Sunday Meditation· Open to Everyone

अध्याय ३, ब्राह्मण १

संस्कृत

Passage 13.6

याज्ञवल्क्येति होवाच यदिदमन्तरिक्षमनारम्बणमिव केनाक्रमेण यजमानः स्वर्गं लोकमाक्रमत इति । ब्रह्मणर्त्विजा मनसा चन्द्रेण । मनो वै यज्ञस्य ब्रह्मा । तद्यदिदं मनः सोऽसौ चन्द्रः स ब्रह्मा स मुक्तिः सातिमुक्तिरित्यतिमोक्षा । अथ संपदः ॥ ६ ॥

पदच्छेद

याज्ञवल्क्यyājñavalkyaइतिitiहhaउवाचuvācaयत्yatइदम्idamअन्तरिक्षम्antarikṣamअनारम्बणम्anārambaṇamइवivaकेनkenaआक्रमेणākrameṇaयजमानःyajamānaḥस्वर्गम्svargamलोकम्lokamआक्रमतेākramateइतिitiब्रह्मणाbrahmaṇāऋत्विजाṛtvijāमनसाmanasāचन्द्रेणcandreṇaमनःmanaḥवैvaiयज्ञस्यyajñasyaब्रह्माbrahmāतत्tatयत्yatइदम्idamमनःmanaḥसःsaḥअसौasauचन्द्रःcandraḥसःsaḥब्रह्माbrahmāसःsaḥमुक्तिःmuktiḥसाsāअतिमुक्तिःatimuktiḥइतिitiअतिमोक्षाःatimokṣāḥअथathaसम्पदःsampadaḥ

अन्वय

[अश्वलः] ह उवाच—याज्ञवल्क्य, यत् इदम् अन्तरिक्षम् अनारम्बणम् इव [अस्ति], केन आक्रमेण यजमानः स्वर्गम् लोकम् आक्रमते इति । [याज्ञवल्क्यः आह—यजमानः] ब्रह्मणा ऋत्विजा मनसा चन्द्रेण [आक्रमते] । वै मनः यज्ञस्य ब्रह्मा [अस्ति] । तत् यत् इदम् मनः [अस्ति], सः असौ चन्द्रः [अस्ति]; सः ब्रह्मा [अस्ति]; सः मुक्तिः [अस्ति]; सा अतिमुक्तिः [अस्ति] इति । [इमे] अतिमोक्षाः [उक्ताः] । अथ संपदः [उच्यन्ते] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ३, ब्राह्मण १

Read the whole section →