Sunday Meditation· Open to Everyone

शिक्षावल्ली

संस्कृत

Passage 1.15

पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशाः । अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि । आप ओषधयो वनस्पतय आकाश आत्मा । इत्यधिभूतम् । अथाध्यात्मम् । प्राणो व्यानोऽपान उदानः समानः । चक्षुः श्रोत्रं मनो वाक् त्वक् । चर्म माँसँस्नावास्थिमज्जा । एतदधि विधाय ऋषिरवोचत् । पाङ्क्तं वा इदँ सर्वम् । पाङ्क्तेनैव पाङ्क्तँ स्पृणोतीति ॥ १ ॥

पदच्छेद

पृथिवीpṛthivīअन्तरिक्षम्antarikṣamद्यौःdyauḥदिशःdiśaḥअवान्तरदिशाःavāntaradiśāḥअग्निःagniḥवायुःvāyuḥआदित्यःādityaḥचन्द्रमाःcandramāḥनक्षत्राणिnakṣatrāṇiआपःāpaḥओषधयःoṣadhayaḥवनस्पतयःvanaspatayaḥआकाशःākāśaḥआत्माātmāइतिitiअधिभूतम्adhibhūtamअथathaअध्यात्मम्adhyātmamप्राणःprāṇaḥव्यानःvyānaḥअपानःapānaḥउदानःudānaḥसमानःsamānaḥचक्षुःcakṣuḥश्रोत्रम्śrotramमनःmanaḥवाक्vākत्वक्tvakचर्मcarmaमांसम्māṃsamस्नावाsnāvāअस्थिasthiमज्जाmajjāएतत्etatअधिadhiविधायvidhāyaऋषिःṛṣiḥअवोचत्avocatपाङ्क्तम्pāṅktamवैvaiइदम्idamसर्वम्sarvamपाङ्क्तेनpāṅktenaएवevaपाङ्क्तम्pāṅktamस्पृणोतिspṛṇotiइतिiti

अन्वय

पृथिवी अन्तरिक्षम् द्यौः दिशः अवान्तरदिशाः, अग्निः वायुः आदित्यः चन्द्रमाः नक्षत्राणि, आपः ओषधयः वनस्पतयः आकाशः आत्मा [इति] अधिभूतम् [उक्तम्] । अथ अध्यात्मम् [उच्यते]-प्राणः व्यानः अपानः उदानः समानः, चक्षुः श्रोत्रम् मनः वाक् त्वक्, चर्म मांसम् स्नाव अस्थि मज्जा [इति] । एतत् अधि विधाय ऋषिः अवोचत्-इदम् सर्वम् वा पाङ्क्तम् [अस्ति]; पाङ्क्तेन एव पाङ्क्तम् स्पृणोति इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · शिक्षावल्ली

Read the whole section →