Sunday Meditation· Open to Everyone

अध्याय ३, ब्राह्मण २

संस्कृत

Passage 14.13

याज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवीं शरीरमाकाशमात्मौषधीर्लोमानि वनस्पतीन् केशा अप्सु लोहितं च रेतश्च निधीयते क्वायं तदा पुरुषो भवतीति । आहर सौम्य हस्तम् आर्तभाग । आवामेवैतस्य वेदिष्यावो न नावेतत्सजन इति । तौ होत्क्रम्य मन्त्रयां चक्राते । तौ ह यदूचतुः कर्म हैव तदूचतुः । अथ ह यत्प्रशंसतुः कर्म हैव तत्प्रशशंसतुः । पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति । ततो ह जारत्कारव आर्तभाग उपरराम ॥ १३ ॥

पदच्छेद

याज्ञवल्क्यyājñavalkyaइतिitiहhaउवाचuvācaयत्रyatraअस्यasyaपुरुषस्यpuruṣasyaमृतस्यmṛtasyaअग्निम्agnimवाक्vākअप्येतिapyetiवातम्vātamप्राणःprāṇaḥचक्षुःcakṣuḥआदित्यम्ādityamमनःmanaḥचन्द्रम्candramदिशःdiśaḥश्रोत्रम्śrotramपृथिवीम्pṛthivīmशरीरम्śarīramआकाशम्ākāśamआत्माātmāओषधीःoṣadhīḥलोमानिlomāniवनस्पतीन्vanaspatīnकेशाःkeśāḥअप्सुapsuलोहितम्lohitamचcaरेतःretaḥचcaनिधीयतेnidhīyateक्वkvaअयम्ayamतदाtadāपुरुषःpuruṣaḥभवतिbhavatiइतिitiआहरāharaसौम्यsaumyaहस्तम्hastamआर्तभागārtabhāgaआवाम्āvāmएवevaएतस्यetasyaवेदिष्यावःvediṣyāvaḥनnaनौnauएतत्etatसजनेsajaneइतिitiतौtauहhaउत्क्रम्यutkramyaमन्त्रयाम्mantrayāmचक्रातेcakrāteतौtauहhaयत्yatऊचतुःūcatuḥकर्मkarmaहhaएवevaतत्tatऊचतुःūcatuḥअथathaहhaयत्yatप्रशंसतुःpraśaṃsatuḥकर्मkarmaहhaएवevaतत्tatप्रशशंसतुःpraśaśaṃsatuḥपुण्यःpuṇyaḥवैvaiपुण्येनpuṇyenaकर्मणाkarmaṇāभवतिbhavatiपापःpāpaḥपापेनpāpenaइतिitiततःtataḥहhaजारत्कारवःjāratkāravaḥआर्तभागःārtabhāgaḥउपररामupararāma

अन्वय

[आर्तभागः] ह उवाच—याज्ञवल्क्य, यत्र अस्य मृतस्य पुरुषस्य वाक् अग्निम् अप्येति, प्राणः वातम् [अप्येति], चक्षुः आदित्यम् [अप्येति], मनः चन्द्रम् [अप्येति], श्रोत्रम् दिशः [अप्येति], शरीरम् पृथिवीम् [अप्येति], आत्मा आकाशम् [अप्येति], लोमानि ओषधीः [अपियन्ति], केशाः वनस्पतीन् [अपियन्ति], लोहितम् च रेतः च अप्सु निधीयते, तदा अयम् पुरुषः क्व भवति इति । [याज्ञवल्क्यः आह—] सौम्य आर्तभाग, हस्तम् आहर । आवाम् एव एतस्य वेदिष्यावः; नौ एतत् सजने न [निर्णेतुम् शक्यम्] इति । तौ ह उत्क्रम्य मन्त्रयाम् चक्राते । तौ ह यत् ऊचतुः, तत् कर्म ह एव ऊचतुः । अथ ह यत् प्रशंसतुः, तत् कर्म ह एव प्रशशंसतुः । वै [पुरुषः] पुण्येन कर्मणा पुण्यः भवति, पापेन [कर्मणा] पापः [भवति] इति । ततः ह जारत्कारवः आर्तभागः उपरराम ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ३, ब्राह्मण २

Read the whole section →