Sunday Meditation· Open to Everyone

अध्याय ४, ब्राह्मण ५

संस्कृत

Passage 26.15

यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति, तदितर इतरं जिघ्रति, तदितर इतरं रसयते, तदितर इतरमभिवदति, तदितर इतरं शृणोति, तदितर इतरं मनुते. तदितर इतरं स्पृशति, तदितर इतरं विजानाति । यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत्तत्केन कं रसयेत्तत्केन कमभिवदेत्तत्केन कं शृणुयात्तत्केन कं मन्वीत तत्केन कं स्पृशेत्तत्केन कं विजानीयात् । येनेदं सर्वं विजानाति तं केन विजानीयात् । स एष नेति नेत्यात्मा । अगृह्यो न हि गृह्यते । अशीर्यो न हि शीर्यते । असङ्गो न हि सज्यते । असितो न व्यथते न रिष्यति । विज्ञातारमरे केन विजानीयादित्युक्तानुशासनासि मैत्रेयि । एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो विजहार ॥ १५ ॥

पदच्छेद

यत्रyatraहिhiद्वैतम्dvaitamइवivaभवतिbhavatiतत्tatइतरःitaraḥइतरम्itaramपश्यतिpaśyatiतत्tatइतरःitaraḥइतरम्itaramजिघ्रतिjighratiतत्tatइतरःitaraḥइतरम्itaramरसयतेrasayateतत्tatइतरःitaraḥइतरम्itaramअभिवदतिabhivadatiतत्tatइतरःitaraḥइतरम्itaramशृणोतिśṛṇotiतत्tatइतरःitaraḥइतरम्itaramमनुतेmanuteतत्tatइतरःitaraḥइतरम्itaramस्पृशतिspṛśatiतत्tatइतरःitaraḥइतरम्itaramविजानातिvijānātiयत्रyatraतुtuअस्यasyaसर्वम्sarvamआत्माātmāएवevaअभूत्abhūtतत्tatकेनkenaकम्kamपश्येत्paśyetतत्tatकेनkenaकम्kamजिघ्रेत्jighretतत्tatकेनkenaकम्kamरसयेत्rasayetतत्tatकेनkenaकम्kamअभिवदेत्abhivadetतत्tatकेनkenaकम्kamशृणुयात्śṛṇuyātतत्tatकेनkenaकम्kamमन्वीतmanvītaतत्tatकेनkenaकम्kamस्पृशेत्spṛśetतत्tatकेनkenaकम्kamविजानीयात्vijānīyātयेनyenaइदम्idamसर्वम्sarvamविजानातिvijānātiतम्tamकेनkenaविजानीयात्vijānīyātसःsaḥएषःeṣaḥनnaइतिitiनnaइतिitiआत्माātmāअगृह्यःagṛhyaḥनnaहिhiगृह्यतेgṛhyateअशीर्यःaśīryaḥनnaहिhiशीर्यतेśīryateअसङ्गःasaṅgaḥनnaहिhiसज्यतेsajyateअसितःasitaḥनnaव्यथतेvyathateनnaरिष्यतिriṣyatiविज्ञातारम्vijñātāramअरेareकेनkenaविजानीयात्vijānīyātइतिitiउक्तानुशासनाuktānuśāsanāअसिasiमैत्रेयिmaitreyiएतावत्etāvatअरेareखलुkhaluअमृतत्वम्amṛtatvamइतिitiहhaउक्त्वाuktvāयाज्ञवल्क्यःyājñavalkyaḥविजहारvijahāra

अन्वय

यत्र हि द्वैतम् इव भवति, तत् इतरः इतरम् पश्यति; तत् इतरः इतरम् जिघ्रति; तत् इतरः इतरम् रसयते; तत् इतरः इतरम् अभिवदति; तत् इतरः इतरम् शृणोति; तत् इतरः इतरम् मनुते; तत् इतरः इतरम् स्पृशति; तत् इतरः इतरम् विजानाति । यत्र तु अस्य सर्वम् आत्मा एव अभूत्, तत् केन कम् पश्येत्; तत् केन कम् जिघ्रेत्; तत् केन कम् रसयेत्; तत् केन कम् अभिवदेत्; तत् केन कम् शृणुयात्; तत् केन कम् मन्वीत; तत् केन कम् स्पृशेत्; तत् केन कम् विजानीयात् । येन इदम् सर्वम् विजानाति, तम् केन विजानीयात् । सः एषः न इति न इति आत्मा [अस्ति]; अगृह्यः [अस्ति], हि न गृह्यते; अशीर्यः [अस्ति], हि न शीर्यते; असङ्गः [अस्ति], हि न सज्यते; असितः [अस्ति], न व्यथते, न रिष्यति । अरे मैत्रेयि, विज्ञातारम् केन विजानीयात् इति उक्तानुशासना असि । अरे, एतावत् खलु अमृतत्वम् [अस्ति] इति ह उक्त्वा याज्ञवल्क्यः विजहार ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ४, ब्राह्मण ५

Read the whole section →