Sunday Meditation· Open to Everyone

अध्याय ४, ब्राह्मण १

संस्कृत

Passage 22.5

यदेव ते कश्चिदब्रवीत्तच्छृणवामेति । अब्रवीन्मे गर्दभीविपीतो भारद्वाजः । श्रोत्रं वै ब्रह्मेति । यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तद्भारद्वाजोऽब्रवीच्छ्रोत्रं वै ब्रह्मेति । अशृण्वतो हि किं स्यादिति । अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् । न मेऽब्रवीदिति । एकपाद्वा एतत्सम्राडिति । स वै नो ब्रूहि याज्ञवल्क्य । श्रोत्रमेवायतनमाकाशः प्रतिष्ठानन्तमित्येनदुपासीत । कानन्तता याज्ञवल्क्य । दिश एव सम्राडिति होवाच । तस्माद्वै सम्राडपि यां काञ्च दिशं गच्छति नैवास्या अन्तं गच्छति । अनन्ता हि दिशः । दिशो वै सम्राट्श्रोत्रम् । श्रोत्रं वै सम्राट्परमं ब्रह्म । नैनं श्रोत्रं जहाति । सर्वाण्येनं भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति । य एवं विद्वानेतदुपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ५ ॥

पदच्छेद

यत्yatएवevaतेteकःkaḥचित्citअब्रवीत्abravītतत्tatशृणवामśṛṇavāmaइतिitiअब्रवीत्abravītमेmeगर्दभीविपीतःgardabhīvipītaḥभारद्वाजःbhāradvājaḥश्रोत्रम्śrotramवैvaiब्रह्मbrahmaइतिitiयथाyathāमातृमान्mātṛmānपितृमान्pitṛmānआचार्यवान्ācāryavānब्रूयात्brūyātतथाtathāतत्tatभारद्वाजःbhāradvājaḥअब्रवीत्abravītश्रोत्रम्śrotramवैvaiब्रह्मbrahmaइतिitiअशृण्वतःaśṛṇvataḥहिhiकिम्kimस्यात्syātइतिitiअब्रवीत्abravītतुtuतेteतस्यtasyaआयतनम्āyatanamप्रतिष्ठाम्pratiṣṭhāmनnaमेmeअब्रवीत्abravītइतिitiएकपात्ekapātवैvaiएतत्etatसम्राट्samrāṭइतिitiसःsaḥवैvaiनःnaḥब्रूहिbrūhiयाज्ञवल्क्यyājñavalkyaश्रोत्रम्śrotramएवevaआयतनम्āyatanamआकाशःākāśaḥप्रतिष्ठाpratiṣṭhāअनन्तम्anantamइतिitiएनत्enatउपासीतupāsītaकाkāअनन्तताanantatāयाज्ञवल्क्यyājñavalkyaदिशःdiśaḥएवevaसम्राट्samrāṭइतिitiहhaउवाचuvācaतस्मात्tasmātवैvaiसम्राट्samrāṭअपिapiयाम्yāmकाञ्चkāñcaदिशम्diśamगच्छतिgacchatiनnaएवevaअस्याःasyāḥअन्तम्antamगच्छतिgacchatiअनन्ताःanantāḥहिhiदिशःdiśaḥदिशःdiśaḥवैvaiसम्राट्samrāṭश्रोत्रम्śrotramश्रोत्रम्śrotramवैvaiसम्राट्samrāṭपरमम्paramamब्रह्मbrahmaनnaएनम्enamश्रोत्रम्śrotramजहातिjahātiसर्वाणिsarvāṇiएनम्enamभूतानिbhūtāniअभिक्षरन्तिabhikṣarantiदेवःdevaḥभूत्वाbhūtvāदेवान्devānअप्येतिapyetiयःyaḥएवम्evamविद्वान्vidvānएतत्etatउपास्तेupāsteहस्त्यृषभम्hastyṛṣabhamसहस्रम्sahasramददामिdadāmiइतिitiहhaउवाचuvācaजनकःjanakaḥवैदेहःvaidehaḥसःsaḥहhaउवाचuvācaयाज्ञवल्क्यःyājñavalkyaḥपिताpitāमेmeअमन्यतamanyataनnaअननुशिष्यananuśiṣyaहरेतharetaइतिiti

अन्वय

[याज्ञवल्क्यः आह—] यत् एव ते कश्चित् अब्रवीत्, तत् शृणवाम इति । [जनकः आह—] गर्दभीविपीतः भारद्वाजः मे अब्रवीत्—वै श्रोत्रम् ब्रह्म [अस्ति] इति । [याज्ञवल्क्यः आह—] यथा मातृमान् पितृमान् आचार्यवान् [आचार्यः] ब्रूयात्, तथा भारद्वाजः तत् अब्रवीत्—वै श्रोत्रम् ब्रह्म [अस्ति] इति । हि अशृण्वतः किम् स्यात् इति । तु ते तस्य आयतनम् प्रतिष्ठाम् [च] अब्रवीत् [किम्] । [जनकः आह—] मे न अब्रवीत् इति । [याज्ञवल्क्यः आह—] सम्राट्, वा एतत् एकपाद् [ब्रह्म अस्ति] इति । [जनकः आह—] याज्ञवल्क्य, सः वै [त्वम्] नः ब्रूहि । [याज्ञवल्क्यः आह—] श्रोत्रम् एव आयतनम् [अस्ति]; आकाशः प्रतिष्ठा [अस्ति] । अनन्तम् इति एनद् उपासीत । [जनकः पप्रच्छ—] याज्ञवल्क्य, का अनन्तता । [याज्ञवल्क्यः] ह उवाच—सम्राट्, दिशः एव [अनन्ताः सन्ति] इति । सम्राट्, वै तस्मात् अपि याम् काम् च दिशम् [पुरुषः] गच्छति, अस्याः अन्तम् न एव गच्छति । हि दिशः अनन्ताः [सन्ति] । सम्राट्, वै दिशः श्रोत्रम् [सन्ति] । सम्राट्, वै श्रोत्रम् परमम् ब्रह्म [अस्ति] । यः एवम् विद्वान् एतद् उपास्ते, एनम् श्रोत्रम् न जहाति; सर्वाणि भूतानि एनम् अभिक्षरन्ति; [सः] देवः भूत्वा देवान् अप्येति । जनकः वैदेहः ह उवाच—हस्त्यृषभम् सहस्रम् ददामि इति । सः याज्ञवल्क्यः ह उवाच—मे पिता अमन्यत, अननुशिष्य [धनम्] न हरेत् इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ४, ब्राह्मण १

Read the whole section →