Sunday Meditation· Open to Everyone

अध्याय ३, ब्राह्मण १

संस्कृत

Passage 13.7

याज्ञवल्क्येति होवाच कतिभिरयमद्यर्ग्भिर्होतास्मिन् यज्ञे करिष्यतीति । तिसृभिरिति । कतमास्तास्तिस्र इति । पुरोनुवाक्या च याज्या च शस्यैव तृतीया । किं ताभिर्जयतीति । यत्किञ्चेदं प्राणभृदिति ॥ ७ ॥

पदच्छेद

याज्ञवल्क्यyājñavalkyaइतिitiहhaउवाचuvācaकतिभिःkatibhiḥअयम्ayamअद्यadyaऋग्भिःṛgbhiḥहोताhotāअस्मिन्asminयज्ञेyajñeकरिष्यतिkariṣyatiइतिitiतिसृभिःtisṛbhiḥइतिitiकतमाःkatamāḥताःtāḥतिस्रःtisraḥइतिitiपुरोनुवाक्याpuronuvākyāचcaयाज्याyājyāचcaशस्याśasyāएवevaतृतीयाtṛtīyāकिम्kimताभिःtābhiḥजयतिjayatiइतिitiयत्yatकिञ्चkiñcaइदम्idamप्राणभृत्prāṇabhṛtइतिiti

अन्वय

[अश्वलः] ह उवाच—याज्ञवल्क्य, अयम् होता अद्य अस्मिन् यज्ञे कतिभिः ऋग्भिः करिष्यति इति । [याज्ञवल्क्यः आह—] तिसृभिः [ऋग्भिः करिष्यति] इति । [अश्वलः पप्रच्छ—] ताः तिस्रः कतमाः [सन्ति] इति । [याज्ञवल्क्यः आह—] पुरोनुवाक्या च याज्या च शस्या एव तृतीया [सन्ति] । [अश्वलः पप्रच्छ—] ताभिः किम् जयति इति । [याज्ञवल्क्यः आह—] यत् इदम् किम् च प्राणभृत् [अस्ति, तत् जयति] इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ३, ब्राह्मण १

Read the whole section →