Sunday Meditation· Open to Everyone

अध्याय ४, ब्राह्मण १

संस्कृत

Passage 22.7

यदेव ते कश्चिदब्रवीत्तच्छृणवामेति । अब्रवीन्मे विदग्धः शाकल्यः । हृदयं वै ब्रह्मेति । यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तच्छाकल्योऽब्रवीद्धृदयं वै ब्रह्मेति । अहृदयस्य हि किं स्यादिति । अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् । न मेऽब्रवीदिति । एकपाद्वा एतत्सम्राडिति । स वै नो ब्रूहि याज्ञवल्क्य । हृदयमेवायतनमाकाशः प्रतिष्ठा । स्थितिरित्येनदुपासीत । का स्थितिता याज्ञवल्क्य । हृदयमेव सम्राडिति होवाच । हृदयं वै सम्राट्सर्वेषां भूतानामायतनम् । हृदयं वै सम्राट्सर्वेषां भूतानां प्रतिष्ठा । हृदये ह्येव सम्राट्सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति । हृदयं वै सम्राट्परमं ब्रह्म । नैनं हृदयं जहाति । सर्वाण्येनं भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति । य एवं विद्वानेतदुपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ७ ॥

पदच्छेद

यत्yatएवevaतेteकःkaḥचित्citअब्रवीत्abravītतत्tatशृणवामśṛṇavāmaइतिitiअब्रवीत्abravītमेmeविदग्धःvidagdhaḥशाकल्यःśākalyaḥहृदयम्hṛdayamवैvaiब्रह्मbrahmaइतिitiयथाyathāमातृमान्mātṛmānपितृमान्pitṛmānआचार्यवान्ācāryavānब्रूयात्brūyātतथाtathāतत्tatशाकल्यःśākalyaḥअब्रवीत्abravītहृदयम्hṛdayamवैvaiब्रह्मbrahmaइतिitiअहृदयस्यahṛdayasyaहिhiकिम्kimस्यात्syātइतिitiअब्रवीत्abravītतुtuतेteतस्यtasyaआयतनम्āyatanamप्रतिष्ठाम्pratiṣṭhāmनnaमेmeअब्रवीत्abravītइतिitiएकपात्ekapātवैvaiएतत्etatसम्राट्samrāṭइतिitiसःsaḥवैvaiनःnaḥब्रूहिbrūhiयाज्ञवल्क्यyājñavalkyaहृदयम्hṛdayamएवevaआयतनम्āyatanamआकाशःākāśaḥप्रतिष्ठाpratiṣṭhāस्थितिःsthitiḥइतिitiएनत्enatउपासीतupāsītaकाkāस्थितिताsthititāयाज्ञवल्क्यyājñavalkyaहृदयम्hṛdayamएवevaसम्राट्samrāṭइतिitiहhaउवाचuvācaहृदयम्hṛdayamवैvaiसम्राट्samrāṭसर्वेषाम्sarveṣāmभूतानाम्bhūtānāmआयतनम्āyatanamहृदयम्hṛdayamवैvaiसम्राट्samrāṭसर्वेषाम्sarveṣāmभूतानाम्bhūtānāmप्रतिष्ठाpratiṣṭhāहृदयेhṛdayeहिhiएवevaसम्राट्samrāṭसर्वाणिsarvāṇiभूतानिbhūtāniप्रतिष्ठितानिpratiṣṭhitāniभवन्तिbhavantiहृदयम्hṛdayamवैvaiसम्राट्samrāṭपरमम्paramamब्रह्मbrahmaनnaएनम्enamहृदयम्hṛdayamजहातिjahātiसर्वाणिsarvāṇiएनम्enamभूतानिbhūtāniअभिक्षरन्तिabhikṣarantiदेवःdevaḥभूत्वाbhūtvāदेवान्devānअप्येतिapyetiयःyaḥएवम्evamविद्वान्vidvānएतत्etatउपास्तेupāsteहस्त्यृषभम्hastyṛṣabhamसहस्रम्sahasramददामिdadāmiइतिitiहhaउवाचuvācaजनकःjanakaḥवैदेहःvaidehaḥसःsaḥहhaउवाचuvācaयाज्ञवल्क्यःyājñavalkyaḥपिताpitāमेmeअमन्यतamanyataनnaअननुशिष्यananuśiṣyaहरेतharetaइतिiti

अन्वय

[याज्ञवल्क्यः आह—] यत् एव ते कश्चित् अब्रवीत्, तत् शृणवाम इति । [जनकः आह—] विदग्धः शाकल्यः मे अब्रवीत्—वै हृदयम् ब्रह्म [अस्ति] इति । [याज्ञवल्क्यः आह—] यथा मातृमान् पितृमान् आचार्यवान् [आचार्यः] ब्रूयात्, तथा शाकल्यः तत् अब्रवीत्—वै हृदयम् ब्रह्म [अस्ति] इति । हि अहृदयस्य किम् स्यात् इति । तु ते तस्य आयतनम् प्रतिष्ठाम् [च] अब्रवीत् [किम्] । [जनकः आह—] मे न अब्रवीत् इति । [याज्ञवल्क्यः आह—] सम्राट्, वा एतत् एकपाद् [ब्रह्म अस्ति] इति । [जनकः आह—] याज्ञवल्क्य, सः वै [त्वम्] नः ब्रूहि । [याज्ञवल्क्यः आह—] हृदयम् एव आयतनम् [अस्ति]; आकाशः प्रतिष्ठा [अस्ति] । स्थितिः इति एनद् उपासीत । [जनकः पप्रच्छ—] याज्ञवल्क्य, का स्थितिता । [याज्ञवल्क्यः] ह उवाच—सम्राट्, हृदयम् एव [स्थितिः अस्ति] इति । सम्राट्, वै हृदयम् सर्वेषाम् भूतानाम् आयतनम् [अस्ति] । सम्राट्, वै हृदयम् सर्वेषाम् भूतानाम् प्रतिष्ठा [अस्ति] । सम्राट्, हि एव हृदये सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति । सम्राट्, वै हृदयम् परमम् ब्रह्म [अस्ति] । यः एवम् विद्वान् एतद् उपास्ते, एनम् हृदयम् न जहाति; सर्वाणि भूतानि एनम् अभिक्षरन्ति; [सः] देवः भूत्वा देवान् अप्येति । जनकः वैदेहः ह उवाच—हस्त्यृषभम् सहस्रम् ददामि इति । सः याज्ञवल्क्यः ह उवाच—मे पिता अमन्यत, अननुशिष्य [धनम्] न हरेत् इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ४, ब्राह्मण १

Read the whole section →