Sunday Meditation· Open to Everyone

अध्याय २, ब्राह्मण ४

संस्कृत

Passage 10.5

स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति । न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति । न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति । न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति । न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि । आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम् ॥ ५ ॥

पदच्छेद

सःsaḥहhaउवाचuvācaनnaवैvaiअरेareपत्युःpatyuḥकामायkāmāyaपतिःpatiḥप्रियःpriyaḥभवतिbhavatiआत्मनःātmanaḥतुtuकामायkāmāyaपतिःpatiḥप्रियःpriyaḥभवतिbhavatiनnaवैvaiअरेareजायायैjāyāyaiकामायkāmāyaजायाjāyāप्रियाpriyāभवतिbhavatiआत्मनःātmanaḥतुtuकामायkāmāyaजायाjāyāप्रियाpriyāभवतिbhavatiनnaवैvaiअरेareपुत्राणाम्putrāṇāmकामायkāmāyaपुत्राःputrāḥप्रियाःpriyāḥभवन्तिbhavantiआत्मनःātmanaḥतुtuकामायkāmāyaपुत्राःputrāḥप्रियाःpriyāḥभवन्तिbhavantiनnaवैvaiअरेareवित्तस्यvittasyaकामायkāmāyaवित्तम्vittamप्रियम्priyamभवतिbhavatiआत्मनःātmanaḥतुtuकामायkāmāyaवित्तम्vittamप्रियम्priyamभवतिbhavatiनnaवैvaiअरेareब्रह्मणःbrahmaṇaḥकामायkāmāyaब्रह्मbrahmaप्रियम्priyamभवतिbhavatiआत्मनःātmanaḥतुtuकामायkāmāyaब्रह्मbrahmaप्रियम्priyamभवतिbhavatiनnaवैvaiअरेareक्षत्रस्यkṣatrasyaकामायkāmāyaक्षत्रम्kṣatramप्रियम्priyamभवतिbhavatiआत्मनःātmanaḥतुtuकामायkāmāyaक्षत्रम्kṣatramप्रियम्priyamभवतिbhavatiनnaवैvaiअरेareलोकानाम्lokānāmकामायkāmāyaलोकाःlokāḥप्रियाःpriyāḥभवन्तिbhavantiआत्मनःātmanaḥतुtuकामायkāmāyaलोकाःlokāḥप्रियाःpriyāḥभवन्तिbhavantiनnaवैvaiअरेareदेवानाम्devānāmकामायkāmāyaदेवाःdevāḥप्रियाःpriyāḥभवन्तिbhavantiआत्मनःātmanaḥतुtuकामायkāmāyaदेवाःdevāḥप्रियाःpriyāḥभवन्तिbhavantiनnaवैvaiअरेareभूतानाम्bhūtānāmकामायkāmāyaभूतानिbhūtāniप्रियाणिpriyāṇiभवन्तिbhavantiआत्मनःātmanaḥतुtuकामायkāmāyaभूतानिbhūtāniप्रियाणिpriyāṇiभवन्तिbhavantiनnaवैvaiअरेareसर्वस्यsarvasyaकामायkāmāyaसर्वम्sarvamप्रियम्priyamभवतिbhavatiआत्मनःātmanaḥतुtuकामायkāmāyaसर्वम्sarvamप्रियम्priyamभवतिbhavatiआत्माātmāवैvaiअरेareद्रष्टव्यःdraṣṭavyaḥश्रोतव्यःśrotavyaḥमन्तव्यःmantavyaḥनिदिध्यासितव्यःnididhyāsitavyaḥमैत्रेयिmaitreyiआत्मनःātmanaḥवैvaiअरेareदर्शनेनdarśanenaश्रवणेनśravaṇenaमत्याmatyāविज्ञानेनvijñānenaइदम्idamसर्वम्sarvamविदितम्viditam

अन्वय

सः ह उवाच-अरे, पत्युः कामाय पतिः न वा प्रियः भवति; आत्मनः तु कामाय पतिः प्रियः भवति । अरे, जायायै कामाय जाया न वा प्रिया भवति; आत्मनः तु कामाय जाया प्रिया भवति । अरे, पुत्राणाम् कामाय पुत्राः न वा प्रियाः भवन्ति; आत्मनः तु कामाय पुत्राः प्रियाः भवन्ति । अरे, वित्तस्य कामाय वित्तम् न वा प्रियम् भवति; आत्मनः तु कामाय वित्तम् प्रियम् भवति । अरे, ब्रह्मणः कामाय ब्रह्म न वा प्रियम् भवति; आत्मनः तु कामाय ब्रह्म प्रियम् भवति । अरे, क्षत्रस्य कामाय क्षत्रम् न वा प्रियम् भवति; आत्मनः तु कामाय क्षत्रम् प्रियम् भवति । अरे, लोकानाम् कामाय लोकाः न वा प्रियाः भवन्ति; आत्मनः तु कामाय लोकाः प्रियाः भवन्ति । अरे, देवानाम् कामाय देवाः न वा प्रियाः भवन्ति; आत्मनः तु कामाय देवाः प्रियाः भवन्ति । अरे, भूतानाम् कामाय भूतानि न वा प्रियाणि भवन्ति; आत्मनः तु कामाय भूतानि प्रियाणि भवन्ति । अरे, सर्वस्य कामाय सर्वम् न वा प्रियम् भवति; आत्मनः तु कामाय सर्वम् प्रियम् भवति । मैत्रेयि, अरे, आत्मा वा द्रष्टव्यः श्रोतव्यः मन्तव्यः निदिध्यासितव्यः [अस्ति] । अरे, आत्मनः दर्शनेन श्रवणेन मत्या विज्ञानेन वा इदम् सर्वम् विदितम् [भवति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय २, ब्राह्मण ४

Read the whole section →