अनेवंवित् महत् पुण्यम् कर्म करोति, तत् ह अस्य अन्ततः क्षीयते एव । आत्मानम् एव लोकम् उपासीत । यः आत्मानम् एव लोकम् उपास्ते, अस्य कर्म न ह क्षीयते । हि अस्मात् एव आत्मनः यत् यत् कामयते, तत् तत् सृजते ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय १, ब्राह्मण ४

Read the whole section →