Sunday Meditation· Open to Everyone

अध्याय ४, ब्राह्मण १

संस्कृत

Passage 22.4

यदेव ते कश्चिदब्रवीत्तच्छृणवामेति । अब्रवीन्मे बर्कुर्वार्ष्णः । चक्षुर्वै ब्रह्मेति । यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तद्वार्ष्णोऽब्रवीच्चक्षुर्वै ब्रह्मेति । अपश्यतो हि किं स्यादिति । अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् । न मेऽब्रवीदिति । एकपाद्वा एतत्सम्राडिति । स वै नो ब्रूहि याज्ञवल्क्य । चक्षुरेवायतनमाकाशः प्रतिष्ठा । सत्यमित्येतदुपासीत । का सत्यता याज्ञवल्क्य । चक्षुरेव सम्राडिति होवाच । चक्षुषा वै सम्राट्पश्यन्तमाहुरद्राक्षीरिति । स आहाद्राक्षमिति तत्सत्यं भवति । चक्षुर्वै सम्राट्परमं ब्रह्म । नैनं चक्षुर्जहाति । सर्वाण्येनं भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति । य एवं विद्वानेतदुपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ४ ॥

पदच्छेद

यत्yatएवevaतेteकःkaḥचित्citअब्रवीत्abravītतत्tatशृणवामśṛṇavāmaइतिitiअब्रवीत्abravītमेmeबर्कुःbarkuḥवार्ष्णःvārṣṇaḥचक्षुःcakṣuḥवैvaiब्रह्मbrahmaइतिitiयथाyathāमातृमान्mātṛmānपितृमान्pitṛmānआचार्यवान्ācāryavānब्रूयात्brūyātतथाtathāतत्tatवार्ष्णःvārṣṇaḥअब्रवीत्abravītचक्षुःcakṣuḥवैvaiब्रह्मbrahmaइतिitiअपश्यतःapaśyataḥहिhiकिम्kimस्यात्syātइतिitiअब्रवीत्abravītतुtuतेteतस्यtasyaआयतनम्āyatanamप्रतिष्ठाम्pratiṣṭhāmनnaमेmeअब्रवीत्abravītइतिitiएकपात्ekapātवैvaiएतत्etatसम्राट्samrāṭइतिitiसःsaḥवैvaiनःnaḥब्रूहिbrūhiयाज्ञवल्क्यyājñavalkyaचक्षुःcakṣuḥएवevaआयतनम्āyatanamआकाशःākāśaḥप्रतिष्ठाpratiṣṭhāसत्यम्satyamइतिitiएतत्etatउपासीतupāsītaकाkāसत्यताsatyatāयाज्ञवल्क्यyājñavalkyaचक्षुःcakṣuḥएवevaसम्राट्samrāṭइतिitiहhaउवाचuvācaचक्षुषाcakṣuṣāवैvaiसम्राट्samrāṭपश्यन्तम्paśyantamआहुःāhuḥअद्राक्षीःadrākṣīḥइतिitiसःsaḥआहāhaअद्राक्षम्adrākṣamइतिitiतत्tatसत्यम्satyamभवतिbhavatiचक्षुःcakṣuḥवैvaiसम्राट्samrāṭपरमम्paramamब्रह्मbrahmaनnaएनम्enamचक्षुःcakṣuḥजहातिjahātiसर्वाणिsarvāṇiएनम्enamभूतानिbhūtāniअभिक्षरन्तिabhikṣarantiदेवःdevaḥभूत्वाbhūtvāदेवान्devānअप्येतिapyetiयःyaḥएवम्evamविद्वान्vidvānएतत्etatउपास्तेupāsteहस्त्यृषभम्hastyṛṣabhamसहस्रम्sahasramददामिdadāmiइतिitiहhaउवाचuvācaजनकःjanakaḥवैदेहःvaidehaḥसःsaḥहhaउवाचuvācaयाज्ञवल्क्यःyājñavalkyaḥपिताpitāमेmeअमन्यतamanyataनnaअननुशिष्यananuśiṣyaहरेतharetaइतिiti

अन्वय

[याज्ञवल्क्यः आह—] यत् एव ते कश्चित् अब्रवीत्, तत् शृणवाम इति । [जनकः आह—] बर्कुः वार्ष्णः मे अब्रवीत्—वै चक्षुः ब्रह्म [अस्ति] इति । [याज्ञवल्क्यः आह—] यथा मातृमान् पितृमान् आचार्यवान् [आचार्यः] ब्रूयात्, तथा वार्ष्णः तत् अब्रवीत्—वै चक्षुः ब्रह्म [अस्ति] इति । हि अपश्यतः किम् स्यात् इति । तु ते तस्य आयतनम् प्रतिष्ठाम् [च] अब्रवीत् [किम्] । [जनकः आह—] मे न अब्रवीत् इति । [याज्ञवल्क्यः आह—] सम्राट्, वा एतत् एकपाद् [ब्रह्म अस्ति] इति । [जनकः आह—] याज्ञवल्क्य, सः वै [त्वम्] नः ब्रूहि । [याज्ञवल्क्यः आह—] चक्षुः एव आयतनम् [अस्ति]; आकाशः प्रतिष्ठा [अस्ति] । सत्यम् इति एतद् उपासीत । [जनकः पप्रच्छ—] याज्ञवल्क्य, का सत्यता । [याज्ञवल्क्यः] ह उवाच—सम्राट्, चक्षुः एव [सत्यम् अस्ति] इति । सम्राट्, वै चक्षुषा पश्यन्तम् आहुः—अद्राक्षीः इति । सः आह—अद्राक्षम् इति । तत् सत्यम् भवति । सम्राट्, वै चक्षुः परमम् ब्रह्म [अस्ति] । यः एवम् विद्वान् एतद् उपास्ते, एनम् चक्षुः न जहाति; सर्वाणि भूतानि एनम् अभिक्षरन्ति; [सः] देवः भूत्वा देवान् अप्येति । जनकः वैदेहः ह उवाच—हस्त्यृषभम् सहस्रम् ददामि इति । सः याज्ञवल्क्यः ह उवाच—मे पिता अमन्यत, अननुशिष्य [धनम्] न हरेत् इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ४, ब्राह्मण १

Read the whole section →