Sunday Meditation· Open to Everyone

शिक्षावल्ली

संस्कृत

Passage 1.17

ऋतं च स्वाध्यायप्रवचने च । सत्यं च स्वाध्यायप्रवचने च । तपश्च स्वाध्यायप्रवचने च । दमश्च स्वाध्यायप्रवचने च । शमश्च स्वाध्यायप्रवचने च । अग्नयश्च स्वाध्यायप्रवचने च । अग्निहोत्रं च स्वाध्यायप्रवचने च । अतिथयश्च स्वाध्यायप्रवचने च । मानुषं च स्वाध्यायप्रवचने च । प्रजा च स्वाध्यायप्रवचने च । प्रजनश्च स्वाध्यायप्रवचने च । प्रजातिश्च स्वाध्यायप्रवचने च । सत्यमिति सत्यवचा राथीतरः । तप इति तपोनित्यः पौरुशिष्टिः । स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः । तद्धि तपस्तद्धि तपः ॥ १ ॥

पदच्छेद

ऋतम्ṛtamचcaस्वाध्यायप्रवचनेsvādhyāyapravacaneचcaसत्यम्satyamचcaस्वाध्यायप्रवचनेsvādhyāyapravacaneचcaतपःtapaḥचcaस्वाध्यायप्रवचनेsvādhyāyapravacaneचcaदमःdamaḥचcaस्वाध्यायप्रवचनेsvādhyāyapravacaneचcaशमःśamaḥचcaस्वाध्यायप्रवचनेsvādhyāyapravacaneचcaअग्नयःagnayaḥचcaस्वाध्यायप्रवचनेsvādhyāyapravacaneचcaअग्निहोत्रम्agnihotramचcaस्वाध्यायप्रवचनेsvādhyāyapravacaneचcaअतिथयःatithayaḥचcaस्वाध्यायप्रवचनेsvādhyāyapravacaneचcaमानुषम्mānuṣamचcaस्वाध्यायप्रवचनेsvādhyāyapravacaneचcaप्रजाprajāचcaस्वाध्यायप्रवचनेsvādhyāyapravacaneचcaप्रजनःprajanaḥचcaस्वाध्यायप्रवचनेsvādhyāyapravacaneचcaप्रजातिःprajātiḥचcaस्वाध्यायप्रवचनेsvādhyāyapravacaneचcaसत्यम्satyamइतिitiसत्यवचाःsatyavacāḥराथीतरःrāthītaraḥतपःtapaḥइतिitiतपोनित्यःtaponityaḥपौरुशिष्टिःpauruśiṣṭiḥस्वाध्यायप्रवचनेsvādhyāyapravacaneएवevaइतिitiनाकःnākaḥमौद्गल्यःmaudgalyaḥतत्tatहिhiतपःtapaḥतत्tatहिhiतपःtapaḥ

अन्वय

ऋतम् च [कर्तव्यम्], स्वाध्यायप्रवचने च [कर्तव्ये] । सत्यम् च [कर्तव्यम्], स्वाध्यायप्रवचने च [कर्तव्ये] । तपः च [कर्तव्यम्], स्वाध्यायप्रवचने च [कर्तव्ये] । दमः च [कर्तव्यः], स्वाध्यायप्रवचने च [कर्तव्ये] । शमः च [कर्तव्यः], स्वाध्यायप्रवचने च [कर्तव्ये] । अग्नयः च [सेव्याः], स्वाध्यायप्रवचने च [कर्तव्ये] । अग्निहोत्रम् च [कर्तव्यम्], स्वाध्यायप्रवचने च [कर्तव्ये] । अतिथयः च [सेव्याः], स्वाध्यायप्रवचने च [कर्तव्ये] । मानुषम् च [कर्तव्यम्], स्वाध्यायप्रवचने च [कर्तव्ये] । प्रजा च [कर्तव्या], स्वाध्यायप्रवचने च [कर्तव्ये] । प्रजनः च [कर्तव्यः], स्वाध्यायप्रवचने च [कर्तव्ये] । प्रजातिः च [कर्तव्या], स्वाध्यायप्रवचने च [कर्तव्ये] । सत्यम् इति राथीतरः सत्यवचाः [आह]; तपः इति पौरुशिष्टिः तपोनित्यः [आह]; स्वाध्यायप्रवचने एव इति मौद्गल्यः नाकः [आह] । तत् हि तपः; तत् हि तपः [अस्ति] ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · शिक्षावल्ली

Read the whole section →