Sunday Meditation· Open to Everyone

अध्याय ३, ब्राह्मण ८

संस्कृत

Passage 20.9

एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्यचन्द्रमसौ विधृतौ तिष्ठतः । एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः । एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवः संवत्सरा इति विधृतास्तिष्ठन्ति । एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां च दिशमनु । एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशसन्ति यजमानं देवा दर्वीं पितरोऽन्वायत्ताः ॥ ९ ॥

पदच्छेद

एतस्यetasyaवैvaiअक्षरस्यakṣarasyaप्रशासनेpraśāsaneगार्गिgārgiसूर्यचन्द्रमसौsūryacandramasauविधृतौvidhṛtauतिष्ठतःtiṣṭhataḥएतस्यetasyaवैvaiअक्षरस्यakṣarasyaप्रशासनेpraśāsaneगार्गिgārgiद्यावापृथिव्यौdyāvāpṛthivyauविधृतेvidhṛteतिष्ठतःtiṣṭhataḥएतस्यetasyaवैvaiअक्षरस्यakṣarasyaप्रशासनेpraśāsaneगार्गिgārgiनिमेषाःnimeṣāḥमुहूर्ताःmuhūrtāḥअहोरात्राणिahorātrāṇiअर्धमासाःardhamāsāḥमासाःmāsāḥऋतवःṛtavaḥसंवत्सराःsaṃvatsarāḥइतिitiविधृताःvidhṛtāḥतिष्ठन्तिtiṣṭhantiएतस्यetasyaवैvaiअक्षरस्यakṣarasyaप्रशासनेpraśāsaneगार्गिgārgiप्राच्यःprācyaḥअन्याःanyāḥनद्यःnadyaḥस्यन्दन्तेsyandanteश्वेतेभ्यःśvetebhyaḥपर्वतेभ्यःparvatebhyaḥप्रतीच्यःpratīcyaḥअन्याःanyāḥयाम्yāmयाम्yāmचcaदिशम्diśamअनुanuएतस्यetasyaवैvaiअक्षरस्यakṣarasyaप्रशासनेpraśāsaneगार्गिgārgiददतःdadataḥमनुष्याःmanuṣyāḥप्रशसन्तिpraśasantiयजमानम्yajamānamदेवाःdevāḥदर्वीम्darvīmपितरःpitaraḥअन्वायत्ताःanvāyattāḥ

अन्वय

गार्गि, एतस्य वा अक्षरस्य प्रशासने सूर्यचन्द्रमसौ विधृतौ तिष्ठतः । गार्गि, एतस्य वा अक्षरस्य प्रशासने द्यावापृथिव्यौ विधृते तिष्ठतः । गार्गि, एतस्य वा अक्षरस्य प्रशासने निमेषाः मुहूर्ताः अहोरात्राणि अर्धमासाः मासाः ऋतवः संवत्सराः इति विधृताः तिष्ठन्ति । गार्गि, एतस्य वा अक्षरस्य प्रशासने श्वेतेभ्यः पर्वतेभ्यः अन्याः प्राच्यः नद्यः स्यन्दन्ते, अन्याः प्रतीच्यः [नद्यः स्यन्दन्ते], याम् याम् च दिशम् अनु [नद्यः स्यन्दन्ते] । गार्गि, एतस्य वा अक्षरस्य प्रशासने मनुष्याः ददतः प्रशसन्ति; देवाः यजमानम् [अन्वायत्ताः सन्ति]; पितरः दर्वीम् अन्वायत्ताः [सन्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ३, ब्राह्मण ८

Read the whole section →