Sunday Meditation· Open to Everyone

अध्याय २, ब्राह्मण २

संस्कृत

Passage 8.3

तदेष श्लोको भवति अर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम् । तस्यासत ऋषयः सप्त तीरे वागष्टमी ब्रह्मणा संविदानेति । अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इति । इदं तच्छिर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नः । तस्मिन् यशो निहितं विश्वरूपमिति । प्राणा वै यशो विश्वरूपम् । प्राणानेतदाह । तस्यासत ऋषयः सप्त तीर इति । प्राणा वा ऋषयः । प्राणानेतदाह । वागष्टमी ब्रह्मणा संविदानेति । वाग्घ्यष्टमी ब्रह्मणा संवित्ते ॥ ३ ॥

पदच्छेद

तत्tatएषःeṣaḥश्लोकःślokaḥभवतिbhavatiअर्वाग्बिलःarvāgbilaḥचमसःcamasaḥऊर्ध्वबुध्नःūrdhvabudhnaḥतस्मिन्tasminयशःyaśaḥनिहितम्nihitamविश्वरूपम्viśvarūpamतस्यtasyaआसतेāsateऋषयःṛṣayaḥसप्तsaptaतीरेtīreवाक्vākअष्टमीaṣṭamīब्रह्मणाbrahmaṇāसंविदानाsaṃvidānāइतिitiअर्वाग्बिलःarvāgbilaḥचमसःcamasaḥऊर्ध्वबुध्नःūrdhvabudhnaḥइतिitiइदम्idamतत्tatशिरःśiraḥएषःeṣaḥहिhiअर्वाग्बिलःarvāgbilaḥचमसःcamasaḥऊर्ध्वबुध्नःūrdhvabudhnaḥतस्मिन्tasminयशःyaśaḥनिहितम्nihitamविश्वरूपम्viśvarūpamइतिitiप्राणाःprāṇāḥवैvaiयशःyaśaḥविश्वरूपम्viśvarūpamप्राणान्prāṇānएतत्etatआहāhaतस्यtasyaआसतेāsateऋषयःṛṣayaḥसप्तsaptaतीरेtīreइतिitiप्राणाःprāṇāḥवैvaiऋषयःṛṣayaḥप्राणान्prāṇānएतत्etatआहāhaवाक्vākअष्टमीaṣṭamīब्रह्मणाbrahmaṇāसंविदानाsaṃvidānāइतिitiवाक्vākहिhiअष्टमीaṣṭamīब्रह्मणाbrahmaṇāसंवित्तेsaṃvitte

अन्वय

तत् एषः श्लोकः भवति-अर्वाग्बिलः ऊर्ध्वबुध्नः चमसः [अस्ति]; तस्मिन् विश्वरूपम् यशः निहितम् [अस्ति] । तस्य तीरे सप्त ऋषयः आसत; वाक् अष्टमी ब्रह्मणा संविदाना [आसीत्] इति । अर्वाग्बिलः ऊर्ध्वबुध्नः चमसः इति-इदम् तत् शिरः [अस्ति]; हि एषः अर्वाग्बिलः ऊर्ध्वबुध्नः चमसः [अस्ति] । तस्मिन् विश्वरूपम् यशः निहितम् इति-प्राणाः वै विश्वरूपम् यशः [सन्ति]; एतत् प्राणान् आह । तस्य तीरे सप्त ऋषयः आसत इति-प्राणाः वा ऋषयः [सन्ति]; एतत् प्राणान् आह । वाक् अष्टमी ब्रह्मणा संविदाना इति-हि वाक् अष्टमी ब्रह्मणा संवित्ते ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय २, ब्राह्मण २

Read the whole section →