Sunday Meditation· Open to Everyone

अध्याय ३, ब्राह्मण १

संस्कृत

Passage 13.10

याज्ञवल्क्येति होवाच कत्ययमद्योद्गातास्मिन् यज्ञे स्तोत्रियाः स्तोष्यतीति । तिस्र इति । कतमास्तास्तिस्र इति । पुरोनुवाक्या च याज्या च शस्यैव तृतीया । कतमास्ताः । या अध्यात्ममिति । प्राण एव पुरोनुवाक्यापानो याज्या व्यानः शस्या । किं ताभिर्जयतीति । पृथिवीलोकमेव पुरोनुवाक्यया जयत्यन्तरिक्षलोकं याज्यया द्युलोकं शस्यया । ततो ह होताश्वल उपरराम ॥ १० ॥

पदच्छेद

याज्ञवल्क्यyājñavalkyaइतिitiहhaउवाचuvācaकतिkatiअयम्ayamअद्यadyaउद्गाताudgātāअस्मिन्asminयज्ञेyajñeस्तोत्रियाःstotriyāḥस्तोष्यतिstoṣyatiइतिitiतिस्रःtisraḥइतिitiकतमाःkatamāḥताःtāḥतिस्रःtisraḥइतिitiपुरोनुवाक्याpuronuvākyāचcaयाज्याyājyāचcaशस्याśasyāएवevaतृतीयाtṛtīyāकतमाःkatamāḥताःtāḥयाःyāḥअध्यात्मम्adhyātmamइतिitiप्राणःprāṇaḥएवevaपुरोनुवाक्याpuronuvākyāअपानःapānaḥयाज्याyājyāव्यानःvyānaḥशस्याśasyāकिम्kimताभिःtābhiḥजयतिjayatiइतिitiपृथिवीलोकम्pṛthivīlokamएवevaपुरोनुवाक्ययाpuronuvākyayāजयतिjayatiअन्तरिक्षलोकम्antarikṣalokamयाज्ययाyājyayāद्युलोकम्dyulokamशस्ययाśasyayāततःtataḥहhaहोताhotāअश्वलःaśvalaḥउपररामupararāma

अन्वय

[अश्वलः] ह उवाच—याज्ञवल्क्य, अयम् उद्गाता अद्य अस्मिन् यज्ञे कति स्तोत्रियाः स्तोष्यति इति । [याज्ञवल्क्यः आह—] तिस्रः [स्तोत्रियाः स्तोष्यति] इति । [अश्वलः पप्रच्छ—] ताः तिस्रः कतमाः [सन्ति] इति । [याज्ञवल्क्यः आह—] पुरोनुवाक्या च याज्या च शस्या एव तृतीया [सन्ति] । [अश्वलः पप्रच्छ—] ताः कतमाः [सन्ति] । [याज्ञवल्क्यः आह—] याः अध्यात्मम् [सन्ति ताः] इति । प्राणः एव पुरोनुवाक्या [अस्ति]; अपानः याज्या [अस्ति]; व्यानः शस्या [अस्ति] । [अश्वलः पप्रच्छ—] ताभिः किम् जयति इति । [याज्ञवल्क्यः आह—] पुरोनुवाक्यया पृथिवीलोकम् एव जयति; याज्यया अन्तरिक्षलोकम् [जयति]; शस्यया द्युलोकम् [जयति] । ततः ह होता अश्वलः उपरराम ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ३, ब्राह्मण १

Read the whole section →