Sunday Meditation· Open to Everyone

अध्याय ३, ब्राह्मण ८

संस्कृत

Passage 20.10

यो वा एतदक्षरं गार्ग्यविदित्वास्मिंल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः । अथ य एतदक्षरं गार्गि विदित्वास्माल्लोकात्प्रैति स ब्राह्मणः ॥ १० ॥

पदच्छेद

यःyaḥवैvaiएतत्etatअक्षरम्akṣaramगार्गिgārgiअविदित्वाaviditvāअस्मिन्asminलोकेlokeजुहोतिjuhotiयजतेyajateतपःtapaḥतप्यतेtapyateबहूनिbahūniवर्षसहस्राणिvarṣasahasrāṇiअन्तवत्antavatएवevaअस्यasyaतत्tatभवतिbhavatiयःyaḥवैvaiएतत्etatअक्षरम्akṣaramगार्गिgārgiअविदित्वाaviditvāअस्मात्asmātलोकात्lokātप्रैतिpraitiसःsaḥकृपणःkṛpaṇaḥअथathaयःyaḥएतत्etatअक्षरम्akṣaramगार्गिgārgiविदित्वाviditvāअस्मात्asmātलोकात्lokātप्रैतिpraitiसःsaḥब्राह्मणःbrāhmaṇaḥ

अन्वय

गार्गि, यः वा एतत् अक्षरम् अविदित्वा अस्मिन् लोके बहूनि वर्षसहस्राणि जुहोति यजते तपः तप्यते, अस्य तत् अन्तवत् एव भवति । गार्गि, यः वा एतत् अक्षरम् अविदित्वा अस्मात् लोकात् प्रैति, सः कृपणः [अस्ति] । अथ गार्गि, यः एतत् अक्षरम् विदित्वा अस्मात् लोकात् प्रैति, सः ब्राह्मणः [अस्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ३, ब्राह्मण ८

Read the whole section →