Sunday Meditation· Open to Everyone

अध्याय ३, ब्राह्मण १

संस्कृत

Passage 13.2

तान् होवाच ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः स एता गा उदजतामिति । ते ह ब्राह्मणा न दधृषुः । अथ ह याज्ञवल्क्यः स्वमेव ब्रह्मचारिणमुवाच एताः सौम्योदज सामश्रवा३ इति । ता होदाचकार । ते ह ब्राह्मणाश्चुक्रुधुः कथं नु नो ब्रह्मिष्ठो ब्रुवीतेति । अथ ह जनकस्य वैदेहस्य होताश्वलो बभूव । स हैनं पप्रच्छ त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी३ इति । स होवाच नमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयं स्म इति । तं ह तत एव प्रष्टुं दध्रे होताश्वलः ॥ २ ॥

पदच्छेद

तान्tānहhaउवाचuvācaब्राह्मणाःbrāhmaṇāḥभगवन्तःbhagavantaḥयःyaḥवःvaḥब्रह्मिष्ठःbrahmiṣṭhaḥसःsaḥएताःetāḥगाःgāḥउदजताम्udajatāmइतिitiतेteहhaब्राह्मणाःbrāhmaṇāḥनnaदधृषुःdadhṛṣuḥअथathaहhaयाज्ञवल्क्यःyājñavalkyaḥस्वम्svamएवevaब्रह्मचारिणम्brahmacāriṇamउवाचuvācaएताःetāḥसौम्यsaumyaउदजudajaसामश्रवःsāmaśravaḥइतिitiताःtāḥहhaउदाचकारudācakāraतेteहhaब्राह्मणाःbrāhmaṇāḥचुक्रुधुःcukrudhuḥकथम्kathamनुnuनःnaḥब्रह्मिष्ठःbrahmiṣṭhaḥब्रुवीतbruvītaइतिitiअथathaहhaजनकस्यjanakasyaवैदेहस्यvaidehasyaहोताhotāअश्वलःaśvalaḥबभूवbabhūvaसःsaḥहhaएनम्enamपप्रच्छpapracchaत्वम्tvamनुnuखलुkhaluनःnaḥयाज्ञवल्क्यyājñavalkyaब्रह्मिष्ठःbrahmiṣṭhaḥअसिasiइतिitiसःsaḥहhaउवाचuvācaनमःnamaḥवयम्vayamब्रह्मिष्ठायbrahmiṣṭhāyaकुर्मःkurmaḥगोकामाःgokāmāḥएवevaवयम्vayamस्मःsmaḥइतिitiतम्tamहhaततःtataḥएवevaप्रष्टुम्praṣṭumदध्रेdadhreहोताhotāअश्वलःaśvalaḥ

अन्वय

[जनकः] तान् ह उवाच—ब्राह्मणाः भगवन्तः, यः वः ब्रह्मिष्ठः [अस्ति], सः एताः गाः उदजताम् इति । ते ह ब्राह्मणाः न दधृषुः । अथ ह याज्ञवल्क्यः स्वम् एव ब्रह्मचारिणम् उवाच—सौम्य, सामश्रवा३, एताः [गाः] उदज इति । [सः] ताः ह उदाचकार । ते ह ब्राह्मणाः चुक्रुधुः—कथम् नु नः ब्रह्मिष्ठः ब्रुवीत इति । अथ ह वैदेहस्य जनकस्य होता अश्वलः बभूव । सः ह एनम् पप्रच्छ—याज्ञवल्क्य, त्वम् नु खलु नः ब्रह्मिष्ठः असी३ इति । सः ह उवाच—वयम् ब्रह्मिष्ठाय नमः कुर्मः; वयम् एव गोकामाः स्मः इति । ततः एव ह होता अश्वलः तम् प्रष्टुम् दध्रे ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ३, ब्राह्मण १

Read the whole section →