Sunday Meditation· Open to Everyone

अध्याय २, ब्राह्मण ३

संस्कृत

Passage 9.5

अथामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाशः । एतदमृतम् । एतद्यत् । एतत्त्यत् । तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षिणेऽक्षन् पुरुषः । त्यस्य ह्येष रसः ॥ ५ ॥

पदच्छेद

अथathaअमूर्तम्amūrtamप्राणःprāṇaḥचcaयःyaḥचcaअयम्ayamअन्तःantaḥआत्मन्ātmanआकाशःākāśaḥएतत्etatअमृतम्amṛtamएतत्etatयत्yatएतत्etatत्यत्tyatतस्यtasyaएतस्यetasyaअमूर्तस्यamūrtasyaएतस्यetasyaअमृतस्यamṛtasyaएतस्यetasyaयतःyataḥएतस्यetasyaत्यस्यtyasyaएषःeṣaḥरसःrasaḥयःyaḥअयम्ayamदक्षिणेdakṣiṇeअक्षन्akṣanपुरुषःpuruṣaḥत्यस्यtyasyaहिhiएषःeṣaḥरसःrasaḥ

अन्वय

अथ प्राणः च यः च अयम् अन्तरात्मन् आकाशः [अस्ति], [एतत्] अमूर्तम् [अस्ति] । एतत् अमृतम् [अस्ति]; एतत् यत् [अस्ति]; एतत् त्यत् [अस्ति] । यः अयम् दक्षिणे अक्षन् पुरुषः [अस्ति], एषः तस्य एतस्य अमूर्तस्य एतस्य अमृतस्य एतस्य यतः एतस्य त्यस्य रसः [अस्ति] । हि एषः त्यस्य रसः [अस्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय २, ब्राह्मण ३

Read the whole section →