Sunday Meditation· Open to Everyone

अध्याय १, ब्राह्मण ४

संस्कृत

Passage 4.6

अथेत्यभ्यमन्थत् । स मुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत । तस्मादेतदुभयमलोमकमन्तरतः । अलोमका हि योनिरन्तरतः । तद्यदिदमाहुरमुं यजामुं यजेत्येकैकं देवमेतस्यैव सा विसृष्टिः । एष उ ह्येव सर्वे देवाः । अथ यत्किञ्चेदमार्द्रं तद्रेतसोऽसृजत । तदु सोम । एतावद्वा इदं सर्वमन्नं चैवान्नादश्च । सोम एवान्नमग्निरन्नादः । सैषा ब्रह्मणोऽतिसृष्टिः । यच्छ्रेयसो देवानसृजताथ यन्मर्त्यः सन्नमृतानसृजत तस्मादतिसृष्टिर् । अतिसृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥ ६ ॥

पदच्छेद

अथathaइतिitiअभ्यमन्थत्abhyamanthatसःsaḥमुखात्mukhātचcaयोनेःyoneḥहस्ताभ्याम्hastābhyāmचcaअग्निम्agnimअसृजतasṛjataतस्मात्tasmātएतत्etatउभयम्ubhayamअलोमकम्alomakamअन्तरतःantarataḥअलोमकाalomakāहिhiयोनिःyoniḥअन्तरतःantarataḥतत्tatयत्yatइदम्idamआहुःāhuḥअमुम्amumयजyajaअमुम्amumयजyajaइतिitiएकैकम्ekaikamदेवम्devamएतस्यetasyaएवevaसाsāविसृष्टिःvisṛṣṭiḥएषःeṣaḥउuहिhiएवevaसर्वेsarveदेवाःdevāḥअथathaयत्yatकिञ्चkiñcaइदम्idamआर्द्रम्ārdramतत्tatरेतसःretasaḥअसृजतasṛjataतत्tatउuसोमःsomaḥएतावत्etāvatवैvaiइदम्idamसर्वम्sarvamअन्नम्annamचcaएवevaअन्नादःannādaḥचcaसोमःsomaḥएवevaअन्नम्annamअग्निःagniḥअन्नादःannādaḥसाsāएषाeṣāब्रह्मणःbrahmaṇaḥअतिसृष्टिःatisṛṣṭiḥयत्yatश्रेयसःśreyasaḥदेवान्devānअसृजतasṛjataअथathaयत्yatमर्त्यःmartyaḥसन्sanअमृतान्amṛtānअसृजतasṛjataतस्मात्tasmātअतिसृष्टिःatisṛṣṭiḥअतिसृष्ट्याम्atisṛṣṭyāmहhaअस्यasyaएतस्याम्etasyāmभवतिbhavatiयःyaḥएवम्evamवेदveda

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय १, ब्राह्मण ४

Read the whole section →