Sunday Meditation· Open to Everyone

अध्याय २, ब्राह्मण २

संस्कृत

Passage 8.2

तमेताः सप्ताक्षितय उपतिष्ठन्ते । तद्या इमा अक्षंल्लोहिन्यो राजयस्ताभिरेनं रुद्रोऽन्वायत्तः । अथ या अक्षन्नापस्ताभिः पर्जन्यः । या कनीनका तयादित्यः । यत्कृष्णं तेनाग्निर् । यच्छुक्लं तेनेन्द्रः । अधरयैनं वर्तन्या पृथिव्यन्वायत्ता । द्यौरुत्तरया । नास्यान्नं क्षीयते य एवं वेद ॥ २ ॥

पदच्छेद

तम्tamएताःetāḥसप्तsaptaअक्षितयःakṣitayaḥउपतिष्ठन्तेupatiṣṭhanteतत्tatयाःyāḥइमाःimāḥअक्षन्akṣanलोहिन्यःlohinyaḥराजयःrājayaḥताभिःtābhiḥएनम्enamरुद्रःrudraḥअन्वायत्तःanvāyattaḥअथathaयाःyāḥअक्षन्akṣanआपःāpaḥताभिःtābhiḥपर्जन्यःparjanyaḥयाyāकनीनकाkanīnakāतयाtayāआदित्यःādityaḥयत्yatकृष्णम्kṛṣṇamतेनtenaअग्निःagniḥयत्yatशुक्लम्śuklamतेनtenaइन्द्रःindraḥअधरयाadharayāएनम्enamवर्तन्याvartanyāपृथिवीpṛthivīअन्वायत्ताanvāyattāद्यौःdyauḥउत्तरयाuttarayāनnaअस्यasyaअन्नम्annamक्षीयतेkṣīyateयःyaḥएवम्evamवेदveda

अन्वय

एताः सप्त अक्षितयः तम् उपतिष्ठन्ते । तत् याः इमाः अक्षन् लोहिन्यः राजयः [सन्ति], ताभिः रुद्रः एनम् अन्वायत्तः [अस्ति] । अथ याः अक्षन् आपः [सन्ति], ताभिः पर्जन्यः [एनम् अन्वायत्तः अस्ति] । या कनीनका [अस्ति], तया आदित्यः [एनम् अन्वायत्तः अस्ति] । यत् कृष्णम् [अस्ति], तेन अग्निः [एनम् अन्वायत्तः अस्ति] । यत् शुक्लम् [अस्ति], तेन इन्द्रः [एनम् अन्वायत्तः अस्ति] । अधरया वर्तन्या पृथिवी एनम् अन्वायत्ता [अस्ति]; उत्तरया [वर्तन्या] द्यौः [एनम् अन्वायत्ता अस्ति] । यः एवम् वेद, अस्य अन्नम् न क्षीयते ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय २, ब्राह्मण २

Read the whole section →