Sunday Meditation· Open to Everyone

शिक्षावल्ली

संस्कृत

Passage 1.9

यशो जनेऽसानि स्वाहा । श्रेयान् वस्यसोऽसानि स्वाहा । तं त्वा भग प्रविशानि स्वाहा । स मा भग प्रविश स्वाहा । तस्मिन् सहस्रशाखे । निभगाहं त्वयि मृजे स्वाहा । यथाऽऽपः प्रवतायन्ति यथा मासा अहर्जरम् । एवं मां ब्रह्मचारिणः धातरायन्तु सर्वतः स्वाहा । प्रतिवेशोऽसि प्र मा भाहि प्र मा पद्यस्व ॥ ३ ॥

पदच्छेद

यशःyaśaḥजनेjaneअसानिasāniस्वाहाsvāhāश्रेयान्śreyānवस्यसःvasyasaḥअसानिasāniस्वाहाsvāhāतम्tamत्वाtvāभगbhagaप्रविशानिpraviśāniस्वाहाsvāhāसःsaḥमाmāभगbhagaप्रविशpraviśaस्वाहाsvāhāतस्मिन्tasminसहस्रशाखेsahasraśākheनिniभगbhagaअहम्ahamत्वयिtvayiमृजेmṛjeस्वाहाsvāhāयथाyathāआपःāpaḥप्रवताpravatāयन्तिyantiयथाyathāमासाःmāsāḥअहर्जरम्aharjaramएवम्evamमाम्māmब्रह्मचारिणःbrahmacāriṇaḥधातःdhātaḥआयन्तुāyantuसर्वतःsarvataḥस्वाहाsvāhāप्रतिवेशःprativeśaḥअसिasiप्रpraमाmāभाहिbhāhiप्रpraमाmāपद्यस्वpadyasva

अन्वय

जने यशः असानि, स्वाहा । वस्यसः श्रेयान् असानि, स्वाहा । भग, तम् त्वा प्रविशानि, स्वाहा । भग, सः [त्वम्] मा प्रविश, स्वाहा । तस्मिन् सहस्रशाखे, भग, अहम् त्वयि नि मृजे, स्वाहा । यथा आपः प्रवता यन्ति, यथा मासाः अहर्जरम् [यन्ति], एवम् धातः, ब्रह्मचारिणः सर्वतः माम् आयन्तु, स्वाहा । [त्वम्] प्रतिवेशः असि; प्र मा भाहि; प्र मा पद्यस्व ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · शिक्षावल्ली

Read the whole section →