Sunday Meditation· Open to Everyone

अध्याय ३, ब्राह्मण ७

संस्कृत

Passage 19.23

यो रेतसि तिष्ठन् रेतसोऽन्तरो यं रेतो न वेद यस्य रेतः शरीरं यो रेतोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः । अदृष्टो द्रष्टाश्रुतः श्रोतामतो मन्ताविज्ञातो विज्ञाता । नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञाता । एष त आत्मान्तर्याम्यमृतः । अतोऽन्यदार्तम् । ततो होद्दालक आरुणिरुपरराम ॥ २३ ॥

पदच्छेद

यःyaḥरेतसिretasiतिष्ठन्tiṣṭhanरेतसःretasaḥअन्तरःantaraḥयम्yamरेतःretaḥनnaवेदvedaयस्यyasyaरेतःretaḥशरीरम्śarīramयःyaḥरेतःretaḥअन्तरःantaraḥयमयतिyamayatiएषःeṣaḥतेteआत्माātmāअन्तर्यामीantaryāmīअमृतःamṛtaḥअदृष्टःadṛṣṭaḥद्रष्टाdraṣṭāअश्रुतःaśrutaḥश्रोताśrotāअमतःamataḥमन्ताmantāअविज्ञातःavijñātaḥविज्ञाताvijñātāनnaअन्यःanyaḥअतःataḥअस्तिastiद्रष्टाdraṣṭāनnaअन्यःanyaḥअतःataḥअस्तिastiश्रोताśrotāनnaअन्यःanyaḥअतःataḥअस्तिastiमन्ताmantāनnaअन्यःanyaḥअतःataḥअस्तिastiविज्ञाताvijñātāएषःeṣaḥतेteआत्माātmāअन्तर्यामीantaryāmīअमृतःamṛtaḥअतःataḥअन्यत्anyatआर्तम्ārtamततःtataḥहhaउद्दालकःuddālakaḥआरुणिःāruṇiḥउपररामupararāma

अन्वय

यः रेतसि तिष्ठन् रेतसः अन्तरः [अस्ति], यम् रेतः न वेद, यस्य रेतः शरीरम् [अस्ति], यः अन्तरः रेतः यमयति, एषः ते आत्मा अन्तर्यामी अमृतः [अस्ति] ।[एषः] अदृष्टः द्रष्टा [अस्ति]; [एषः] अश्रुतः श्रोता [अस्ति]; [एषः] अमतः मन्ता [अस्ति]; [एषः] अविज्ञातः विज्ञाता [अस्ति] । अतः अन्यः द्रष्टा न अस्ति; अतः अन्यः श्रोता न अस्ति; अतः अन्यः मन्ता न अस्ति; अतः अन्यः विज्ञाता न अस्ति । एषः ते आत्मा अन्तर्यामी अमृतः [अस्ति] । अतः अन्यत् आर्तम् [अस्ति] । ततः ह आरुणिः उद्दालकः उपरराम ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ३, ब्राह्मण ७

Read the whole section →