Sunday Meditation· Open to Everyone

अध्याय ६, ब्राह्मण १

संस्कृत

Passage 43.14

सा ह वागुवाच यद्वा अहं वसिष्ठास्मि त्वं तद्वसिष्ठोऽसीति । यद्वा अहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठोऽसीति चक्षुः । यद्वा अहं संपदस्मि त्वं तत्संपदसीति श्रोत्रम् । यद्वा अहमायतनमस्मि त्वं तदायतनमसीति मनः । यद्वा अहं प्रजातिरस्मि त्वं तत्प्रजातिरसीति रेतः । तस्यो मे किमन्नं किं वास इति । यदिदं किञ्चा श्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यस्तत्तेऽन्नम् । आपो वास इति । न ह वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतं य एवमेतदनस्यान्नं वेद । तद्विद्वांसः श्रोत्रिया अशिष्यन्त आचामन्त्यशित्वाचामन्ति । एतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते ॥ १४ ॥

पदच्छेद

साsāहhaवाक्vākउवाचuvācaयत्yatवैvaiअहम्ahamवसिष्ठाvasiṣṭhāअस्मिasmiत्वम्tvamतत्tatवसिष्ठःvasiṣṭhaḥअसिasiइतिitiयत्yatवैvaiअहम्ahamप्रतिष्ठाpratiṣṭhāअस्मिasmiत्वम्tvamतत्tatप्रतिष्ठःpratiṣṭhaḥअसिasiइतिitiचक्षुःcakṣuḥयत्yatवैvaiअहम्ahamसंपत्saṃpatअस्मिasmiत्वम्tvamतत्tatसंपत्saṃpatअसिasiइतिitiश्रोत्रम्śrotramयत्yatवैvaiअहम्ahamआयतनम्āyatanamअस्मिasmiत्वम्tvamतत्tatआयतनम्āyatanamअसिasiइतिitiमनःmanaḥयत्yatवैvaiअहम्ahamप्रजातिःprajātiḥअस्मिasmiत्वम्tvamतत्tatप्रजातिःprajātiḥअसिasiइतिitiरेतःretaḥतस्यtasyaउuमेmeकिम्kimअन्नम्annamकिम्kimवासःvāsaḥइतिitiयत्yatइदम्idamकिञ्चkiñcaआāश्वभ्यःśvabhyaḥआāकृमिभ्यःkṛmibhyaḥआāकीटपतङ्गेभ्यःkīṭapataṅgebhyaḥतत्tatतेteअन्नम्annamआपःāpaḥवासःvāsaḥइतिitiनnaहhaवैvaiअस्यasyaअनन्नम्anannamजग्धम्jagdhamभवतिbhavatiनnaअनन्नम्anannamप्रतिगृहीतम्pratigṛhītamयःyaḥएवम्evamएतत्etatअनस्यanasyaअन्नम्annamवेदvedaतत्tatविद्वांसःvidvāṃsaḥश्रोत्रियाःśrotriyāḥअशिष्यन्तःaśiṣyantaḥआचामन्तिācāmantiअशित्वाaśitvāआचामन्तिācāmantiएतम्etamएवevaतत्tatअनम्anamअनग्नम्anagnamकुर्वन्तःkurvantaḥमन्यन्तेmanyante

अन्वय

सा ह वाक्, यत् वै अहम् वसिष्ठा अस्मि, त्वम् तत् वसिष्ठः असि इति उवाच । चक्षुः, यत् वै अहम् प्रतिष्ठा अस्मि, त्वम् तत् प्रतिष्ठः असि इति [उवाच] । श्रोत्रम्, यत् वै अहम् सम्पत् अस्मि, त्वम् तत् सम्पत् असि इति [उवाच] । मनः, यत् वै अहम् आयतनम् अस्मि, त्वम् तत् आयतनम् असि इति [उवाच] । रेतः, यत् वै अहम् प्रजातिः अस्मि, त्वम् तत् प्रजातिः असि इति [उवाच] । [प्राणः], तस्य उ मे किम् अन्नम्, किम् वासः [अस्ति] इति [पप्रच्छ] । [ते], यत् इदम् किञ्च आ श्वभ्यः, आ कृमिभ्यः, आ कीटपतङ्गेभ्यः [अन्नम् अस्ति], तत् ते अन्नम्; आपः वासः [सन्ति] इति [ऊचुः] । यः एवम् एतत् अनस्य अन्नम् वेद, अस्य जग्धम् अनन्नम् न ह वै भवति, प्रतिगृहीतम् अनन्नम् न [भवति] । तत् विद्वांसः श्रोत्रियाः अशिष्यन्तः आचामन्ति, अशित्वा आचामन्ति; तत् एतम् एव अनम् अनग्नम् कुर्वन्तः मन्यन्ते ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ६, ब्राह्मण १

Read the whole section →