Sunday Meditation· Open to Everyone

अध्याय ४, ब्राह्मण २

संस्कृत

Passage 23.3

अथैतद्वामेऽक्षणि पुरुषरूपमेषास्य पत्नी विराट् । तयोरेष संस्तावो य एषोऽन्तर्हृदय आकाशः । अथैनयोरेतदन्नं य एषोऽन्तर्हृदये लोहितपिण्डः । अथैनयोरेतत्प्रावरणं यदेतदन्तर्हृदये जालकमिव । अथैनयोरेषा सृतिः संचरणी यैषा हृदयादूर्ध्वा नाड्युच्चरति । यथा केशः सहस्रधा भिन्न एवमस्यैता हिता नाम नाड्योऽन्तर्हृदये प्रतिष्ठिता भवन्ति । एताभिर्वा एतदास्रवदास्रवति । तस्मादेष प्रविविक्ताहारतर इव भवत्यस्माच्छारीरादात्मनः ॥ ३ ॥

पदच्छेद

अथathaएतत्etatवामेvāmeअक्षणिakṣaṇiपुरुषरूपम्puruṣarūpamएषाeṣāअस्यasyaपत्नीpatnīविराट्virāṭतयोःtayoḥएषःeṣaḥसंस्तावःsaṃstāvaḥयःyaḥएषःeṣaḥअन्तर्हृदयेantarhṛdayeआकाशःākāśaḥअथathaएनयोःenayoḥएतत्etatअन्नम्annamयःyaḥएषःeṣaḥअन्तर्हृदयेantarhṛdayeलोहितपिण्डःlohitapiṇḍaḥअथathaएनयोःenayoḥएतत्etatप्रावरणम्prāvaraṇamयत्yatएतत्etatअन्तर्हृदयेantarhṛdayeजालकम्jālakamइवivaअथathaएनयोःenayoḥएषाeṣāसृतिःsṛtiḥसञ्चरणीsañcaraṇīयाyāएषाeṣāहृदयात्hṛdayātऊर्ध्वाūrdhvāनाडीnāḍīउच्चरतिuccaratiयथाyathāकेशःkeśaḥसहस्रधाsahasradhāभिन्नःbhinnaḥएवम्evamअस्यasyaएताःetāḥहिताःhitāḥनामnāmaनाड्यःnāḍyaḥअन्तर्हृदयेantarhṛdayeप्रतिष्ठिताःpratiṣṭhitāḥभवन्तिbhavantiएताभिःetābhiḥवैvaiएतत्etatआस्रवत्āsravatआस्रवतिāsravatiतस्मात्tasmātएषःeṣaḥप्रविविक्ताहारतरःpraviviktāhārataraḥइवivaभवतिbhavatiअस्मात्asmātशारीरात्śārīrātआत्मनःātmanaḥ

अन्वय

अथ वामे अक्षणि एतत् पुरुषरूपम् [अस्ति]; एषा अस्य पत्नी विराट् [अस्ति] । यः एषः अन्तर्हृदये आकाशः [अस्ति], एषः तयोः संस्तावः [अस्ति] । अथ यः एषः अन्तर्हृदये लोहितपिण्डः [अस्ति], एतत् एनयोः अन्नम् [अस्ति] । अथ यत् एतत् अन्तर्हृदये जालकम् इव [अस्ति], एतत् एनयोः प्रावरणम् [अस्ति] । अथ या एषा नाडी हृदयात् ऊर्ध्वा उच्चरति, एषा एनयोः संचरणी सृतिः [अस्ति] । यथा केशः सहस्रधा भिन्नः [अस्ति], एवम् अस्य एताः हिता नाम नाड्यः अन्तर्हृदये प्रतिष्ठिताः भवन्ति । एताभिः वा एतत् आस्रवत् आस्रवति । तस्मात् एषः अस्मात् शारीरात् आत्मनः प्रविविक्ताहारतरः इव भवति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ४, ब्राह्मण २

Read the whole section →