Sunday Meditation· Open to Everyone

अध्याय ३, ब्राह्मण १

संस्कृत

Passage 13.9

याज्ञवल्क्येति होवाच कतिभिरयमद्य ब्रह्मा यज्ञं दक्षिणतो देवताभिर्गोपायतीति । एकयेति । कतमा सैकेति । मन एवेति । अनन्तं वै मनोऽनन्ता विश्वे देवाः । अनन्तमेव स तेन लोकं जयति ॥ ९ ॥

पदच्छेद

याज्ञवल्क्यyājñavalkyaइतिitiहhaउवाचuvācaकतिभिःkatibhiḥअयम्ayamअद्यadyaब्रह्माbrahmāयज्ञम्yajñamदक्षिणतःdakṣiṇataḥदेवताभिःdevatābhiḥगोपायतिgopāyatiइतिitiएकयाekayāइतिitiकतमाkatamāसाsāएकाekāइतिitiमनःmanaḥएवevaइतिitiअनन्तम्anantamवैvaiमनःmanaḥअनन्ताःanantāḥविश्वेviśveदेवाःdevāḥअनन्तम्anantamएवevaसःsaḥतेनtenaलोकम्lokamजयतिjayati

अन्वय

[अश्वलः] ह उवाच—याज्ञवल्क्य, अयम् ब्रह्मा अद्य दक्षिणतः कतिभिः देवताभिः यज्ञम् गोपायति इति । [याज्ञवल्क्यः आह—] एकया [देवतया गोपायति] इति । [अश्वलः पप्रच्छ—] सा एका कतमा [अस्ति] इति । [याज्ञवल्क्यः आह—] मनः एव [सा देवता अस्ति] इति । वै मनः अनन्तम् [अस्ति]; विश्वे देवाः अनन्ताः [सन्ति] । सः तेन अनन्तम् एव लोकम् जयति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ३, ब्राह्मण १

Read the whole section →