Sunday Meditation· Open to Everyone

अध्याय ५, ब्राह्मण १४

संस्कृत

Passage 41.6

स य इमांस्त्रींल्लोकान् पूर्णान् प्रतिगृह्णीयात्सोऽस्या एतत्प्रथमं पदमाप्नुयात् । अथ यावतीयं त्रयी विद्या यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतद्द्वितीयं पदमाप्नुयात् । अथ यावदिदं प्राणि यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतत्तृतीयं पदमाप्नुयात् । अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति । नैव केन चनाप्यम् । कुत उ एतावत्प्रतिगृह्णीयात् ॥ ६ ॥

पदच्छेद

सःsaḥयःyaḥइमान्imānत्रीन्trīnलोकान्lokānपूर्णान्pūrṇānप्रतिगृह्णीयात्pratigṛhṇīyātसःsaḥअस्याःasyāḥएतत्etatप्रथमम्prathamamपदम्padamआप्नुयात्āpnuyātअथathaयावतीyāvatīइयम्iyamत्रयीtrayīविद्याvidyāयःyaḥतावत्tāvatप्रतिगृह्णीयात्pratigṛhṇīyātसःsaḥअस्याःasyāḥएतत्etatद्वितीयम्dvitīyamपदम्padamआप्नुयात्āpnuyātअथathaयावत्yāvatइदम्idamप्राणिprāṇiयःyaḥतावत्tāvatप्रतिगृह्णीयात्pratigṛhṇīyātसःsaḥअस्याःasyāḥएतत्etatतृतीयम्tṛtīyamपदम्padamआप्नुयात्āpnuyātअथathaअस्याःasyāḥएतत्etatएवevaतुरीयम्turīyamदर्शतम्darśatamपदम्padamपरोरजाःparorajāḥयःyaḥएषःeṣaḥतपतिtapatiनnaएवevaकेनkenaचनcanaआप्यम्āpyamकुतःkutaḥउuएतावत्etāvatप्रतिगृह्णीयात्pratigṛhṇīyāt

अन्वय

सः यः इमान् त्रीन् लोकान् पूर्णान् प्रतिगृह्णीयात्, सः अस्याः एतत् प्रथमम् पदम् आप्नुयात् । अथ इयम् त्रयी विद्या यावती [अस्ति], यः तावत् प्रतिगृह्णीयात्, सः अस्याः एतत् द्वितीयम् पदम् आप्नुयात् । अथ यावत् इदम् प्राणि [अस्ति], यः तावत् प्रतिगृह्णीयात्, सः अस्याः एतत् तृतीयम् पदम् आप्नुयात् । अथ यः एषः परोरजाः तपति, [सः] अस्याः एतत् एव तुरीयम् दर्शतम् पदम् [अस्ति] । [तत्] केन चन नैव आप्यम् [अस्ति] । कुतः उ एतावत् प्रतिगृह्णीयात् ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ५, ब्राह्मण १४

Read the whole section →