Sunday Meditation· Open to Everyone

अध्याय ४, ब्राह्मण ५

संस्कृत

Passage 26.7

ब्रह्म तं परादाद्योऽन्यत्रात्मनो वेदान् वेद । क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद । लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान् वेद । देवास्तं परादुर्योऽन्यत्रात्मनो देवान् वेद । वेदास्तं परादुर्योऽन्यत्रात्मनो वेदान् वेद । भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद । सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद । इदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमे वेदा इमानि भूतानीदं सर्वं यदयमात्मा ॥ ७ ॥

पदच्छेद

ब्रह्मbrahmaतम्tamपरादात्parādātयःyaḥअन्यत्रanyatraआत्मनःātmanaḥवेदान्vedānवेदvedaक्षत्रम्kṣatramतम्tamपरादात्parādātयःyaḥअन्यत्रanyatraआत्मनःātmanaḥक्षत्रम्kṣatramवेदvedaलोकाःlokāḥतम्tamपरादुःparāduḥयःyaḥअन्यत्रanyatraआत्मनःātmanaḥलोकान्lokānवेदvedaदेवाःdevāḥतम्tamपरादुःparāduḥयःyaḥअन्यत्रanyatraआत्मनःātmanaḥदेवान्devānवेदvedaवेदाःvedāḥतम्tamपरादुःparāduḥयःyaḥअन्यत्रanyatraआत्मनःātmanaḥवेदान्vedānवेदvedaभूतानिbhūtāniतम्tamपरादुःparāduḥयःyaḥअन्यत्रanyatraआत्मनःātmanaḥभूतानिbhūtāniवेदvedaसर्वम्sarvamतम्tamपरादात्parādātयःyaḥअन्यत्रanyatraआत्मनःātmanaḥसर्वम्sarvamवेदvedaइदम्idamब्रह्मbrahmaइदम्idamक्षत्रम्kṣatramइमेimeलोकाःlokāḥइमेimeदेवाःdevāḥइमेimeवेदाःvedāḥइमानिimāniभूतानिbhūtāniइदम्idamसर्वम्sarvamयत्yatअयम्ayamआत्माātmā

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ४, ब्राह्मण ५

Read the whole section →