Sunday Meditation· Open to Everyone

भृगुवल्ली

संस्कृत

Passage 3.1

भृगुर्वै वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तस्मा एतत्प्रोवाच । अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति । तँ होवाच । यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद् ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ॥ १ ॥

पदच्छेद

भृगुःbhṛguḥवैvaiवारुणिःvāruṇiḥवरुणम्varuṇamपितरम्pitaramउपससारupasasāraअधीहिadhīhiभगवःbhagavaḥब्रह्मbrahmaइतिitiतस्मैtasmaiएतत्etatप्रोवाचprovācaअन्नम्annamप्राणम्prāṇamचक्षुःcakṣuḥश्रोत्रम्śrotramमनःmanaḥवाचम्vācamइतिitiतम्tamहhaउवाचuvācaयतःyataḥवैvaiइमानिimāniभूतानिbhūtāniजायन्तेjāyanteयेनyenaजातानिjātāniजीवन्तिjīvantiयत्yatप्रयन्तिprayantiअभिसंविशन्तिabhisaṃviśantiतत्tatविजिज्ञासस्वvijijñāsasvaतत्tatब्रह्मbrahmaइतिitiसःsaḥतपःtapaḥअतप्यतatapyataसःsaḥतपःtapaḥतप्त्वाtaptvā

अन्वय

वारुणिः भृगुः वै पितरम् वरुणम् उपससार-भगवः, ब्रह्म अधीहि इति । [वरुणः] तस्मै एतत् प्रोवाच-अन्नम् प्राणम् चक्षुः श्रोत्रम् मनः वाचम् इति । तम् ह उवाच-यतः वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, प्रयन्ति यत् अभिसंविशन्ति, तत् विजिज्ञासस्व; तत् ब्रह्म इति । सः तपः अतप्यत; सः तपः तप्त्वा [अन्नम् ब्रह्म इति व्यजानात्] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · भृगुवल्ली

Read the whole section →