Sunday Meditation· Open to Everyone

अध्याय १, ब्राह्मण ४

संस्कृत

Passage 4.10

ब्रह्म वा इदमग्र आसीत् । तदात्मानमेवावेत् । अहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवत् । तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत् । तथर्षीनाम् । तथा मनुष्याणाम् । तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति । तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति । तस्य ह न देवाश्चनाभूत्या ईशते । आत्मा ह्येषां स भवति । अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद । यथा पशुरेवं स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः पुरुषो देवान् भुनक्ति । एकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु । तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ १० ॥

पदच्छेद

ब्रह्मbrahmaवैvaiइदम्idamअग्रेagreआसीत्āsītतत्tatआत्मानम्ātmānamएवevaअवेत्avetअहम्ahamब्रह्मbrahmaअस्मिasmiइतिitiतस्मात्tasmātतत्tatसर्वम्sarvamअभवत्abhavatतत्tatयःyaḥयःyaḥदेवानाम्devānāmप्रत्यबुध्यतpratyabudhyataसःsaḥएवevaतत्tatअभवत्abhavatतथाtathāऋषीणाम्ṛṣīṇāmतथाtathāमनुष्याणाम्manuṣyāṇāmतत्tatहhaएतत्etatपश्यन्paśyanऋषिःṛṣiḥवामदेवःvāmadevaḥप्रतिपेदेpratipedeअहम्ahamमनुःmanuḥअभवम्abhavamसूर्यःsūryaḥचcaइतिitiतत्tatइदम्idamअपिapiएतर्हिetarhiयःyaḥएवम्evamवेदvedaअहम्ahamब्रह्मbrahmaअस्मिasmiइतिitiसःsaḥइदम्idamसर्वम्sarvamभवतिbhavatiतस्यtasyaहhaनnaदेवाःdevāḥचनcanaअभूत्याabhūtyāईशतेīśateआत्माātmāहिhiएषाम्eṣāmसःsaḥभवतिbhavatiअथathaयःyaḥअन्याम्anyāmदेवताम्devatāmउपास्तेupāsteअन्यःanyaḥअसौasauअन्यःanyaḥअहम्ahamअस्मिasmiइतिitiनnaसःsaḥवेदvedaयथाyathāपशुःpaśuḥएवम्evamसःsaḥदेवानाम्devānāmयथाyathāहhaवैvaiबहवःbahavaḥपशवःpaśavaḥमनुष्यम्manuṣyamभुञ्ज्युःbhuñjyuḥएवम्evamएकैकःekaikaḥपुरुषःpuruṣaḥदेवान्devānभुनक्तिbhunaktiएकस्मिन्ekasminएवevaपशौpaśauआदीयमानेādīyamāneअप्रियम्apriyamभवतिbhavatiकिम्kimउuबहुषुbahuṣuतस्मात्tasmātएषाम्eṣāmतत्tatनnaप्रियम्priyamयत्yatएतत्etatमनुष्याःmanuṣyāḥविद्युःvidyuḥ

अन्वय

अग्रे इदम् ब्रह्म वै आसीत् । तत् आत्मानम् एव अहम् ब्रह्म अस्मि इति अवेत् । तस्मात् तत् सर्वम् अभवत् । देवानाम् यः यः प्रत्यबुध्यत, सः एव तत् अभवत्; तथा ऋषीणाम् [अभवत्], तथा मनुष्याणाम् [अभवत्] । तत् ह एतत् पश्यन् ऋषिः वामदेवः अहम् मनुः अभवम् सूर्यः च इति प्रतिपेदे । तत् इदम् अपि एतर्हि यः अहम् ब्रह्म अस्मि इति एवम् वेद, सः इदम् सर्वम् भवति । तस्य ह देवाः चन अभूत्यै न ईशते; हि सः एषाम् आत्मा भवति । अथ यः अन्याम् देवताम् असौ अन्यः, अहम् अन्यः अस्मि इति उपास्ते, सः न वेद । यथा पशुः [अस्ति], एवम् सः देवानाम् [अस्ति] । यथा ह वै बहवः पशवः मनुष्यम् भुञ्ज्युः, एवम् एकैकः पुरुषः देवान् भुनक्ति । एकस्मिन् एव पशौ आदीयमाने अप्रियम् भवति; बहुषु किम् उ [भवेत्]? तस्मात् यत् एतत् मनुष्याः विद्युः, तत् एषाम् न प्रियम् [अस्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय १, ब्राह्मण ४

Read the whole section →