Sunday Meditation· Open to Everyone

अध्याय ५, ब्राह्मण ५

संस्कृत

Passage 32.2

तद्यत्तत्सत्यमसौ स आदित्यः । य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुषस्तावेतावन्योऽन्यस्मिन् प्रतिष्ठितौ । रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः प्राणैरयममुष्मिन् । स यदोत्क्रमिष्यन् भवति शुद्धमेवैतन्मण्डलं पश्यति । नैनमेते रश्मयः प्रत्यायन्ति ॥ २ ॥

पदच्छेद

तत्tatयत्yatतत्tatसत्यम्satyamअसौasauसःsaḥआदित्यःādityaḥयःyaḥएषःeṣaḥएतस्मिन्etasminमण्डलेmaṇḍaleपुरुषःpuruṣaḥयःyaḥचcaअयम्ayamदक्षिणेdakṣiṇeअक्षन्akṣanपुरुषःpuruṣaḥतौtauएतौetauअन्यःanyaḥअन्यस्मिन्anyasminप्रतिष्ठितौpratiṣṭhitauरश्मिभिःraśmibhiḥएषःeṣaḥअस्मिन्asminप्रतिष्ठितःpratiṣṭhitaḥप्राणैःprāṇaiḥअयम्ayamअमुष्मिन्amuṣminसःsaḥयदाyadāउत्क्रमिष्यन्utkramiṣyanभवतिbhavatiशुद्धम्śuddhamएवevaएतत्etatमण्डलम्maṇḍalamपश्यतिpaśyatiनnaएनम्enamएतेeteरश्मयःraśmayaḥप्रत्यायन्तिpratyāyanti

अन्वय

तत् यत् तत् सत्यम् [अस्ति], सः असौ आदित्यः [अस्ति] । यः एषः एतस्मिन् मण्डले पुरुषः [अस्ति], यः च अयम् दक्षिणे अक्षन् पुरुषः [अस्ति], तौ एतौ अन्यः अन्यस्मिन् प्रतिष्ठितौ [स्तः] । एषः [आदित्यपुरुषः] रश्मिभिः अस्मिन् [चाक्षुषे पुरुषे] प्रतिष्ठितः [अस्ति]; अयम् [चाक्षुषः] प्राणैः अमुष्मिन् [आदित्ये] [प्रतिष्ठितः अस्ति] । सः यदा उत्क्रमिष्यन् भवति, [तदा सः] एतत् मण्डलम् शुद्धम् एव पश्यति; एते रश्मयः एनम् न प्रत्यायन्ति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ५, ब्राह्मण ५

Read the whole section →