Sunday Meditation· Open to Everyone

अध्याय ४, ब्राह्मण ५

संस्कृत

Passage 26.6

स होवाच । न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति । न वा अरे पशूनां कामाय पशवः प्रियं भवत्यात्मनस्तु कामाय पशवः प्रियं भवति । न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति । न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति । न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति । न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति । न वा अरे वेदानां कामाय वेदाः प्रिया भवन्त्यात्मनस्तु कामाय वेदाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि । आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम् ॥ ६ ॥

पदच्छेद

सःsaḥहhaउवाचuvācaनnaवैvaiअरेareपत्युःpatyuḥकामायkāmāyaपतिःpatiḥप्रियःpriyaḥभवतिbhavatiआत्मनःātmanaḥतुtuकामायkāmāyaपतिःpatiḥप्रियःpriyaḥभवतिbhavatiनnaवैvaiअरेareजायायैjāyāyaiकामायkāmāyaजायाjāyāप्रियाpriyāभवतिbhavatiआत्मनःātmanaḥतुtuकामायkāmāyaजायाjāyāप्रियाpriyāभवतिbhavatiनnaवैvaiअरेareपुत्राणाम्putrāṇāmकामायkāmāyaपुत्राःputrāḥप्रियाःpriyāḥभवन्तिbhavantiआत्मनःātmanaḥतुtuकामायkāmāyaपुत्राःputrāḥप्रियाःpriyāḥभवन्तिbhavantiनnaवैvaiअरेareवित्तस्यvittasyaकामायkāmāyaवित्तम्vittamप्रियम्priyamभवतिbhavatiआत्मनःātmanaḥतुtuकामायkāmāyaवित्तम्vittamप्रियम्priyamभवतिbhavatiनnaवैvaiअरेareपशूनाम्paśūnāmकामायkāmāyaपशवःpaśavaḥप्रियम्priyamभवतिbhavatiआत्मनःātmanaḥतुtuकामायkāmāyaपशवःpaśavaḥप्रियम्priyamभवतिbhavatiनnaवैvaiअरेareब्रह्मणःbrahmaṇaḥकामायkāmāyaब्रह्मbrahmaप्रियम्priyamभवतिbhavatiआत्मनःātmanaḥतुtuकामायkāmāyaब्रह्मbrahmaप्रियम्priyamभवतिbhavatiनnaवैvaiअरेareक्षत्रस्यkṣatrasyaकामायkāmāyaक्षत्रम्kṣatramप्रियम्priyamभवतिbhavatiआत्मनःātmanaḥतुtuकामायkāmāyaक्षत्रम्kṣatramप्रियम्priyamभवतिbhavatiनnaवैvaiअरेareलोकानाम्lokānāmकामायkāmāyaलोकाःlokāḥप्रियाःpriyāḥभवन्तिbhavantiआत्मनःātmanaḥतुtuकामायkāmāyaलोकाःlokāḥप्रियाःpriyāḥभवन्तिbhavantiनnaवैvaiअरेareदेवानाम्devānāmकामायkāmāyaदेवाःdevāḥप्रियाःpriyāḥभवन्तिbhavantiआत्मनःātmanaḥतुtuकामायkāmāyaदेवाःdevāḥप्रियाःpriyāḥभवन्तिbhavantiनnaवैvaiअरेareवेदानाम्vedānāmकामायkāmāyaवेदाःvedāḥप्रियाःpriyāḥभवन्तिbhavantiआत्मनःātmanaḥतुtuकामायkāmāyaवेदाःvedāḥप्रियाःpriyāḥभवन्तिbhavantiनnaवैvaiअरेareभूतानाम्bhūtānāmकामायkāmāyaभूतानिbhūtāniप्रियाणिpriyāṇiभवन्तिbhavantiआत्मनःātmanaḥतुtuकामायkāmāyaभूतानिbhūtāniप्रियाणिpriyāṇiभवन्तिbhavantiनnaवैvaiअरेareसर्वस्यsarvasyaकामायkāmāyaसर्वम्sarvamप्रियम्priyamभवतिbhavatiआत्मनःātmanaḥतुtuकामायkāmāyaसर्वम्sarvamप्रियम्priyamभवतिbhavatiआत्माātmāवैvaiअरेareद्रष्टव्यःdraṣṭavyaḥश्रोतव्यःśrotavyaḥमन्तव्यःmantavyaḥनिदिध्यासितव्यःnididhyāsitavyaḥमैत्रेयिmaitreyiआत्मनिātmaniखलुkhaluअरेareदृष्टेdṛṣṭeश्रुतेśruteमतेmateविज्ञातेvijñāteइदम्idamसर्वम्sarvamविदितम्viditam

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ४, ब्राह्मण ५

Read the whole section →