Sunday Meditation· Open to Everyone

भृगुवल्ली

संस्कृत

Passage 3.1

भृगुर्वै वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तस्मा एतत्प्रोवाच । अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति । तँ होवाच । यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद् ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ॥ १ ॥

पदच्छेद

भृगुःbhṛguḥवैvaiवारुणिःvāruṇiḥवरुणम्varuṇamपितरम्pitaramउपससारupasasāraअधीहिadhīhiभगवःbhagavaḥब्रह्मbrahmaइतिitiतस्मैtasmaiएतत्etatप्रोवाचprovācaअन्नम्annamप्राणम्prāṇamचक्षुःcakṣuḥश्रोत्रम्śrotramमनःmanaḥवाचम्vācamइतिitiतम्tamहhaउवाचuvācaयतःyataḥवैvaiइमानिimāniभूतानिbhūtāniजायन्तेjāyanteयेनyenaजातानिjātāniजीवन्तिjīvantiयत्yatप्रयन्तिprayantiअभिसंविशन्तिabhisaṃviśantiतत्tatविजिज्ञासस्वvijijñāsasvaतत्tatब्रह्मbrahmaइतिitiसःsaḥतपःtapaḥअतप्यतatapyataसःsaḥतपःtapaḥतप्त्वाtaptvā

अन्वय

वारुणिः भृगुः वै पितरम् वरुणम् उपससार-भगवः, ब्रह्म अधीहि इति । [वरुणः] तस्मै एतत् प्रोवाच-अन्नम् प्राणम् चक्षुः श्रोत्रम् मनः वाचम् इति । तम् ह उवाच-यतः वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, प्रयन्ति यत् अभिसंविशन्ति, तत् विजिज्ञासस्व; तत् ब्रह्म इति । सः तपः अतप्यत; सः तपः तप्त्वा [अन्नम् ब्रह्म इति व्यजानात्] ।

Passage 3.2

अन्नं ब्रह्मेति व्यजानात् । अन्नाद्ध्येव खल्विमानि भूतानि जायन्ते । अन्नेन जातानि जीवन्ति । अन्नं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तँ होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति स तपोऽतप्यत । स तपस्तप्त्वा ॥ १ ॥

पदच्छेद

अन्नम्annamब्रह्मbrahmaइतिitiव्यजानात्vyajānātअन्नात्annātहिhiएवevaखलुkhaluइमानिimāniभूतानिbhūtāniजायन्तेjāyanteअन्नेनannenaजातानिjātāniजीवन्तिjīvantiअन्नम्annamप्रयन्तिprayantiअभिसंविशन्तिabhisaṃviśantiइतिitiतत्tatविज्ञायvijñāyaपुनःpunaḥएवevaवरुणम्varuṇamपितरम्pitaramउपससारupasasāraअधीहिadhīhiभगवःbhagavaḥब्रह्मbrahmaइतिitiतम्tamहhaउवाचuvācaतपसाtapasāब्रह्मbrahmaविजिज्ञासस्वvijijñāsasvaतपःtapaḥब्रह्मbrahmaइतिitiसःsaḥतपःtapaḥअतप्यतatapyataसःsaḥतपःtapaḥतप्त्वाtaptvā

अन्वय

[भृगुः] अन्नम् ब्रह्म इति व्यजानात् । अन्नात् हि एव खलु इमानि भूतानि जायन्ते; जातानि अन्नेन जीवन्ति; प्रयन्ति अन्नम् अभिसंविशन्ति इति । तत् विज्ञाय पुनः एव पितरम् वरुणम् उपससार-भगवः, ब्रह्म अधीहि इति । तम् ह उवाच-तपसा ब्रह्म विजिज्ञासस्व; तपः ब्रह्म इति । सः तपः अतप्यत; सः तपः तप्त्वा [प्राणः ब्रह्म इति व्यजानात्] ।

Passage 3.3

प्राणो ब्रह्मेति व्यजानात् । प्राणाद्ध्येव खल्विमानि भूतानि जायन्ते । प्राणेन जातानि जीवन्ति । प्राणं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तँ होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ॥ १ ॥

पदच्छेद

प्राणःprāṇaḥब्रह्मbrahmaइतिitiव्यजानात्vyajānātप्राणात्prāṇātहिhiएवevaखलुkhaluइमानिimāniभूतानिbhūtāniजायन्तेjāyanteप्राणेनprāṇenaजातानिjātāniजीवन्तिjīvantiप्राणम्prāṇamप्रयन्तिprayantiअभिसंविशन्तिabhisaṃviśantiइतिitiतत्tatविज्ञायvijñāyaपुनःpunaḥएवevaवरुणम्varuṇamपितरम्pitaramउपससारupasasāraअधीहिadhīhiभगवःbhagavaḥब्रह्मbrahmaइतिitiतम्tamहhaउवाचuvācaतपसाtapasāब्रह्मbrahmaविजिज्ञासस्वvijijñāsasvaतपःtapaḥब्रह्मbrahmaइतिitiसःsaḥतपःtapaḥअतप्यतatapyataसःsaḥतपःtapaḥतप्त्वाtaptvā

अन्वय

[भृगुः] प्राणः ब्रह्म इति व्यजानात् । प्राणात् हि एव खलु इमानि भूतानि जायन्ते; जातानि प्राणेन जीवन्ति; प्रयन्ति प्राणम् अभिसंविशन्ति इति । तत् विज्ञाय पुनः एव पितरम् वरुणम् उपससार-भगवः, ब्रह्म अधीहि इति । तम् ह उवाच-तपसा ब्रह्म विजिज्ञासस्व; तपः ब्रह्म इति । सः तपः अतप्यत; सः तपः तप्त्वा [मनः ब्रह्म इति व्यजानात्] ।

Passage 3.4

मनो ब्रह्मेति व्यजानात् । मनसो ह्येव खल्विमानि भूतानि जायन्ते । मनसा जातानि जीवन्ति । मनः प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तँ होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ॥ १ ॥

पदच्छेद

मनःmanaḥब्रह्मbrahmaइतिitiव्यजानात्vyajānātमनसःmanasaḥहिhiएवevaखलुkhaluइमानिimāniभूतानिbhūtāniजायन्तेjāyanteमनसाmanasāजातानिjātāniजीवन्तिjīvantiमनःmanaḥप्रयन्तिprayantiअभिसंविशन्तिabhisaṃviśantiइतिitiतत्tatविज्ञायvijñāyaपुनःpunaḥएवevaवरुणम्varuṇamपितरम्pitaramउपससारupasasāraअधीहिadhīhiभगवःbhagavaḥब्रह्मbrahmaइतिitiतम्tamहhaउवाचuvācaतपसाtapasāब्रह्मbrahmaविजिज्ञासस्वvijijñāsasvaतपःtapaḥब्रह्मbrahmaइतिitiसःsaḥतपःtapaḥअतप्यतatapyataसःsaḥतपःtapaḥतप्त्वाtaptvā

अन्वय

[भृगुः] मनः ब्रह्म इति व्यजानात् । मनसः हि एव खलु इमानि भूतानि जायन्ते; जातानि मनसा जीवन्ति; प्रयन्ति मनः अभिसंविशन्ति इति । तत् विज्ञाय पुनः एव पितरम् वरुणम् उपससार-भगवः, ब्रह्म अधीहि इति । तम् ह उवाच-तपसा ब्रह्म विजिज्ञासस्व; तपः ब्रह्म इति । सः तपः अतप्यत; सः तपः तप्त्वा [विज्ञानम् ब्रह्म इति व्यजानात्] ।

Passage 3.5

विज्ञानं ब्रह्मेति व्यजानात् । विज्ञानाद्ध्येव खल्विमानि भूतानि जायन्ते । विज्ञानेन जातानि जीवन्ति । विज्ञानं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तँ होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ॥ १ ॥

पदच्छेद

विज्ञानम्vijñānamब्रह्मbrahmaइतिitiव्यजानात्vyajānātविज्ञानात्vijñānātहिhiएवevaखलुkhaluइमानिimāniभूतानिbhūtāniजायन्तेjāyanteविज्ञानेनvijñānenaजातानिjātāniजीवन्तिjīvantiविज्ञानम्vijñānamप्रयन्तिprayantiअभिसंविशन्तिabhisaṃviśantiइतिitiतत्tatविज्ञायvijñāyaपुनःpunaḥएवevaवरुणम्varuṇamपितरम्pitaramउपससारupasasāraअधीहिadhīhiभगवःbhagavaḥब्रह्मbrahmaइतिitiतम्tamहhaउवाचuvācaतपसाtapasāब्रह्मbrahmaविजिज्ञासस्वvijijñāsasvaतपःtapaḥब्रह्मbrahmaइतिitiसःsaḥतपःtapaḥअतप्यतatapyataसःsaḥतपःtapaḥतप्त्वाtaptvā

अन्वय

[भृगुः] विज्ञानम् ब्रह्म इति व्यजानात् । विज्ञानात् हि एव खलु इमानि भूतानि जायन्ते; जातानि विज्ञानेन जीवन्ति; प्रयन्ति विज्ञानम् अभिसंविशन्ति इति । तत् विज्ञाय पुनः एव पितरम् वरुणम् उपससार-भगवः, ब्रह्म अधीहि इति । तम् ह उवाच-तपसा ब्रह्म विजिज्ञासस्व; तपः ब्रह्म इति । सः तपः अतप्यत; सः तपः तप्त्वा [आनन्दः ब्रह्म इति व्यजानात्] ।

Passage 3.6

आनन्दो ब्रह्मेति व्यजानात् । आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्दं प्रयन्त्यभिसंविशन्तीति । सैषा भार्गवी वारुणी विद्या । परमे व्योमन्प्रतिष्ठिता । स य एवं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान् कीर्त्या ॥ १ ॥

पदच्छेद

आनन्दःānandaḥब्रह्मbrahmaइतिitiव्यजानात्vyajānātआनन्दात्ānandātहिhiएवevaखलुkhaluइमानिimāniभूतानिbhūtāniजायन्तेjāyanteआनन्देनānandenaजातानिjātāniजीवन्तिjīvantiआनन्दम्ānandamप्रयन्तिprayantiअभिसंविशन्तिabhisaṃviśantiइतिitiसाsāएषाeṣāभार्गवीbhārgavīवारुणीvāruṇīविद्याvidyāपरमेparameव्योमन्vyomanप्रतिष्ठिताpratiṣṭhitāसःsaḥयःyaḥएवम्evamवेदvedaप्रतितिष्ठतिpratitiṣṭhatiअन्नवान्annavānअन्नादःannādaḥभवतिbhavatiमहान्mahānभवतिbhavatiप्रजयाprajayāपशुभिःpaśubhiḥब्रह्मवर्चसेनbrahmavarcasenaमहान्mahānकीर्त्याkīrtyā

अन्वय

[भृगुः] आनन्दः ब्रह्म इति व्यजानात् । आनन्दात् हि एव खलु इमानि भूतानि जायन्ते; जातानि आनन्देन जीवन्ति; प्रयन्ति आनन्दम् अभिसंविशन्ति इति । सा एषा भार्गवी वारुणी विद्या परमे व्योमन् प्रतिष्ठिता [अस्ति] । यः एवम् वेद, सः प्रतितिष्ठति; अन्नवान् अन्नादः भवति; प्रजया पशुभिः ब्रह्मवर्चसेन महान् भवति, कीर्त्या महान् [भवति] ।

Passage 3.7

अन्नं न निन्द्यात् । तद्व्रतम् । प्राणो वा अन्नम् । शरीरमन्नादम् । प्राणे शरीरं प्रतिष्ठितम् । शरीरे प्राणः प्रतिष्ठितः । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान् कीर्त्या ॥ १ ॥

पदच्छेद

अन्नम्annamनnaनिन्द्यात्nindyātतत्tatव्रतम्vratamप्राणःprāṇaḥवैvaiअन्नम्annamशरीरम्śarīramअन्नादम्annādamप्राणेprāṇeशरीरम्śarīramप्रतिष्ठितम्pratiṣṭhitamशरीरेśarīreप्राणःprāṇaḥप्रतिष्ठितःpratiṣṭhitaḥतत्tatएतत्etatअन्नम्annamअन्नेanneप्रतिष्ठितम्pratiṣṭhitamसःsaḥयःyaḥएतत्etatअन्नम्annamअन्नेanneप्रतिष्ठितम्pratiṣṭhitamवेदvedaप्रतितिष्ठतिpratitiṣṭhatiअन्नवान्annavānअन्नादःannādaḥभवतिbhavatiमहान्mahānभवतिbhavatiप्रजयाprajayāपशुभिःpaśubhiḥब्रह्मवर्चसेनbrahmavarcasenaमहान्mahānकीर्त्याkīrtyā

अन्वय

अन्नम् न निन्द्यात्; तत् व्रतम् [अस्ति] । प्राणः वा अन्नम् [अस्ति]; शरीरम् अन्नादम् [अस्ति] । प्राणे शरीरम् प्रतिष्ठितम् [अस्ति]; शरीरे प्राणः प्रतिष्ठितः [अस्ति] । तत् एतत् अन्ने अन्नम् प्रतिष्ठितम् [अस्ति] । यः एतत् अन्ने अन्नम् प्रतिष्ठितम् वेद, सः प्रतितिष्ठति; अन्नवान् अन्नादः भवति; प्रजया पशुभिः ब्रह्मवर्चसेन महान् भवति, कीर्त्या महान् [भवति] ।

Passage 3.8

अन्नं न परिचक्षीत । तद्व्रतम् । आपो वा अन्नम् । ज्योतिरन्नादम् । अप्सु ज्योतिः प्रतिष्ठितम् । ज्योतिष्यापः प्रतिष्ठिताः । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान् कीर्त्या ॥ १ ॥

पदच्छेद

अन्नम्annamनnaपरिचक्षीतparicakṣītaतत्tatव्रतम्vratamआपःāpaḥवैvaiअन्नम्annamज्योतिःjyotiḥअन्नादम्annādamअप्सुapsuज्योतिःjyotiḥप्रतिष्ठितम्pratiṣṭhitamज्योतिषिjyotiṣiआपःāpaḥप्रतिष्ठिताःpratiṣṭhitāḥतत्tatएतत्etatअन्नम्annamअन्नेanneप्रतिष्ठितम्pratiṣṭhitamसःsaḥयःyaḥएतत्etatअन्नम्annamअन्नेanneप्रतिष्ठितम्pratiṣṭhitamवेदvedaप्रतितिष्ठतिpratitiṣṭhatiअन्नवान्annavānअन्नादःannādaḥभवतिbhavatiमहान्mahānभवतिbhavatiप्रजयाprajayāपशुभिःpaśubhiḥब्रह्मवर्चसेनbrahmavarcasenaमहान्mahānकीर्त्याkīrtyā

अन्वय

अन्नम् न परिचक्षीत; तत् व्रतम् [अस्ति] । आपः वा अन्नम् [सन्ति]; ज्योतिः अन्नादम् [अस्ति] । अप्सु ज्योतिः प्रतिष्ठितम् [अस्ति]; ज्योतिषि आपः प्रतिष्ठिताः [सन्ति] । तत् एतत् अन्ने अन्नम् प्रतिष्ठितम् [अस्ति] । यः एतत् अन्ने अन्नम् प्रतिष्ठितम् वेद, सः प्रतितिष्ठति; अन्नवान् अन्नादः भवति; प्रजया पशुभिः ब्रह्मवर्चसेन महान् भवति, कीर्त्या महान् [भवति] ।

Passage 3.9

अन्नं बहु कुर्वीत । तद्व्रतम् । पृथिवी वा अन्नम् । आकाशोऽन्नादः । पृथिव्यामाकाशः प्रतिष्ठितः । आकाशे पृथिवी प्रतिष्ठिता । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान्कीर्त्या ॥ १ ॥

पदच्छेद

अन्नम्annamबहुbahuकुर्वीतkurvītaतत्tatव्रतम्vratamपृथिवीpṛthivīवैvaiअन्नम्annamआकाशःākāśaḥअन्नादःannādaḥपृथिव्याम्pṛthivyāmआकाशःākāśaḥप्रतिष्ठितःpratiṣṭhitaḥआकाशेākāśeपृथिवीpṛthivīप्रतिष्ठिताpratiṣṭhitāतत्tatएतत्etatअन्नम्annamअन्नेanneप्रतिष्ठितम्pratiṣṭhitamसःsaḥयःyaḥएतत्etatअन्नम्annamअन्नेanneप्रतिष्ठितम्pratiṣṭhitamवेदvedaप्रतितिष्ठतिpratitiṣṭhatiअन्नवान्annavānअन्नादःannādaḥभवतिbhavatiमहान्mahānभवतिbhavatiप्रजयाprajayāपशुभिःpaśubhiḥब्रह्मवर्चसेनbrahmavarcasenaमहान्mahānकीर्त्याkīrtyā

अन्वय

बहु अन्नम् कुर्वीत; तत् व्रतम् [अस्ति] । पृथिवी वा अन्नम् [अस्ति]; आकाशः अन्नादः [अस्ति] । पृथिव्याम् आकाशः प्रतिष्ठितः [अस्ति]; आकाशे पृथिवी प्रतिष्ठिता [अस्ति] । तत् एतत् अन्ने अन्नम् प्रतिष्ठितम् [अस्ति] । यः एतत् अन्ने अन्नम् प्रतिष्ठितम् वेद, सः प्रतितिष्ठति; अन्नवान् अन्नादः भवति; प्रजया पशुभिः ब्रह्मवर्चसेन महान् भवति, कीर्त्या महान् [भवति] ।

Passage 3.10

न कञ्चन वसतौ प्रत्याचक्षीत । तद्व्रतम् । तस्माद्यया कया च विधया बह्वन्नं प्राप्नुयात् । अराध्यस्मा अन्नमित्याचक्षते । एतद्वै मुखतोऽन्नँराद्धम् । मुखतोऽस्मा अन्नँराध्यते । एतद्वै मध्यतोऽन्नँराद्धम् । मध्यतोऽस्मा अन्नँराध्यते । एतद्वा अन्ततोऽन्नँराद्धम् । अन्ततोऽस्मा अन्नँराध्यते ॥ १ ॥

पदच्छेद

नnaकञ्चनkañcanaवसतौvasatauप्रत्याचक्षीतpratyācakṣītaतत्tatव्रतम्vratamतस्मात्tasmātययाyayāकयाkayāचcaविधयाvidhayāबहुbahuअन्नम्annamप्राप्नुयात्prāpnuyātअराधिarādhiअस्मैasmaiअन्नम्annamइतिitiआचक्षतेācakṣateएतत्etatवैvaiमुखतःmukhataḥअन्नम्annamराद्धम्rāddhamमुखतःmukhataḥअस्मैasmaiअन्नम्annamराध्यतेrādhyateएतत्etatवैvaiमध्यतःmadhyataḥअन्नम्annamराद्धम्rāddhamमध्यतःmadhyataḥअस्मैasmaiअन्नम्annamराध्यतेrādhyateएतत्etatवैvaiअन्ततःantataḥअन्नम्annamराद्धम्rāddhamअन्ततःantataḥअस्मैasmaiअन्नम्annamराध्यतेrādhyate

अन्वय

वसतौ कञ्चन न प्रत्याचक्षीत; तत् व्रतम् [अस्ति] । तस्मात् यया कया च विधया बहु अन्नम् प्राप्नुयात् । [अन्नवन्तः विद्वांसः] अस्मा [अभ्यागताय] अन्नम् अराधि इति आचक्षते । एतत् वै मुखतः अन्नम् राद्धम् [दाता प्रयच्छति]; अस्मा [अन्नदात्रे] मुखतः अन्नम् राध्यते । एतत् वै मध्यतः अन्नम् राद्धम् [दाता प्रयच्छति]; अस्मा [अन्नदात्रे] मध्यतः अन्नम् राध्यते । एतत् वा अन्ततः अन्नम् राद्धम् [दाता प्रयच्छति]; अस्मा [अन्नदात्रे] अन्ततः अन्नम् राध्यते ।

Passage 3.11

य एवं वेद । क्षेम इति वाचि । योगक्षेम इति प्राणापानयोः । कर्मेति हस्तयोः । गतिरिति पादयोः । विमुक्तिरिति पायौ । इति मानुषीः समाज्ञाः । अथ दैवीः । तृप्तिरिति वृष्टौ । बलमिति विद्युति ॥ २ ॥

पदच्छेद

यःyaḥएवम्evamवेदvedaक्षेमःkṣemaḥइतिitiवाचिvāciयोगक्षेमःyogakṣemaḥइतिitiप्राणापानयोःprāṇāpānayoḥकर्मkarmaइतिitiहस्तयोःhastayoḥगतिःgatiḥइतिitiपादयोःpādayoḥविमुक्तिःvimuktiḥइतिitiपायौpāyauइतिitiमानुषीःmānuṣīḥसमाज्ञाःsamājñāḥअथathaदैवीःdaivīḥतृप्तिःtṛptiḥइतिitiवृष्टौvṛṣṭauबलम्balamइतिitiविद्युतिvidyuti

अन्वय

यः एवम् वेद, [तस्य यथोक्तम् फलम् उपनमते] । वाचि क्षेमः इति [ब्रह्म उपासीत]; प्राणापानयोः योगक्षेमः इति [ब्रह्म उपासीत]; हस्तयोः कर्म इति [ब्रह्म उपासीत]; पादयोः गतिः इति [ब्रह्म उपासीत]; पायौ विमुक्तिः इति [ब्रह्म उपासीत] । इति मानुषीः समाज्ञाः [सन्ति] । अथ दैवीः [समाज्ञाः उच्यन्ते]—वृष्टौ तृप्तिः इति [ब्रह्म उपासीत]; विद्युति बलम् इति [ब्रह्म उपासीत] ।

Passage 3.12

यश इति पशुषु । ज्योतिरिति नक्षत्रेषु । प्रजातिरमृतमानन्द इत्युपस्थे । सर्वमित्याकाशे । तत्प्रतिष्ठेत्युपासीत । प्रतिष्ठावान् भवति । तन्मह इत्युपासीत । महान्भवति । तन्मन इत्युपासीत । मानवान्भवति ॥ ३ ॥

पदच्छेद

यशःyaśaḥइतिitiपशुषुpaśuṣuज्योतिःjyotiḥइतिitiनक्षत्रेषुnakṣatreṣuप्रजातिःprajātiḥअमृतम्amṛtamआनन्दःānandaḥइतिitiउपस्थेupastheसर्वम्sarvamइतिitiआकाशेākāśeतत्tatप्रतिष्ठाpratiṣṭhāइतिitiउपासीतupāsītaप्रतिष्ठावान्pratiṣṭhāvānभवतिbhavatiतत्tatमहःmahaḥइतिitiउपासीतupāsītaमहान्mahānभवतिbhavatiतत्tatमनःmanaḥइतिitiउपासीतupāsītaमानवान्mānavānभवतिbhavati

अन्वय

पशुषु यशः इति [उपासीत]; नक्षत्रेषु ज्योतिः इति [उपासीत]; उपस्थे प्रजातिः अमृतम् आनन्दः इति [उपासीत]; आकाशे सर्वम् इति [उपासीत] । तत् प्रतिष्ठा इति उपासीत; प्रतिष्ठावान् भवति । तत् महः इति उपासीत; महान् भवति । तत् मनः इति उपासीत; मानवान् भवति ।

Passage 3.13

तन्नम इत्युपासीत । नम्यन्तेऽस्मै कामाः । तद्ब्रह्मेत्युपासीत । ब्रह्मवान्भवति । तद्ब्रह्मणः परिमर इत्युपासीत । पर्येणं म्रियन्ते द्विषन्तः सपत्नाः । परि येऽप्रिया भ्रातृव्याः । स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ॥ ४ ॥

पदच्छेद

तत्tatनमःnamaḥइतिitiउपासीतupāsītaनम्यन्तेnamyanteअस्मैasmaiकामाःkāmāḥतत्tatब्रह्मbrahmaइतिitiउपासीतupāsītaब्रह्मवान्brahmavānभवतिbhavatiतत्tatब्रह्मणःbrahmaṇaḥपरिमरःparimaraḥइतिitiउपासीतupāsītaपरिpariएनम्enamम्रियन्तेmriyanteद्विषन्तःdviṣantaḥसपत्नाःsapatnāḥपरिpariयेyeअप्रियाःapriyāḥभ्रातृव्याःbhrātṛvyāḥसःsaḥयःyaḥचcaअयम्ayamपुरुषेpuruṣeयःyaḥचcaअसौasauआदित्येādityeसःsaḥएकःekaḥ

अन्वय

तत् नमः इति उपासीत; अस्मै कामाः नम्यन्ते । तत् ब्रह्म इति उपासीत; ब्रह्मवान् भवति । तत् ब्रह्मणः परिमरः इति उपासीत; द्विषन्तः सपत्नाः एणम् परि म्रियन्ते; ये अप्रियाः भ्रातृव्याः [सन्ति], [ते] परि [म्रियन्ते] । यः च अयम् पुरुषे [अस्ति], यः च असौ आदित्ये [अस्ति], सः एकः [अस्ति] ।

Passage 3.14

स य एवंवित् । अस्माल्लोकात्प्रेत्य । एतमन्नमयमात्मानमुपसङ्क्रम्य । एतं प्राणमयमात्मानमुपसङ्क्रम्य । एतं मनोमयमात्मानमुपसङ्क्रम्य । एतं विज्ञानमयमात्मानमुपसङ्क्रम्य । एतमानन्दमयमात्मानमुपसङ्क्रम्य । इमाँल्लोकान्कामान्नी कामरूप्यनुसञ्चरन् । एतत् साम गायन्नास्ते । हा ३ वु हा ३ वु हा ३ वु ॥ ५ ॥

पदच्छेद

सःsaḥयःyaḥएवम्वित्evamvitअस्मात्asmātलोकात्lokātप्रेत्यpretyaएतम्etamअन्नमयम्annamayamआत्मानम्ātmānamउपसङ्क्रम्यupasaṅkramyaएतम्etamप्राणमयम्prāṇamayamआत्मानम्ātmānamउपसङ्क्रम्यupasaṅkramyaएतम्etamमनोमयम्manomayamआत्मानम्ātmānamउपसङ्क्रम्यupasaṅkramyaएतम्etamविज्ञानमयम्vijñānamayamआत्मानम्ātmānamउपसङ्क्रम्यupasaṅkramyaएतम्etamआनन्दमयम्ānandamayamआत्मानम्ātmānamउपसङ्क्रम्यupasaṅkramyaइमान्imānलोकान्lokānकामान्नीkāmānnīकामरूपीkāmarūpīअनुसञ्चरन्anusañcaranएतत्etatसामsāmaगायन्gāyanआस्तेāsteहाhāवुvuहाhāवुvuहाhāवुvu

अन्वय

यः एवंवित् [अस्ति], सः अस्मात् लोकात् प्रेत्य एतम् अन्नमयम् आत्मानम् उपसङ्क्रम्य, एतम् प्राणमयम् आत्मानम् उपसङ्क्रम्य, एतम् मनोमयम् आत्मानम् उपसङ्क्रम्य, एतम् विज्ञानमयम् आत्मानम् उपसङ्क्रम्य, एतम् आनन्दमयम् आत्मानम् उपसङ्क्रम्य, कामान्नी कामरूपी इमान् लोकान् अनुसञ्चरन् एतत् साम गायन् आस्ते-हा ३ वु हा ३ वु हा ३ वु ।

Passage 3.15

अहमन्नमहमन्नमहमन्नम् । अहमन्नादो३ऽहमन्नादो३ऽहमन्नादः । अहँश्लोककृदहँश्लोककृदहँश्लोककृत् । अहमस्मि प्रथमजा ऋता३स्य । पूर्वं देवेभ्योऽमृतस्य ना३भायि । यो मा ददाति स इदेव मा३ऽऽवाः । अहमन्नमन्नमदन्तमा३द्मि । अहं विश्वं भुवनमभ्यभवा३म् । सुवर्न ज्योतीः । य एवं वेद । इत्युपनिषत् ॥ ६ ॥

पदच्छेद

अहम्ahamअन्नम्annamअहम्ahamअन्नम्annamअहम्ahamअन्नम्annamअहम्ahamअन्नादःannādaḥअहम्ahamअन्नादःannādaḥअहम्ahamअन्नादःannādaḥअहम्ahamश्लोककृत्ślokakṛtअहम्ahamश्लोककृत्ślokakṛtअहम्ahamश्लोककृत्ślokakṛtअहम्ahamअस्मिasmiप्रथमजाःprathamajāḥऋतस्यṛtasyaपूर्वम्pūrvamदेवेभ्यःdevebhyaḥअमृतस्यamṛtasyaनाभिःnābhiḥयःyaḥमाmāददातिdadātiसःsaḥइत्itएवevaमाmāआवाःāvāḥअहम्ahamअन्नम्annamअन्नम्annamअदन्तम्adantamअद्मिadmiअहम्ahamविश्वम्viśvamभुवनम्bhuvanamअभ्यभवम्abhyabhavamसुवःsuvaḥनnaज्योतिःjyotiḥयःyaḥएवम्evamवेदvedaइतिitiउपनिषत्upaniṣat

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · भृगुवल्ली

Read the whole section →