Sunday Meditation· Open to Everyone

शिक्षावल्ली

संस्कृत

Passage 1.23

शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवादिषम् । सत्यमवादिषम् । तन्मामावीत् । तद्वक्तारमावीत् । आवीन्माम् । आवीद्वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः ॥ १ ॥

पदच्छेद

शम्śamनःnaḥमित्रःmitraḥशम्śamवरुणःvaruṇaḥशम्śamनःnaḥभवतुbhavatuअर्यमाaryamāशम्śamनःnaḥइन्द्रःindraḥबृहस्पतिःbṛhaspatiḥशम्śamनःnaḥविष्णुःviṣṇuḥउरुक्रमःurukramaḥनमःnamaḥब्रह्मणेbrahmaṇeनमःnamaḥतेteवायोvāyoत्वम्tvamएवevaप्रत्यक्षम्pratyakṣamब्रह्मbrahmaअसिasiत्वाम्tvāmएवevaप्रत्यक्षम्pratyakṣamब्रह्मbrahmaअवादिषम्avādiṣamऋतम्ṛtamअवादिषम्avādiṣamसत्यम्satyamअवादिषम्avādiṣamतत्tatमाम्māmआवीत्āvītतत्tatवक्तारम्vaktāramआवीत्āvītआवीत्āvītमाम्māmआवीत्āvītवक्तारम्vaktāramॐoṃशान्तिःśāntiḥशान्तिःśāntiḥशान्तिःśāntiḥ

अन्वय

मित्रः नः शम् [भवतु]; वरुणः शम् [भवतु]; अर्यमा नः शम् भवतु । इन्द्रः बृहस्पतिः नः शम् [भवताम्]; उरुक्रमः विष्णुः नः शम् [भवतु] । ब्रह्मणे नमः; वायो, ते नमः । त्वम् एव प्रत्यक्षम् ब्रह्म असि । त्वाम् एव प्रत्यक्षम् ब्रह्म अवादिषम्; ऋतम् अवादिषम्; सत्यम् अवादिषम् । तत् माम् आवीत्; तत् वक्तारम् आवीत् । माम् आवीत्; वक्तारम् आवीत् । ॐ शान्तिः शान्तिः शान्तिः ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · शिक्षावल्ली

Read the whole section →