Sunday Meditation· Open to Everyone

अध्याय ५, ब्राह्मण १४

संस्कृत

Passage 41.5

तां हैतामेके सावित्रीमनुष्टुभमन्वाहुः । वागनुष्टुप् । एतद्वाचमनुब्रूम इति । न तथा कुर्यात् । गायत्रीमेव सावित्रीमनुब्रूयात् । यदि ह वा अप्येवंविद्बह्विव प्रतिगृह्णाति न हैव तद्गायत्र्या एकं चन पदं प्रति ॥ ५ ॥

पदच्छेद

ताम्tāmहhaएताम्etāmएकेekeसावित्रीम्sāvitrīmअनुष्टुभम्anuṣṭubhamअन्वाहुःanvāhuḥवाक्vākअनुष्टुप्anuṣṭupएतत्etatवाचम्vācamअनुब्रूमःanubrūmaḥइतिitiनnaतथाtathāकुर्यात्kuryātगायत्रीम्gāyatrīmएवevaसावित्रीम्sāvitrīmअनुब्रूयात्anubrūyātयदिyadiहhaवैvaiअपिapiएवम्वित्evamvitबहुbahuइवivaप्रतिगृह्णातिpratigṛhṇātiनnaहhaएवevaतत्tatगायत्र्याःgāyatryāḥएकम्ekamचनcanaपदम्padamप्रतिprati

अन्वय

एके ताम् ह एताम् अनुष्टुभम् सावित्रीम्, वाक् अनुष्टुप् [अस्ति]; एतत् वाचम् अनुब्रूमः इति अन्वाहुः । तथा न कुर्यात्; गायत्रीम् एव सावित्रीम् अनुब्रूयात् । यदि ह वै अपि एवम्वित् बहु इव प्रतिगृह्णाति, तत् गायत्र्याः एकम् चन पदम् प्रति न ह एव [पर्याप्तम् भवति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ५, ब्राह्मण १४

Read the whole section →