Sunday Meditation· Open to Everyone

अध्याय ६, ब्राह्मण ३

संस्कृत

Passage 45.2

ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । प्राणाय स्वाहा वसिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । वाचे स्वाहा प्रतिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । चक्षुषे स्वाहा संपदे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । श्रोत्राय स्वाहायतनाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । मनसे स्वाहा प्रजात्यै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । रेतसे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ॥ २ ॥

पदच्छेद

ज्येष्ठायjyeṣṭhāyaस्वाहाsvāhāश्रेष्ठायśreṣṭhāyaस्वाहाsvāhāइतिitiअग्नौagnauहुत्वाhutvāमन्थेmantheसंस्रवम्saṃsravamअवनयतिavanayatiप्राणायprāṇāyaस्वाहाsvāhāवसिष्ठायैvasiṣṭhāyaiस्वाहाsvāhāइतिitiअग्नौagnauहुत्वाhutvāमन्थेmantheसंस्रवम्saṃsravamअवनयतिavanayatiवाचेvāceस्वाहाsvāhāप्रतिष्ठायैpratiṣṭhāyaiस्वाहाsvāhāइतिitiअग्नौagnauहुत्वाhutvāमन्थेmantheसंस्रवम्saṃsravamअवनयतिavanayatiचक्षुषेcakṣuṣeस्वाहाsvāhāसंपदेsaṃpadeस्वाहाsvāhāइतिitiअग्नौagnauहुत्वाhutvāमन्थेmantheसंस्रवम्saṃsravamअवनयतिavanayatiश्रोत्रायśrotrāyaस्वाहाsvāhāआयतनायāyatanāyaस्वाहाsvāhāइतिitiअग्नौagnauहुत्वाhutvāमन्थेmantheसंस्रवम्saṃsravamअवनयतिavanayatiमनसेmanaseस्वाहाsvāhāप्रजात्यैprajātyaiस्वाहाsvāhāइतिitiअग्नौagnauहुत्वाhutvāमन्थेmantheसंस्रवम्saṃsravamअवनयतिavanayatiरेतसेretaseस्वाहाsvāhāइतिitiअग्नौagnauहुत्वाhutvāमन्थेmantheसंस्रवम्saṃsravamअवनयतिavanayati

अन्वय

ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । प्राणाय स्वाहा वसिष्ठायै स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । वाचे स्वाहा प्रतिष्ठायै स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । चक्षुषे स्वाहा सम्पदे स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । श्रोत्राय स्वाहा आयतनाय स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । मनसे स्वाहा प्रजात्यै स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति । रेतसे स्वाहा इति अग्नौ हुत्वा मन्थे संस्रवम् अवनयति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ६, ब्राह्मण ३

Read the whole section →