Sunday Meditation· Open to Everyone

अध्याय ४, ब्राह्मण २

संस्कृत

Passage 23.4

तस्य प्राची दिक्प्राञ्चः प्राणाः । दक्षिणा दिग्दक्षिणे प्राणाः । प्रतीची दिक्प्रत्यञ्चः प्राणाः । उदीची दिगुदञ्चः प्राणाः । ऊर्ध्वा दिगूर्ध्वाः प्राणाः । अवाची दिगवाञ्चः प्राणाः । सर्वा दिशः सर्वे प्राणाः । स एष नेति नेत्यात्मा । अगृह्यो न हि गृह्यते । अशीर्यो न हि शीर्यते । असङ्गो न हि सज्यते । असितो न व्यथते । न रिष्यति । अभयं वै जनक प्राप्तोऽसीति होवाच याज्ञवल्क्यः । स होवाच जनको वैदेहोऽभयं त्वा गच्छताद्याज्ञवल्क्य यो नो भगवन्नभयं वेदयसे । नमस्तेऽस्तु । इमे विदेहा अयमहमस्मीति ॥ ४ ॥

पदच्छेद

तस्यtasyaप्राचीprācīदिक्dikप्राञ्चःprāñcaḥप्राणाःprāṇāḥदक्षिणाdakṣiṇāदिक्dikदक्षिणेdakṣiṇeप्राणाःprāṇāḥप्रतीचीpratīcīदिक्dikप्रत्यञ्चःpratyañcaḥप्राणाःprāṇāḥउदीचीudīcīदिक्dikउदञ्चःudañcaḥप्राणाःprāṇāḥऊर्ध्वाūrdhvāदिक्dikऊर्ध्वाःūrdhvāḥप्राणाःprāṇāḥअवाचीavācīदिक्dikअवाञ्चःavāñcaḥप्राणाःprāṇāḥसर्वाःsarvāḥदिशःdiśaḥसर्वेsarveप्राणाःprāṇāḥसःsaḥएषःeṣaḥनnaइतिitiनnaइतिitiआत्माātmāअगृह्यःagṛhyaḥनnaहिhiगृह्यतेgṛhyateअशीर्यःaśīryaḥनnaहिhiशीर्यतेśīryateअसङ्गःasaṅgaḥनnaहिhiसज्यतेsajyateअसितःasitaḥनnaव्यथतेvyathateनnaरिष्यतिriṣyatiअभयम्abhayamवैvaiजनकjanakaप्राप्तःprāptaḥअसिasiइतिitiहhaउवाचuvācaयाज्ञवल्क्यःyājñavalkyaḥसःsaḥहhaउवाचuvācaजनकःjanakaḥवैदेहःvaidehaḥअभयम्abhayamत्वाtvāगच्छतात्gacchatātयाज्ञवल्क्यyājñavalkyaयःyaḥनःnaḥभगवन्bhagavanअभयम्abhayamवेदयसेvedayaseनमःnamaḥतेteअस्तुastuइमेimeविदेहाःvidehāḥअयम्ayamअहम्ahamअस्मिasmiइतिiti

अन्वय

तस्य प्राची दिक् प्राञ्चः प्राणाः [सन्ति]; दक्षिणा दिक् दक्षिणे प्राणाः [सन्ति]; प्रतीची दिक् प्रत्यञ्चः प्राणाः [सन्ति]; उदीची दिक् उदञ्चः प्राणाः [सन्ति]; ऊर्ध्वा दिक् ऊर्ध्वाः प्राणाः [सन्ति]; अवाची दिक् अवाञ्चः प्राणाः [सन्ति]; सर्वाः दिशः सर्वे प्राणाः [सन्ति] । सः एषः न इति न इति आत्मा [निर्दिष्टः] । अगृह्यः [अस्ति], हि न गृह्यते; अशीर्यः [अस्ति], हि न शीर्यते; असङ्गः [अस्ति], हि न सज्यते; असितः [अस्ति], न व्यथते, न रिष्यति । याज्ञवल्क्यः ह उवाच—जनक, वै अभयम् प्राप्तः असि इति । सः जनकः वैदेहः ह उवाच—याज्ञवल्क्य, अभयम् त्वा गच्छतात्; भगवन्, यः [त्वम्] नः अभयम् वेदयसे । ते नमः अस्तु । इमे विदेहाः [तव सन्ति]; अयम् अहम् अस्मि इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ४, ब्राह्मण २

Read the whole section →