Sunday Meditation· Open to Everyone

ब्रह्मानन्दवल्ली

संस्कृत

Passage 2.1

ॐ ब्रह्मविदाप्नोति परम् । तदेषाऽभ्युक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति ॥ तस्माद्वा एतस्मादात्मन आकाशः संभूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नाद्रेतः । रेतसः पुरुषः । स वा एष पुरुषोऽन्नरसमयः । तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १ ॥

पदच्छेद

ॐoṃब्रह्मवित्brahmavitआप्नोतिāpnotiपरम्paramतत्tatएषाeṣāअभ्युक्ताabhyuktāसत्यम्satyamज्ञानम्jñānamअनन्तम्anantamब्रह्मbrahmaयःyaḥवेदvedaनिहितम्nihitamगुहायाम्guhāyāmपरमेparameव्योमन्vyomanसःsaḥअश्नुतेaśnuteसर्वान्sarvānकामान्kāmānसहsahaब्रह्मणाbrahmaṇāविपश्चिताvipaścitāइतिitiतस्मात्tasmātवैvaiएतस्मात्etasmātआत्मनःātmanaḥआकाशःākāśaḥसम्भूतःsambhūtaḥआकाशात्ākāśātवायुःvāyuḥवायोःvāyoḥअग्निःagniḥअग्नेःagneḥआपःāpaḥअद्भ्यःadbhyaḥपृथिवीpṛthivīपृथिव्याःpṛthivyāḥओषधयःoṣadhayaḥओषधीभ्यःoṣadhībhyaḥअन्नम्annamअन्नात्annātरेतःretaḥरेतसःretasaḥपुरुषःpuruṣaḥसःsaḥवैvaiएषःeṣaḥपुरुषःpuruṣaḥअन्नरसमयःannarasamayaḥतस्यtasyaइदम्idamएवevaशिरःśiraḥअयम्ayamदक्षिणःdakṣiṇaḥपक्षःpakṣaḥअयम्ayamउत्तरःuttaraḥपक्षःpakṣaḥअयम्ayamआत्माātmāइदम्idamपुच्छम्pucchamप्रतिष्ठाpratiṣṭhāतत्tatअपिapiएषःeṣaḥश्लोकःślokaḥभवतिbhavati

अन्वय

ॐ । ब्रह्मवित् परम् आप्नोति । तत् एषा [ऋक्] अभ्युक्ता-सत्यम् ज्ञानम् अनन्तम् ब्रह्म [अस्ति] । यः गुहायाम् परमे व्योमन् निहितम् [ब्रह्म] वेद, सः विपश्चिता ब्रह्मणा सह सर्वान् कामान् अश्नुते इति । तस्मात् वै एतस्मात् आत्मनः आकाशः सम्भूतः । आकाशात् वायुः [सम्भूतः]; वायोः अग्निः [सम्भूतः]; अग्नेः आपः [सम्भूताः]; अद्भ्यः पृथिवी [सम्भूता]; पृथिव्याः ओषधयः [सम्भूताः]; ओषधीभ्यः अन्नम् [सम्भूतम्]; अन्नात् रेतः [सम्भूतम्]; रेतसः पुरुषः [सम्भूतः] । सः वै एषः पुरुषः अन्नरसमयः [अस्ति] । तस्य इदम् एव शिरः [अस्ति]; अयम् दक्षिणः पक्षः [अस्ति]; अयम् उत्तरः पक्षः [अस्ति]; अयम् आत्मा [अस्ति]; इदम् पुच्छम् प्रतिष्ठा [अस्ति] । तत् अपि एषः श्लोकः भवति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · ब्रह्मानन्दवल्ली

Read the whole section →