Sunday Meditation· Open to Everyone

अध्याय ६, ब्राह्मण १

संस्कृत

Passage 43.9

चक्षुर्होच्चक्राम । तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति । ते होचुः यथान्धा अपश्यन्तश्चक्षुषा प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह चक्षुः ॥ ९ ॥

पदच्छेद

चक्षुःcakṣuḥहhaउच्चक्रामuccakrāmaतत्tatसंवत्सरम्saṃvatsaramप्रोष्यproṣyaआगत्यāgatyaउवाचuvācaकथम्kathamअशकतaśakataमत्matऋतेṛteजीवितुम्jīvitumइतिitiतेteहhaऊचुःūcuḥयथाyathāअन्धाःandhāḥअपश्यन्तःapaśyantaḥचक्षुषाcakṣuṣāप्राणन्तःprāṇantaḥप्राणेनprāṇenaवदन्तःvadantaḥवाचाvācāशृण्वन्तःśṛṇvantaḥश्रोत्रेणśrotreṇaविद्वांसःvidvāṃsaḥमनसाmanasāप्रजायमानाःprajāyamānāḥरेतसाretasāएवम्evamअजीविष्मajīviṣmaइतिitiप्रविवेशpraviveśaहhaचक्षुःcakṣuḥ

अन्वय

चक्षुः ह उच्चक्राम । तत् संवत्सरम् प्रोष्य आगत्य, [यूयम्] मत् ऋते जीवितुम् कथम् अशकत इति उवाच । ते ह, यथा अन्धाः चक्षुषा अपश्यन्तः, प्राणेन प्राणन्तः, वाचा वदन्तः, श्रोत्रेण शृण्वन्तः, मनसा विद्वांसः, रेतसा प्रजायमानाः [जीवन्ति], एवम् अजीविष्म इति ऊचुः । चक्षुः ह प्रविवेश ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ६, ब्राह्मण १

Read the whole section →