Sunday Meditation· Open to Everyone

अध्याय ३, ब्राह्मण ४

संस्कृत

Passage 16.2

स होवाचोषस्तश्चाक्रायणः यथा वै ब्रूयादसौ गौरसावश्व इत्येवमेवैतद्व्यपदिष्टं भवति । यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेति । एष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरः । न दृष्टेर्द्रष्टारं पश्येः । न श्रुतेः श्रोतारं शृणुयाः । न मतेर्मन्तारं मन्वीथा । न विज्ञातेर्विज्ञातारं विजानीयाः । एष त आत्मा सर्वान्तरः । अतोऽन्यदार्तम् । ततो होषस्तश्चाक्रायण उपरराम ॥ २ ॥

पदच्छेद

सःsaḥहhaउवाचuvācaउषस्तःuṣastaḥचाक्रायणःcākrāyaṇaḥयथाyathāवैvaiब्रूयात्brūyātअसौasauगौःgauḥअसौasauअश्वःaśvaḥइतिitiएवम्evamएवevaएतत्etatव्यपदिष्टम्vyapadiṣṭamभवतिbhavatiयत्yatएवevaसाक्षात्sākṣātअपरोक्षात्aparokṣātब्रह्मbrahmaयःyaḥआत्माātmāसर्वान्तरःsarvāntaraḥतम्tamमेmeव्याचक्ष्वvyācakṣvaइतिitiएषःeṣaḥतेteआत्माātmāसर्वान्तरःsarvāntaraḥकतमःkatamaḥयाज्ञवल्क्यyājñavalkyaसर्वान्तरःsarvāntaraḥनnaदृष्टेःdṛṣṭeḥद्रष्टारम्draṣṭāramपश्येःpaśyeḥनnaश्रुतेःśruteḥश्रोतारम्śrotāramशृणुयाःśṛṇuyāḥनnaमतेःmateḥमन्तारम्mantāramमन्वीथाःmanvīthāḥनnaविज्ञातेःvijñāteḥविज्ञातारम्vijñātāramविजानीयाःvijānīyāḥएषःeṣaḥतेteआत्माātmāसर्वान्तरःsarvāntaraḥअतःataḥअन्यत्anyatआर्तम्ārtamततःtataḥहhaउषस्तःuṣastaḥचाक्रायणःcākrāyaṇaḥउपररामupararāma

अन्वय

चाक्रायणः उषस्तः सः ह उवाच—यथा वै असौ गौः [अस्ति], असौ अश्वः [अस्ति] इति ब्रूयात्, एवम् एव एतत् व्यपदिष्टम् भवति । यत् एव साक्षात् अपरोक्षात् ब्रह्म [अस्ति], यः सर्वान्तरः आत्मा [अस्ति], तम् मे व्याचक्ष्व इति । [याज्ञवल्क्यः आह—] एषः ते सर्वान्तरः आत्मा [अस्ति] । [उषस्तः पप्रच्छ—] याज्ञवल्क्य, कतमः सर्वान्तरः [अस्ति] । [याज्ञवल्क्यः आह—] दृष्टेः द्रष्टारम् न पश्येः; श्रुतेः श्रोतारम् न शृणुयाः; मतेः मन्तारम् न मन्वीथाः; विज्ञातेः विज्ञातारम् न विजानीयाः । एषः ते सर्वान्तरः आत्मा [अस्ति] । अतः अन्यत् आर्तम् [अस्ति] । ततः ह चाक्रायणः उषस्तः उपरराम ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · अध्याय ३, ब्राह्मण ४

Read the whole section →