Sunday Meditation· Open to Everyone

शिक्षावल्ली

संस्कृत

Passage 1.1

ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः ॥

पदच्छेद

ॐoṃशम्śamनःnaḥमित्रःmitraḥशम्śamवरुणःvaruṇaḥशम्śamनःnaḥभवतुbhavatuअर्यमाaryamāशम्śamनःnaḥइन्द्रःindraḥबृहस्पतिःbṛhaspatiḥशम्śamनःnaḥविष्णुःviṣṇuḥउरुक्रमःurukramaḥनमःnamaḥब्रह्मणेbrahmaṇeनमःnamaḥतेteवायोvāyoत्वम्tvamएवevaप्रत्यक्षम्pratyakṣamब्रह्मbrahmaअसिasiत्वम्tvamएवevaप्रत्यक्षम्pratyakṣamब्रह्मbrahmaवदिष्यामिvadiṣyāmiऋतम्ṛtamवदिष्यामिvadiṣyāmiसत्यम्satyamवदिष्यामिvadiṣyāmiतत्tatमाम्māmअवतुavatuतत्tatवक्तारम्vaktāramअवतुavatuअवतुavatuमाम्māmअवतुavatuवक्तारम्vaktāramॐoṃशान्तिःśāntiḥशान्तिःśāntiḥशान्तिःśāntiḥ

Passage 1.2

ॐ शीक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् । साम सन्तानः । इत्युक्तः शीक्षाध्यायः ॥ १ ॥

पदच्छेद

ॐoṃशीक्षाम्śīkṣāmव्याख्यास्यामःvyākhyāsyāmaḥवर्णःvarṇaḥस्वरःsvaraḥमात्राmātrāबलम्balamसामsāmaसन्तानःsantānaḥइतिitiउक्तःuktaḥशीक्षाध्यायःśīkṣādhyāyaḥ

अन्वय

ॐ । शीक्षाम् व्याख्यास्यामः । वर्णः स्वरः मात्रा बलम् साम सन्तानः [इति शीक्षायाः विषयाः सन्ति] । इति शीक्षाध्यायः उक्तः [अस्ति] ।

Passage 1.3

सह नौ यशः । सह नौ ब्रह्मवर्चसम् । अथातः संहिताया उपनिषदं व्याख्यास्यामः । पञ्चस्वधिकरणेषु । अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् । ता महासँहिता इत्याचक्षते । अथाधिलोकम् । पृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् । आकाशः सन्धिः ॥ १ ॥

पदच्छेद

सहsahaनौnauयशःyaśaḥसहsahaनौnauब्रह्मवर्चसम्brahmavarcasamअथathaअतःataḥसंहितायाःsaṃhitāyāḥउपनिषदम्upaniṣadamव्याख्यास्यामःvyākhyāsyāmaḥपञ्चसुpañcasuअधिकरणेषुadhikaraṇeṣuअधिलोकम्adhilokamअधिज्यौतिषम्adhijyautiṣamअधिविद्यम्adhividyamअधिप्रजम्adhiprajamअध्यात्मम्adhyātmamताःtāḥमहासंहिताःmahāsaṃhitāḥइतिitiआचक्षतेācakṣateअथathaअधिलोकम्adhilokamपृथिवीpṛthivīपूर्वरूपम्pūrvarūpamद्यौःdyauḥउत्तररूपम्uttararūpamआकाशःākāśaḥसन्धिःsandhiḥ

अन्वय

नौ यशः सह [अस्तु]; नौ ब्रह्मवर्चसम् सह [अस्तु] । अथ अतः संहितायाः उपनिषदम् पञ्चसु अधिकरणेषु व्याख्यास्यामः-अधिलोकम् अधिज्यौतिषम् अधिविद्यम् अधिप्रजम् अध्यात्मम् [इति] । ताः महासंहिताः इति आचक्षते । अथ अधिलोकम् [व्याख्यास्यामः]-पृथिवी पूर्वरूपम् [अस्ति]; द्यौः उत्तररूपम् [अस्ति]; आकाशः सन्धिः [अस्ति] ।

Passage 1.4

वायुः सन्धानम् । इत्यधिलोकम् । अथाधिज्यौतिषम् । अग्निः पूर्वरूपम् । आदित्य उत्तररूपम् । आपः सन्धिः । वैद्युतः सन्धानम् । इत्यधिज्यौतिषम् । अथाधिविद्यम् । आचार्यः पूर्वरूपम् ॥ २ ॥

पदच्छेद

वायुःvāyuḥसन्धानम्sandhānamइतिitiअधिलोकम्adhilokamअथathaअधिज्यौतिषम्adhijyautiṣamअग्निःagniḥपूर्वरूपम्pūrvarūpamआदित्यःādityaḥउत्तररूपम्uttararūpamआपःāpaḥसन्धिःsandhiḥवैद्युतःvaidyutaḥसन्धानम्sandhānamइतिitiअधिज्यौतिषम्adhijyautiṣamअथathaअधिविद्यम्adhividyamआचार्यःācāryaḥपूर्वरूपम्pūrvarūpam

अन्वय

वायुः सन्धानम् [अस्ति] इति अधिलोकम् [उक्तम्] । अथ अधिज्यौतिषम् [व्याख्यास्यामः]-अग्निः पूर्वरूपम् [अस्ति]; आदित्यः उत्तररूपम् [अस्ति]; आपः सन्धिः [सन्ति]; वैद्युतः सन्धानम् [अस्ति] इति अधिज्यौतिषम् [उक्तम्] । अथ अधिविद्यम् [व्याख्यास्यामः]-आचार्यः पूर्वरूपम् [अस्ति] ।

Passage 1.5

अन्तेवास्युत्तररूपम् । विद्या सन्धिः । प्रवचनँसन्धानम् । इत्यधिविद्यम् । अथाधिप्रजम् । माता पूर्वरूपम् । पितोत्तररूपम् । प्रजा सन्धिः । प्रजननँसन्धानम् । इत्यधिप्रजम् ॥ ३ ॥

पदच्छेद

अन्तेवासीantevāsīउत्तररूपम्uttararūpamविद्याvidyāसन्धिःsandhiḥप्रवचनम्pravacanamसन्धानम्sandhānamइतिitiअधिविद्यम्adhividyamअथathaअधिप्रजम्adhiprajamमाताmātāपूर्वरूपम्pūrvarūpamपिताpitāउत्तररूपम्uttararūpamप्रजाprajāसन्धिःsandhiḥप्रजननम्prajananamसन्धानम्sandhānamइतिitiअधिप्रजम्adhiprajam

अन्वय

अन्तेवासी उत्तररूपम् [अस्ति]; विद्या सन्धिः [अस्ति]; प्रवचनम् सन्धानम् [अस्ति] इति अधिविद्यम् [उक्तम्] । अथ अधिप्रजम् [व्याख्यास्यामः]-माता पूर्वरूपम् [अस्ति]; पिता उत्तररूपम् [अस्ति]; प्रजा सन्धिः [अस्ति]; प्रजननम् सन्धानम् [अस्ति] इति अधिप्रजम् [उक्तम्] ।

Passage 1.6

अथाध्यात्मम् । अधरा हनुः पूर्वरूपम् । उत्तरा हनुरुत्तररूपम् । वाक्सन्धिः । जिह्वा सन्धानम् । इत्यध्यात्मम् । इतीमा महासँहिताः । य एवमेता महासँहिता व्याख्याता वेद । सन्धीयते प्रजया पशुभिः ब्रह्मवर्चसेनान्नाद्येन सुवर्गेण लोकेन ॥ ४ ॥

पदच्छेद

अथathaअध्यात्मम्adhyātmamअधराadharāहनुःhanuḥपूर्वरूपम्pūrvarūpamउत्तराuttarāहनुःhanuḥउत्तररूपम्uttararūpamवाक्vākसन्धिःsandhiḥजिह्वाjihvāसन्धानम्sandhānamइतिitiअध्यात्मम्adhyātmamइतिitiइमाःimāḥमहासंहिताःmahāsaṃhitāḥयःyaḥएवम्evamएताःetāḥमहासंहिताःmahāsaṃhitāḥव्याख्याताःvyākhyātāḥवेदvedaसन्धीयतेsandhīyateप्रजयाprajayāपशुभिःpaśubhiḥब्रह्मवर्चसेनbrahmavarcasenaअन्नाद्येनannādyenaसुवर्गेणsuvargeṇaलोकेनlokena

अन्वय

अथ अध्यात्मम् [व्याख्यास्यामः]-अधरा हनुः पूर्वरूपम् [अस्ति]; उत्तरा हनुः उत्तररूपम् [अस्ति]; वाक् सन्धिः [अस्ति]; जिह्वा सन्धानम् [अस्ति] इति अध्यात्मम् [उक्तम्] । इति इमाः महासंहिताः [सन्ति] । यः एवम् एताः व्याख्याताः महासंहिताः वेद, [सः] प्रजया पशुभिः ब्रह्मवर्चसेन अन्नाद्येन सुवर्गेण लोकेन सन्धीयते ।

Passage 1.7

यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्योऽध्यमृतात्संबभूव । स मेन्द्रो मेधया स्पृणोतु । अमृतस्य देव धारणो भूयासम् । शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवम् । ब्रह्मणः कोशोऽसि मेधया पिहितः । श्रुतं मे गोपाय ॥ १ ॥

पदच्छेद

यःyaḥछन्दसाम्chandasāmऋषभःṛṣabhaḥविश्वरूपःviśvarūpaḥछन्दोभ्यःchandobhyaḥअधिadhiअमृतात्amṛtātसम्बभूवsambabhūvaसःsaḥमाmāइन्द्रःindraḥमेधयाmedhayāस्पृणोतुspṛṇotuअमृतस्यamṛtasyaदेवdevaधारणःdhāraṇaḥभूयासम्bhūyāsamशरीरम्śarīramमेmeविचर्षणम्vicarṣaṇamजिह्वाjihvāमेmeमधुमत्तमाmadhumattamāकर्णाभ्याम्karṇābhyāmभूरिbhūriविश्रुवम्viśruvamब्रह्मणःbrahmaṇaḥकोशःkośaḥअसिasiमेधयाmedhayāपिहितःpihitaḥश्रुतम्śrutamमेmeगोपायgopāya

अन्वय

यः छन्दसाम् विश्वरूपः ऋषभः [अस्ति], [यः] छन्दोभ्यः अधि अमृतात् सम्बभूव, सः इन्द्रः मे मेधया स्पृणोतु । देव, अमृतस्य धारणः भूयासम् । मे शरीरम् विचर्षणम् [भूयात्]; मे जिह्वा मधुमत्तमा [भूयात्] । कर्णाभ्याम् भूरि विश्रुवम् । [त्वम्] मेधया पिहितः ब्रह्मणः कोशः असि । मे श्रुतम् गोपाय ।

Passage 1.8

आवहन्ती वितन्वाना कुर्वाणाऽचीरमात्मनः । वासाँसि मम गावश्च । अन्नपाने च सर्वदा । ततो मे श्रियमावह । लोमशां पशुभिः सह स्वाहा । आमायन्तु ब्रह्मचारिणः स्वाहा । विमायन्तु ब्रह्मचारिणः स्वाहा । प्रमायन्तु ब्रह्मचारिणः स्वाहा । दमायन्तु ब्रह्मचारिणः स्वाहा । शमायन्तु ब्रह्मचारिणः स्वाहा ॥ २ ॥

पदच्छेद

आवहन्तीāvahantīवितन्वानाvitanvānāकुर्वाणाkurvāṇāअचीरम्acīramआत्मनःātmanaḥवासांसिvāsāṃsiममmamaगावःgāvaḥचcaअन्नपानेannapāneचcaसर्वदाsarvadāततःtataḥमेmeश्रियम्śriyamआवहāvahaलोमशाम्lomaśāmपशुभिःpaśubhiḥसहsahaस्वाहाsvāhāआāमाmāयन्तुyantuब्रह्मचारिणःbrahmacāriṇaḥस्वाहाsvāhāविviमाmāआयन्तुāyantuब्रह्मचारिणःbrahmacāriṇaḥस्वाहाsvāhāप्रpraमाmāआयन्तुāyantuब्रह्मचारिणःbrahmacāriṇaḥस्वाहाsvāhāदमायन्तुdamāyantuब्रह्मचारिणःbrahmacāriṇaḥस्वाहाsvāhāशमायन्तुśamāyantuब्रह्मचारिणःbrahmacāriṇaḥस्वाहाsvāhā

Passage 1.9

यशो जनेऽसानि स्वाहा । श्रेयान् वस्यसोऽसानि स्वाहा । तं त्वा भग प्रविशानि स्वाहा । स मा भग प्रविश स्वाहा । तस्मिन् सहस्रशाखे । निभगाहं त्वयि मृजे स्वाहा । यथाऽऽपः प्रवतायन्ति यथा मासा अहर्जरम् । एवं मां ब्रह्मचारिणः धातरायन्तु सर्वतः स्वाहा । प्रतिवेशोऽसि प्र मा भाहि प्र मा पद्यस्व ॥ ३ ॥

पदच्छेद

यशःyaśaḥजनेjaneअसानिasāniस्वाहाsvāhāश्रेयान्śreyānवस्यसःvasyasaḥअसानिasāniस्वाहाsvāhāतम्tamत्वाtvāभगbhagaप्रविशानिpraviśāniस्वाहाsvāhāसःsaḥमाmāभगbhagaप्रविशpraviśaस्वाहाsvāhāतस्मिन्tasminसहस्रशाखेsahasraśākheनिniभगbhagaअहम्ahamत्वयिtvayiमृजेmṛjeस्वाहाsvāhāयथाyathāआपःāpaḥप्रवताpravatāयन्तिyantiयथाyathāमासाःmāsāḥअहर्जरम्aharjaramएवम्evamमाम्māmब्रह्मचारिणःbrahmacāriṇaḥधातःdhātaḥआयन्तुāyantuसर्वतःsarvataḥस्वाहाsvāhāप्रतिवेशःprativeśaḥअसिasiप्रpraमाmāभाहिbhāhiप्रpraमाmāपद्यस्वpadyasva

अन्वय

जने यशः असानि, स्वाहा । वस्यसः श्रेयान् असानि, स्वाहा । भग, तम् त्वा प्रविशानि, स्वाहा । भग, सः [त्वम्] मा प्रविश, स्वाहा । तस्मिन् सहस्रशाखे, भग, अहम् त्वयि नि मृजे, स्वाहा । यथा आपः प्रवता यन्ति, यथा मासाः अहर्जरम् [यन्ति], एवम् धातः, ब्रह्मचारिणः सर्वतः माम् आयन्तु, स्वाहा । [त्वम्] प्रतिवेशः असि; प्र मा भाहि; प्र मा पद्यस्व ।

Passage 1.10

भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः । तासामुह स्मैतां चतुर्थीं माहाचमस्यः प्रवेदयते । मह इति । तद् ब्रह्म । स आत्मा । अङ्गान्यन्या देवताः । भूरिति वा अयं लोकः । भुव इत्यन्तरिक्षम् । सुवरित्यसौ लोकः ॥ १ ॥

पदच्छेद

भूःbhūḥभुवःbhuvaḥसुवःsuvaḥइतिitiवैvaiएताःetāḥतिस्रःtisraḥव्याहृतयःvyāhṛtayaḥतासाम्tāsāmउuहhaस्मsmaएताम्etāmचतुर्थीम्caturthīmमाहाचमस्यःmāhācamasyaḥप्रवेदयतेpravedayateमहःmahaḥइतिitiतत्tatब्रह्मbrahmaसःsaḥआत्माātmāअङ्गानिaṅgāniअन्याःanyāḥदेवताःdevatāḥभूःbhūḥइतिitiवैvaiअयम्ayamलोकःlokaḥभुवःbhuvaḥइतिitiअन्तरिक्षम्antarikṣamसुवःsuvaḥइतिitiअसौasauलोकःlokaḥ

अन्वय

भूः भुवः सुवर् इति एताः वै तिस्रः व्याहृतयः [सन्ति] । तासाम् उ ह स्म एताम् चतुर्थीम् माहाचमस्यः प्रवेदयते-महः इति । तत् ब्रह्म [अस्ति]; सः आत्मा [अस्ति]; अन्याः देवताः अङ्गानि [सन्ति] । भूः इति वै अयम् लोकः [अस्ति]; भुवः इति अन्तरिक्षम् [अस्ति]; सुवर् इति असौ लोकः [अस्ति] ।

Passage 1.11

मह इत्यादित्यः । आदित्येन वाव सर्वे लोका महीयन्ते । भूरिति वा अग्निः । भुव इति वायुः । सुवरित्यादित्यः । मह इति चन्द्रमाः । चन्द्रमसा वाव सर्वाणि ज्योतीँषि महीयन्ते । भूरिति वा ऋचः । भुव इति सामानि । सुवरिति यजूँषि ॥ २ ॥

पदच्छेद

महःmahaḥइतिitiआदित्यःādityaḥआदित्येनādityenaवावvāvaसर्वेsarveलोकाःlokāḥमहीयन्तेmahīyanteभूःbhūḥइतिitiवैvaiअग्निःagniḥभुवःbhuvaḥइतिitiवायुःvāyuḥसुवःsuvaḥइतिitiआदित्यःādityaḥमहःmahaḥइतिitiचन्द्रमाःcandramāḥचन्द्रमसाcandramasāवावvāvaसर्वाणिsarvāṇiज्योतींषिjyotīṃṣiमहीयन्तेmahīyanteभूःbhūḥइतिitiवैvaiऋचःṛcaḥभुवःbhuvaḥइतिitiसामानिsāmāniसुवःsuvaḥइतिitiयजूंषिyajūṃṣi

अन्वय

महः इति आदित्यः [अस्ति] । आदित्येन वाव सर्वे लोकाः महीयन्ते । भूः इति वै अग्निः [अस्ति]; भुवः इति वायुः [अस्ति]; सुवर् इति आदित्यः [अस्ति]; महः इति चन्द्रमाः [अस्ति] । चन्द्रमसा वाव सर्वाणि ज्योतींषि महीयन्ते । भूः इति वै ऋचः [सन्ति]; भुवः इति सामानि [सन्ति]; सुवर् इति यजूंषि [सन्ति] ।

Passage 1.12

मह इति ब्रह्म । ब्रह्मणा वाव सर्वे वेदा महीयन्ते । भूरिति वै प्राणः । भुव इत्यपानः । सुवरिति व्यानः । मह इत्यन्नम् । अन्नेन वाव सर्वे प्राणा महीयन्ते । ता वा एताश्चतस्रश्चतुर्धा । चतस्रश्चतस्रो व्याहृतयः । ता यो वेद । स वेद ब्रह्म । सर्वेऽस्मै देवा बलिमावहन्ति ॥ ३ ॥

पदच्छेद

महःmahaḥइतिitiब्रह्मbrahmaब्रह्मणाbrahmaṇāवावvāvaसर्वेsarveवेदाःvedāḥमहीयन्तेmahīyanteभूःbhūḥइतिitiवैvaiप्राणःprāṇaḥभुवःbhuvaḥइतिitiअपानःapānaḥसुवःsuvaḥइतिitiव्यानःvyānaḥमहःmahaḥइतिitiअन्नम्annamअन्नेनannenaवावvāvaसर्वेsarveप्राणाःprāṇāḥमहीयन्तेmahīyanteताःtāḥवैvaiएताःetāḥचतस्रःcatasraḥचतुर्धाcaturdhāचतस्रःcatasraḥचतस्रःcatasraḥव्याहृतयःvyāhṛtayaḥताःtāḥयःyaḥवेदvedaसःsaḥवेदvedaब्रह्मbrahmaसर्वेsarveअस्मैasmaiदेवाःdevāḥबलिम्balimआवहन्तिāvahanti

अन्वय

महः इति ब्रह्म [अस्ति] । ब्रह्मणा वाव सर्वे वेदाः महीयन्ते । भूः इति वै प्राणः [अस्ति]; भुवः इति अपानः [अस्ति]; सुवर् इति व्यानः [अस्ति]; महः इति अन्नम् [अस्ति] । अन्नेन वाव सर्वे प्राणाः महीयन्ते । ताः वै एताः चतस्रः चतुर्धा [सन्ति]; चतस्रः चतस्रः व्याहृतयः [सन्ति] । यः ताः वेद, सः ब्रह्म वेद । सर्वे देवाः अस्मै बलिम् आवहन्ति ।

Passage 1.13

स य एषोऽन्तरहृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः । अन्तरेण तालुके । य एष स्तन इवावलम्बते । सेन्द्रयोनिः । यत्रासौ केशान्तो विवर्तते । व्यपोह्य शीर्षकपाले । भूरित्यग्नौ प्रतितिष्ठति । भुव इति वायौ ॥ १ ॥

पदच्छेद

सःsaḥयःyaḥएषःeṣaḥअन्तर्हृदयेantarhṛdayeआकाशःākāśaḥतस्मिन्tasminअयम्ayamपुरुषःpuruṣaḥमनोमयःmanomayaḥअमृतःamṛtaḥहिरण्मयःhiraṇmayaḥअन्तरेणantareṇaतालुकेtālukeयःyaḥएषःeṣaḥस्तनःstanaḥइवivaअवलम्बतेavalambateसाsāइन्द्रयोनिःindrayoniḥयत्रyatraअसौasauकेशान्तःkeśāntaḥविवर्ततेvivartateव्यपोह्यvyapohyaशीर्षकपालेśīrṣakapāleभूःbhūḥइतिitiअग्नौagnauप्रतितिष्ठतिpratitiṣṭhatiभुवःbhuvaḥइतिitiवायौvāyau

Passage 1.14

सुवरित्यादित्ये । मह इति ब्रह्मणि । आप्नोति स्वाराज्यम् । आप्नोति मनसस्पतिम् । वाक्पतिश्चक्षुष्पतिः । श्रोत्रपतिर्विज्ञानपतिः । एतत्ततो भवति । आकाशशरीरं ब्रह्म । सत्यात्म प्राणारामं मन आनन्दम् । शान्तिसमृद्धममृतम् । इति प्राचीनयोग्योपास्स्व ॥ २ ॥

पदच्छेद

सुवःsuvaḥइतिitiआदित्येādityeमहःmahaḥइतिitiब्रह्मणिbrahmaṇiआप्नोतिāpnotiस्वाराज्यम्svārājyamआप्नोतिāpnotiमनसःmanasaḥपतिम्patimवाक्पतिःvākpatiḥचक्षुष्पतिःcakṣuṣpatiḥश्रोत्रपतिःśrotrapatiḥविज्ञानपतिःvijñānapatiḥएतत्etatततःtataḥभवतिbhavatiआकाशशरीरम्ākāśaśarīramब्रह्मbrahmaसत्यात्मsatyātmaप्राणारामम्prāṇārāmamमनःmanaḥआनन्दम्ānandamशान्तिसमृद्धम्śāntisamṛddhamअमृतम्amṛtamइतिitiप्राचीनयोग्यprācīnayogyaउपास्स्वupāssva

अन्वय

सुवर् इति आदित्ये [प्रतितिष्ठति]; महः इति ब्रह्मणि [प्रतितिष्ठति] । स्वाराज्यम् आप्नोति; मनसस्पतिम् आप्नोति । वाक्पतिः चक्षुष्पतिः श्रोत्रपतिः विज्ञानपतिः [भवति] । ततः एतत् भवति-आकाशशरीरम् सत्यात्म प्राणारामम् मनः आनन्दम् शान्तिसमृद्धम् अमृतम् ब्रह्म [अस्ति] । प्राचीनयोग्य, इति उपास्स्व ।

Passage 1.15

पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशाः । अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि । आप ओषधयो वनस्पतय आकाश आत्मा । इत्यधिभूतम् । अथाध्यात्मम् । प्राणो व्यानोऽपान उदानः समानः । चक्षुः श्रोत्रं मनो वाक् त्वक् । चर्म माँसँस्नावास्थिमज्जा । एतदधि विधाय ऋषिरवोचत् । पाङ्क्तं वा इदँ सर्वम् । पाङ्क्तेनैव पाङ्क्तँ स्पृणोतीति ॥ १ ॥

पदच्छेद

पृथिवीpṛthivīअन्तरिक्षम्antarikṣamद्यौःdyauḥदिशःdiśaḥअवान्तरदिशाःavāntaradiśāḥअग्निःagniḥवायुःvāyuḥआदित्यःādityaḥचन्द्रमाःcandramāḥनक्षत्राणिnakṣatrāṇiआपःāpaḥओषधयःoṣadhayaḥवनस्पतयःvanaspatayaḥआकाशःākāśaḥआत्माātmāइतिitiअधिभूतम्adhibhūtamअथathaअध्यात्मम्adhyātmamप्राणःprāṇaḥव्यानःvyānaḥअपानःapānaḥउदानःudānaḥसमानःsamānaḥचक्षुःcakṣuḥश्रोत्रम्śrotramमनःmanaḥवाक्vākत्वक्tvakचर्मcarmaमांसम्māṃsamस्नावाsnāvāअस्थिasthiमज्जाmajjāएतत्etatअधिadhiविधायvidhāyaऋषिःṛṣiḥअवोचत्avocatपाङ्क्तम्pāṅktamवैvaiइदम्idamसर्वम्sarvamपाङ्क्तेनpāṅktenaएवevaपाङ्क्तम्pāṅktamस्पृणोतिspṛṇotiइतिiti

अन्वय

पृथिवी अन्तरिक्षम् द्यौः दिशः अवान्तरदिशाः, अग्निः वायुः आदित्यः चन्द्रमाः नक्षत्राणि, आपः ओषधयः वनस्पतयः आकाशः आत्मा [इति] अधिभूतम् [उक्तम्] । अथ अध्यात्मम् [उच्यते]-प्राणः व्यानः अपानः उदानः समानः, चक्षुः श्रोत्रम् मनः वाक् त्वक्, चर्म मांसम् स्नाव अस्थि मज्जा [इति] । एतत् अधि विधाय ऋषिः अवोचत्-इदम् सर्वम् वा पाङ्क्तम् [अस्ति]; पाङ्क्तेन एव पाङ्क्तम् स्पृणोति इति ।

Passage 1.16

ओमिति ब्रह्म । ओमितीदँसर्वम् । ओमित्येतदनुकृतिर्हस्म वा अप्यो श्रावयेत्याश्रावयन्ति । ओमिति सामानि गायन्ति । ओँशोमिति शस्त्राणि शँसन्ति । ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति । ओमिति ब्रह्मा प्रसौति । ओमित्यग्निहोत्रमनुजानाति । ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवानीति ब्रह्मैवोपाप्नोति ॥ १ ॥

पदच्छेद

ओम्omइतिitiब्रह्मbrahmaओम्omइतिitiइदम्idamसर्वम्sarvamओम्omइतिitiएतत्etatअनुकृतिःanukṛtiḥहhaस्मsmaवैvaiअपिapiओoश्रावयśrāvayaइतिitiआश्रावयन्तिāśrāvayantiओम्omइतिitiसामानिsāmāniगायन्तिgāyantiओम्omशोम्śomइतिitiशस्त्राणिśastrāṇiशंसन्तिśaṃsantiओम्omइतिitiअध्वर्युःadhvaryuḥप्रतिगरम्pratigaramप्रतिगृणातिpratigṛṇātiओम्omइतिitiब्रह्माbrahmāप्रसौतिprasautiओम्omइतिitiअग्निहोत्रम्agnihotramअनुजानातिanujānātiओम्omइतिitiब्राह्मणःbrāhmaṇaḥप्रवक्ष्यन्pravakṣyanआहāhaब्रह्मbrahmaउपाप्नवानिupāpnavāniइतिitiब्रह्मbrahmaएवevaउपाप्नोतिupāpnoti

Passage 1.17

ऋतं च स्वाध्यायप्रवचने च । सत्यं च स्वाध्यायप्रवचने च । तपश्च स्वाध्यायप्रवचने च । दमश्च स्वाध्यायप्रवचने च । शमश्च स्वाध्यायप्रवचने च । अग्नयश्च स्वाध्यायप्रवचने च । अग्निहोत्रं च स्वाध्यायप्रवचने च । अतिथयश्च स्वाध्यायप्रवचने च । मानुषं च स्वाध्यायप्रवचने च । प्रजा च स्वाध्यायप्रवचने च । प्रजनश्च स्वाध्यायप्रवचने च । प्रजातिश्च स्वाध्यायप्रवचने च । सत्यमिति सत्यवचा राथीतरः । तप इति तपोनित्यः पौरुशिष्टिः । स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः । तद्धि तपस्तद्धि तपः ॥ १ ॥

पदच्छेद

ऋतम्ṛtamचcaस्वाध्यायप्रवचनेsvādhyāyapravacaneचcaसत्यम्satyamचcaस्वाध्यायप्रवचनेsvādhyāyapravacaneचcaतपःtapaḥचcaस्वाध्यायप्रवचनेsvādhyāyapravacaneचcaदमःdamaḥचcaस्वाध्यायप्रवचनेsvādhyāyapravacaneचcaशमःśamaḥचcaस्वाध्यायप्रवचनेsvādhyāyapravacaneचcaअग्नयःagnayaḥचcaस्वाध्यायप्रवचनेsvādhyāyapravacaneचcaअग्निहोत्रम्agnihotramचcaस्वाध्यायप्रवचनेsvādhyāyapravacaneचcaअतिथयःatithayaḥचcaस्वाध्यायप्रवचनेsvādhyāyapravacaneचcaमानुषम्mānuṣamचcaस्वाध्यायप्रवचनेsvādhyāyapravacaneचcaप्रजाprajāचcaस्वाध्यायप्रवचनेsvādhyāyapravacaneचcaप्रजनःprajanaḥचcaस्वाध्यायप्रवचनेsvādhyāyapravacaneचcaप्रजातिःprajātiḥचcaस्वाध्यायप्रवचनेsvādhyāyapravacaneचcaसत्यम्satyamइतिitiसत्यवचाःsatyavacāḥराथीतरःrāthītaraḥतपःtapaḥइतिitiतपोनित्यःtaponityaḥपौरुशिष्टिःpauruśiṣṭiḥस्वाध्यायप्रवचनेsvādhyāyapravacaneएवevaइतिitiनाकःnākaḥमौद्गल्यःmaudgalyaḥतत्tatहिhiतपःtapaḥतत्tatहिhiतपःtapaḥ

अन्वय

ऋतम् च [कर्तव्यम्], स्वाध्यायप्रवचने च [कर्तव्ये] । सत्यम् च [कर्तव्यम्], स्वाध्यायप्रवचने च [कर्तव्ये] । तपः च [कर्तव्यम्], स्वाध्यायप्रवचने च [कर्तव्ये] । दमः च [कर्तव्यः], स्वाध्यायप्रवचने च [कर्तव्ये] । शमः च [कर्तव्यः], स्वाध्यायप्रवचने च [कर्तव्ये] । अग्नयः च [सेव्याः], स्वाध्यायप्रवचने च [कर्तव्ये] । अग्निहोत्रम् च [कर्तव्यम्], स्वाध्यायप्रवचने च [कर्तव्ये] । अतिथयः च [सेव्याः], स्वाध्यायप्रवचने च [कर्तव्ये] । मानुषम् च [कर्तव्यम्], स्वाध्यायप्रवचने च [कर्तव्ये] । प्रजा च [कर्तव्या], स्वाध्यायप्रवचने च [कर्तव्ये] । प्रजनः च [कर्तव्यः], स्वाध्यायप्रवचने च [कर्तव्ये] । प्रजातिः च [कर्तव्या], स्वाध्यायप्रवचने च [कर्तव्ये] । सत्यम् इति राथीतरः सत्यवचाः [आह]; तपः इति पौरुशिष्टिः तपोनित्यः [आह]; स्वाध्यायप्रवचने एव इति मौद्गल्यः नाकः [आह] । तत् हि तपः; तत् हि तपः [अस्ति] ।

Passage 1.18

अहं वृक्षस्य रेरिवा कीर्तिः पृष्ठं गिरेरिव । ऊर्ध्वपवित्रो वाजिनीवस्वमृतमस्मि । द्रविणँसवर्चसम् । सुमेधा अमृतोक्षितः । इति त्रिशङ्कोर्वेदानुवचनम् ॥ १ ॥

पदच्छेद

अहम्ahamवृक्षस्यvṛkṣasyaरेरिवाrerivāकीर्तिःkīrtiḥपृष्ठम्pṛṣṭhamगिरेःgireḥइवivaऊर्ध्वपवित्रःūrdhvapavitraḥवाजिनिvājiniइवivaसुsuअमृतम्amṛtamअस्मिasmiद्रविणम्draviṇamसवर्चसम्savarcasamसुमेधाःsumedhāḥअमृतोक्षितःamṛtokṣitaḥइतिitiत्रिशङ्कोःtriśaṅkoḥवेदानुवचनम्vedānuvacanam

अन्वय

अहम् वृक्षस्य रेरिवा [अस्मि]; [मम] कीर्तिः गिरेः पृष्ठम् इव [उच्छ्रिता अस्ति] । [अहम्] ऊर्ध्वपवित्रः [अस्मि]; वाजिनि [सवितरि] इव सु अमृतम् अस्मि । सवर्चसम् द्रविणम् [अस्मि]; सुमेधाः अमृतोक्षितः [अस्मि] । इति त्रिशङ्कोः वेदानुवचनम् [अस्ति] ।

Passage 1.19

वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति । सत्यं वद । धर्मं चर । स्वाध्यायान्मा प्रमदः । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः । सत्यान्न प्रमदितव्यम्। धर्मान्न प्रमदितव्यम् । कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् । देवपितृकार्याभ्यां न प्रमदितव्यम् ॥ १ ॥

पदच्छेद

वेदम्vedamअनूच्यanūcyaआचार्यःācāryaḥअन्तेवासिनम्antevāsinamअनुशास्तिanuśāstiसत्यम्satyamवदvadaधर्मम्dharmamचरcaraस्वाध्यायात्svādhyāyātमाmāप्रमदःpramadaḥआचार्यायācāryāyaप्रियम्priyamधनम्dhanamआहृत्यāhṛtyaप्रजातन्तुम्prajātantumमाmāव्यवच्छेत्सीःvyavacchetsīḥसत्यात्satyātनnaप्रमदितव्यम्pramaditavyamधर्मात्dharmātनnaप्रमदितव्यम्pramaditavyamकुशलात्kuśalātनnaप्रमदितव्यम्pramaditavyamभूत्यैbhūtyaiनnaप्रमदितव्यम्pramaditavyamस्वाध्यायप्रवचनाभ्याम्svādhyāyapravacanābhyāmनnaप्रमदितव्यम्pramaditavyamदेवपितृकार्याभ्याम्devapitṛkāryābhyāmनnaप्रमदितव्यम्pramaditavyam

अन्वय

आचार्यः वेदम् अनूच्य अन्तेवासिनम् अनुशास्ति-सत्यम् वद; धर्मम् चर; स्वाध्यायात् मा प्रमदः । आचार्याय प्रियम् धनम् आहृत्य प्रजातन्तुम् मा व्यवच्छेत्सीः । सत्यात् न प्रमदितव्यम्; धर्मात् न प्रमदितव्यम्; कुशलात् न प्रमदितव्यम्; भूत्यै न प्रमदितव्यम्; स्वाध्यायप्रवचनाभ्याम् न प्रमदितव्यम्; देवपितृकार्याभ्याम् न प्रमदितव्यम् ।

Passage 1.20

मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव । यान्यनवद्यानि कर्माणि तानि सेवितव्यानि । नो इतराणि । यान्यस्माकꣳ सुचरितानि तानि त्वयोपास्यानि । नो इतराणि ॥ २ ॥

पदच्छेद

मातृदेवःmātṛdevaḥभवbhavaपितृदेवःpitṛdevaḥभवbhavaआचार्यदेवःācāryadevaḥभवbhavaअतिथिदेवःatithidevaḥभवbhavaयानिyāniअनवद्यानिanavadyāniकर्माणिkarmāṇiतानिtāniसेवितव्यानिsevitavyāniनnaउuइतराणिitarāṇiयानिyāniअस्माकम्asmākamसुचरितानिsucaritāniतानिtāniत्वयाtvayāउपास्यानिupāsyāniनnaउuइतराणिitarāṇi

अन्वय

मातृदेवः भव; पितृदेवः भव; आचार्यदेवः भव; अतिथिदेवः भव । यानि अनवद्यानि कर्माणि [सन्ति], तानि सेवितव्यानि [सन्ति], इतराणि न उ [सेवितव्यानि] । यानि अस्माकम् सुचरितानि [सन्ति], तानि त्वया उपास्यानि [सन्ति], इतराणि न उ [उपास्यानि] ।

Passage 1.21

ये के चास्मच्छ्रेयाँसो ब्राह्मणाः तेषां त्वयाऽऽसनेन प्रश्वसितव्यम् । श्रद्धया देयम् । अश्रद्धयाऽदेयम् । श्रिया देयम् । ह्रिया देयम् । भिया देयम् । संविदा देयम् । अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ॥ ३ ॥

पदच्छेद

येyeकेkeचcaअस्मत्asmatश्रेयांसःśreyāṃsaḥब्राह्मणाःbrāhmaṇāḥतेषाम्teṣāmत्वयाtvayāआसनेनāsanenaप्रश्वसितव्यम्praśvasitavyamश्रद्धयाśraddhayāदेयम्deyamअश्रद्धयाaśraddhayāअदेयम्adeyamश्रियाśriyāदेयम्deyamह्रियाhriyāदेयम्deyamभियाbhiyāदेयम्deyamसंविदाsaṃvidāदेयम्deyamअथathaयदिyadiतेteकर्मविचिकित्साkarmavicikitsāवाvāवृत्तविचिकित्साvṛttavicikitsāवाvāस्यात्syāt

अन्वय

ये के च अस्मत् श्रेयांसः ब्राह्मणाः [सन्ति], तेषाम् त्वया आसनेन प्रश्वसितव्यम् । श्रद्धया देयम्; अश्रद्धया अदेयम्; श्रिया देयम्; ह्रिया देयम्; भिया देयम्; संविदा देयम् । अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात्, [तदा यथा ते वर्तेरन् तथा वर्तेथाः] ।

Passage 1.22

ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा वर्तेथाः । अथाभ्याख्यातेषु । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः । एष आदेशः । एष उपदेशः । एषा वेदोपनिषत् । एतदनुशासनम् । एवमुपासितव्यम् । एवमु चैतदुपास्यम् ॥ ४ ॥

पदच्छेद

येyeतत्रtatraब्राह्मणाःbrāhmaṇāḥसंमर्शिनःsaṃmarśinaḥयुक्ताःyuktāḥआयुक्ताःāyuktāḥअलूक्षाःalūkṣāḥधर्मकामाःdharmakāmāḥस्युःsyuḥयथाyathāतेteतत्रtatraवर्तेरन्varteranतथाtathāवर्तेथाःvartethāḥअथathaअभ्याख्यातेषुabhyākhyāteṣuयेyeतत्रtatraब्राह्मणाःbrāhmaṇāḥसंमर्शिनःsaṃmarśinaḥयुक्ताःyuktāḥआयुक्ताःāyuktāḥअलूक्षाःalūkṣāḥधर्मकामाःdharmakāmāḥस्युःsyuḥयथाyathāतेteतेषुteṣuवर्तेरन्varteranतथाtathāतेषुteṣuवर्तेथाःvartethāḥएषःeṣaḥआदेशःādeśaḥएषःeṣaḥउपदेशःupadeśaḥएषाeṣāवेदोपनिषत्vedopaniṣatएतत्etatअनुशासनम्anuśāsanamएवम्evamउपासितव्यम्upāsitavyamएवम्evamउuचcaएतत्etatउपास्यम्upāsyam

अन्वय

ये तत्र ब्राह्मणाः सम्मर्शिनः युक्ताः आयुक्ताः अलूक्षाः धर्मकामाः स्युः, यथा ते तत्र वर्तेरन्, तथा वर्तेथाः । अथ अभ्याख्यातेषु ये तत्र ब्राह्मणाः सम्मर्शिनः युक्ताः आयुक्ताः अलूक्षाः धर्मकामाः स्युः, यथा ते तेषु वर्तेरन्, तथा तेषु वर्तेथाः । एषः आदेशः [अस्ति]; एषः उपदेशः [अस्ति]; एषा वेदोपनिषत् [अस्ति]; एतत् अनुशासनम् [अस्ति] । एवम् उपासितव्यम्; एवम् उ च एतत् उपास्यम् [अस्ति] ।

Passage 1.23

शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवादिषम् । सत्यमवादिषम् । तन्मामावीत् । तद्वक्तारमावीत् । आवीन्माम् । आवीद्वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः ॥ १ ॥

पदच्छेद

शम्śamनःnaḥमित्रःmitraḥशम्śamवरुणःvaruṇaḥशम्śamनःnaḥभवतुbhavatuअर्यमाaryamāशम्śamनःnaḥइन्द्रःindraḥबृहस्पतिःbṛhaspatiḥशम्śamनःnaḥविष्णुःviṣṇuḥउरुक्रमःurukramaḥनमःnamaḥब्रह्मणेbrahmaṇeनमःnamaḥतेteवायोvāyoत्वम्tvamएवevaप्रत्यक्षम्pratyakṣamब्रह्मbrahmaअसिasiत्वाम्tvāmएवevaप्रत्यक्षम्pratyakṣamब्रह्मbrahmaअवादिषम्avādiṣamऋतम्ṛtamअवादिषम्avādiṣamसत्यम्satyamअवादिषम्avādiṣamतत्tatमाम्māmआवीत्āvītतत्tatवक्तारम्vaktāramआवीत्āvītआवीत्āvītमाम्māmआवीत्āvītवक्तारम्vaktāramॐoṃशान्तिःśāntiḥशान्तिःśāntiḥशान्तिःśāntiḥ

अन्वय

मित्रः नः शम् [भवतु]; वरुणः शम् [भवतु]; अर्यमा नः शम् भवतु । इन्द्रः बृहस्पतिः नः शम् [भवताम्]; उरुक्रमः विष्णुः नः शम् [भवतु] । ब्रह्मणे नमः; वायो, ते नमः । त्वम् एव प्रत्यक्षम् ब्रह्म असि । त्वाम् एव प्रत्यक्षम् ब्रह्म अवादिषम्; ऋतम् अवादिषम्; सत्यम् अवादिषम् । तत् माम् आवीत्; तत् वक्तारम् आवीत् । माम् आवीत्; वक्तारम् आवीत् । ॐ शान्तिः शान्तिः शान्तिः ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · शिक्षावल्ली

Read the whole section →