Sunday Meditation· Open to Everyone

अध्याय २, ब्राह्मण ४

संस्कृत

Passage 10.12

स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत न हास्योद्ग्रहणायेव स्यात् । यतोयतस्त्वाददीत लवणम् । एवं वा अर इदं महद्भूतमनन्तमपारं विज्ञानघन एव । एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति । न प्रेत्य संज्ञास्तीत्यरे ब्रवीमि । इति होवाच याज्ञवल्क्यः ॥ १२ ॥

पदच्छेद

सःsaḥयथाyathāसैन्धवखिल्यःsaindhavakhilyaḥउदकेudakeप्रास्तःprāstaḥउदकम्udakamएवevaअनुविलीयेतanuvilīyetaनnaहhaअस्यasyaउद्ग्रहणायudgrahaṇāyaइवivaस्यात्syātयतःyataḥयतःyataḥतुtuआददीतādadītaलवणम्lavaṇamएवम्evamवैvaiअरेareइदम्idamमहत्mahatभूतम्bhūtamअनन्तम्anantamअपारम्apāramविज्ञानघनःvijñānaghanaḥएवevaएतेभ्यःetebhyaḥभूतेभ्यःbhūtebhyaḥसमुत्थायsamutthāyaतानिtāniएवevaअनुविनश्यतिanuvinaśyatiनnaप्रेत्यpretyaसंज्ञाsaṃjñāअस्तिastiइतिitiअरेareब्रवीमिbravīmiइतिitiहhaउवाचuvācaयाज्ञवल्क्यःyājñavalkyaḥ

अन्वय

सः यथा उदके प्रास्तः सैन्धवखिल्यः उदकम् एव अनुविलीयेत, अस्य उद्ग्रहणाय इव न ह [कश्चित् समर्थः] स्यात्; यतः यतः तु आददीत, [ततः ततः] लवणम् [एव स्यात्] । एवम् वा अर, इदम् महत् भूतम् अनन्तम् अपारम् विज्ञानघनः एव [अस्ति] । [विशेषात्मखिल्यभावः] एतेभ्यः भूतेभ्यः समुत्थाय तानि एव अनुविनश्यति । अरे, प्रेत्य [विशेषरूपा] संज्ञा न अस्ति इति ब्रवीमि इति ह याज्ञवल्क्यः उवाच ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय २, ब्राह्मण ४

Read the whole section →