Sunday Meditation· Open to Everyone

द्वितीयः अध्यायः

संस्कृत

Passage 2.1

युञ्जानः प्रथमं मनस्तत्त्वाय सविता धियः । अग्नेर्ज्योतिर्निचाय्य पृथिव्या अध्याभरत् ॥ १ ॥

पदच्छेद

युञ्जानःyuñjānaḥप्रथमम्prathamamमनःmanaḥतत्त्वायtattvāyaसविताsavitāधियःdhiyaḥअग्नेःagneḥज्योतिःjyotiḥनिचाय्यnicāyyaपृथिव्याःpṛthivyāḥअधिadhiआभरत्ābharat

Passage 2.2

युक्तेन मनसा वयं देवस्य सवितुः सवे । सुवर्गेयाय शक्त्या ॥ २ ॥

पदच्छेद

युक्तेनyuktenaमनसाmanasāवयम्vayamदेवस्यdevasyaसवितुःsavituḥसवेsaveसुवर्गेयायsuvargeyāyaशक्त्याśaktyā

Passage 2.3

युक्त्वाय मनसा देवान् सुवर्यतो धिया दिवम् । बृहज्ज्योतिः करिष्यतः सविता प्रसुवाति तान् ॥ ३ ॥

पदच्छेद

युक्त्वायyuktvāyaमनसाmanasāदेवान्devānसुवःsuvaḥयतःyataḥधियाdhiyāदिवम्divamबृहत्bṛhatज्योतिःjyotiḥकरिष्यतःkariṣyataḥसविताsavitāप्रसुवातिprasuvātiतान्tān

Passage 2.4

युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । विहोत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिः ॥ ४ ॥

पदच्छेद

युञ्जतेyuñjateमनःmanaḥउतutaयुञ्जतेyuñjateधियःdhiyaḥविप्राःviprāḥविप्रस्यviprasyaबृहतःbṛhataḥविपश्चितःvipaścitaḥविviहोत्राhotrāदधेdadheवयुनावित्vayunāvitएकःekaḥइत्itमहीmahīदेवस्यdevasyaसवितुःsavituḥपरिष्टुतिःpariṣṭutiḥ

Passage 2.5

युजे वां ब्रह्म पूर्व्यं नमोभिर्विश्लोक एतु पथ्येव सूरेः । शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ॥ ५ ॥

पदच्छेद

युजेyujeवाम्vāmब्रह्मbrahmaपूर्व्यम्pūrvyamनमोभिःnamobhiḥविviश्लोकःślokaḥएतुetuपथ्याpathyāइवivaसूरेःsūreḥशृण्वन्तुśṛṇvantuविश्वेviśveअमृतस्यamṛtasyaपुत्राःputrāḥआāयेyeधामानिdhāmāniदिव्यानिdivyāniतस्थुःtasthuḥ

Passage 2.6

अग्निर्यत्राभिमथ्यते वायुर्यत्राधिरुध्यते । सोमो यत्रातिरिच्यते तत्र सञ्जायते मनः ॥ ६ ॥

पदच्छेद

अग्निःagniḥयत्रyatraअभिमथ्यतेabhimathyateवायुःvāyuḥयत्रyatraअधिरुध्यतेadhirudhyateसोमःsomaḥयत्रyatraअतिरिच्यतेatiricyateतत्रtatraसञ्जायतेsañjāyateमनःmanaḥ

अन्वय

यत्र अग्निः अभिमथ्यते, यत्र वायुः अधिरुध्यते, यत्र सोमः अतिरिच्यते, तत्र मनः सञ्जायते ।

Passage 2.7

सवित्रा प्रसवेन जुषेत ब्रह्म पूर्व्यम् । यत्र योनिं कृणवसे न हि ते पूर्तमक्षिपत् ॥ ७ ॥

पदच्छेद

सवित्राsavitrāप्रसवेनprasavenaजुषेतjuṣetaब्रह्मbrahmaपूर्व्यम्pūrvyamयत्रyatraयोनिम्yonimकृणवसेkṛṇavaseनnaहिhiतेteपूर्तम्pūrtamअक्षिपत्akṣipat

Passage 2.8

त्रिरुन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा सन्निवेश्य । ब्रह्मोडुपेन प्रतरेत विद्वान्स्रोतांसि सर्वाणि भयानकानि ॥ ८ ॥

पदच्छेद

त्रिःtriḥउन्नतम्unnatamस्थाप्यsthāpyaसमम्samamशरीरम्śarīramहृदिhṛdiइन्द्रियाणिindriyāṇiमनसाmanasāसन्निवेश्यsanniveśyaब्रह्मोडुपेनbrahmoḍupenaप्रतरेत्prataretविद्वान्vidvānस्रोतांसिsrotāṃsiसर्वाणिsarvāṇiभयानकानिbhayānakāni

अन्वय

विद्वान् शरीरम् त्रिरुन्नतम् समम् स्थाप्य, मनसा इन्द्रियाणि हृदि सन्निवेश्य, ब्रह्मोडुपेन सर्वाणि भयानकानि स्रोतांसि प्रतरेत ।

Passage 2.9

प्राणान्प्रपीड्येह स युक्तचेष्टः क्षीणे प्राणे नासिकयोच्छ्वसीत । दुष्टाश्वयुक्तमिव वाहमेनं विद्वान्मनो धारयेताप्रमत्तः ॥ ९ ॥

पदच्छेद

प्राणान्prāṇānप्रपीड्यprapīḍyaइहihaसःsaḥयुक्तचेष्टःyuktaceṣṭaḥक्षीणेkṣīṇeप्राणेprāṇeनासिकयाnāsikayāउच्छ्वसीतucchvasītaदुष्टाश्वयुक्तम्duṣṭāśvayuktamइवivaवाहम्vāhamएनम्enamविद्वान्vidvānमनःmanaḥधारयेत्dhārayetअप्रमत्तःapramattaḥ

Passage 2.10

समे शुचौ शर्करावह्निवालुकाविवर्जिते शब्दजलाश्रयादिभिः । मनोनुकूले न तु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयेत् ॥ १० ॥

पदच्छेद

समेsameशुचौśucauशर्करावह्निवालुकाविवर्जितेśarkarāvahnivālukāvivarjiteशब्दजलाश्रयादिभिःśabdajalāśrayādibhiḥमनोनुकूलेmanonukūleनnaतुtuचक्षुपीडनेcakṣupīḍaneगुहानिवाताश्रयणेguhānivātāśrayaṇeप्रयोजयेत्prayojayet

Passage 2.11

नीहारधूमार्कानिलानलानां खद्योतविद्युत्स्फटिकशशीनाम् । एतानि रूपाणि पुरःसराणि ब्रह्मण्यभिव्यक्तिकराणि योगे ॥ ११ ॥

पदच्छेद

नीहारधूमार्कानिलानलानाम्nīhāradhūmārkānilānalānāmखद्योतविद्युत्स्फटिकशशीनाम्khadyotavidyutsphaṭikaśaśīnāmएतानिetāniरूपाणिrūpāṇiपुरःसराणिpuraḥsarāṇiब्रह्मणिbrahmaṇiअभिव्यक्तिकराणिabhivyaktikarāṇiयोगेyoge

अन्वय

नीहारधूमार्कानिलानलानाम् खद्योतविद्युत्स्फटिकशशीनाम् एतानि रूपाणि योगे पुरःसराणि ब्रह्मणि अभिव्यक्तिकराणि [भवन्ति] ।

Passage 2.12

पृथिव्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते । न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम् ॥ १२ ॥

पदच्छेद

पृथिव्यप्तेजोऽनिलखेpṛthivyaptejo’nilakheसमुत्थितेsamutthiteपञ्चात्मकेpañcātmakeयोगगुणेyogaguṇeप्रवृत्तेpravṛtteनnaतस्यtasyaरोगःrogaḥनnaजराjarāनnaमृत्युःmṛtyuḥप्राप्तस्यprāptasyaयोगाग्निमयम्yogāgnimayamशरीरम्śarīram

अन्वय

पृथिव्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते, योगाग्निमयम् शरीरम् प्राप्तस्य तस्य रोगः न [अस्ति], जरा न [अस्ति], मृत्युः न [अस्ति] ।

Passage 2.13

लघुत्वमारोग्यमलोलुपत्वं वर्णप्रसादं स्वरसौष्ठवं च । गन्धः शुभो मूत्रपुरीषमल्पं योगप्रवृत्तिं प्रथमां वदन्ति ॥ १३ ॥

पदच्छेद

लघुत्वम्laghutvamआरोग्यम्ārogyamअलोलुपत्वम्alolupatvamवर्णप्रसादम्varṇaprasādamस्वरसौष्ठवम्svarasauṣṭhavamचcaगन्धःgandhaḥशुभःśubhaḥमूत्रपुरीषम्mūtrapurīṣamअल्पम्alpamयोगप्रवृत्तिम्yogapravṛttimप्रथमाम्prathamāmवदन्तिvadanti

Passage 2.14

यथैव बिम्बं मृदयोपलिप्तं तेजोमयं भ्राजते तत्सुधान्तम् । तद्वात्मतत्त्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते वीतशोकः ॥ १४ ॥

पदच्छेद

यथाyathāएवevaबिम्बम्bimbamमृदाmṛdāउपलिप्तम्upaliptamतेजोमयम्tejomayamभ्राजतेbhrājateतत्tatसुधान्तम्sudhāntamतत्tatवाvāआत्मतत्त्वम्ātmatattvamप्रसमीक्ष्यprasamīkṣyaदेहीdehīएकःekaḥकृतार्थःkṛtārthaḥभवतेbhavateवीतशोकःvītaśokaḥ

Passage 2.15

यदात्मतत्त्वेन तु ब्रह्मतत्त्वं दीपोपमेनेह युक्तः प्रपश्येत् । अजं ध्रुवं सर्वतत्त्वैर्विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपापैः ॥ १५ ॥

पदच्छेद

यदाyadāआत्मतत्त्वेनātmatattvenaतुtuब्रह्मतत्त्वम्brahmatattvamदीपोपमेनdīpopamenaइहihaयुक्तःyuktaḥप्रपश्येत्prapaśyetअजम्ajamध्रुवम्dhruvamसर्वतत्त्वैःsarvatattvaiḥविशुद्धम्viśuddhamज्ञात्वाjñātvāदेवम्devamमुच्यतेmucyateसर्वपापैःsarvapāpaiḥ

अन्वय

यदा तु इह युक्तः दीपोपमेन आत्मतत्त्वेन ब्रह्मतत्त्वम् प्रपश्येत्, [तदा] अजम् ध्रुवम् सर्वतत्त्वैः विशुद्धम् देवम् ज्ञात्वा सर्वपापैः मुच्यते ।

Passage 2.16

एषो ह देवः प्रदिशोऽनु सर्वाः पूर्वो ह जातः स उ गर्भे अन्तः । स एव जातः स जनिष्यमाणः प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः ॥ १६ ॥

पदच्छेद

एषःeṣaḥहhaदेवःdevaḥप्रदिशःpradiśaḥअनुanuसर्वाःsarvāḥपूर्वःpūrvaḥहhaजातःjātaḥसःsaḥउuगर्भेgarbheअन्तःantaḥसःsaḥएवevaजातःjātaḥसःsaḥजनिष्यमाणःjaniṣyamāṇaḥप्रत्यङ्pratyaṅजनाःjanāḥतिष्ठतिtiṣṭhatiसर्वतोमुखःsarvatomukhaḥ

Passage 2.17

यो देवोऽग्नौ योऽप्सु यो विश्वं भुवनमाविवेश । य ओषधीषु यो वनस्पतिषु तस्मै देवाय नमो नमः ॥ १७ ॥

पदच्छेद

यःyaḥदेवःdevaḥअग्नौagnauयःyaḥअप्सुapsuयःyaḥविश्वम्viśvamभुवनम्bhuvanamआविवेशāviveśaयःyaḥओषधीषुoṣadhīṣuयःyaḥवनस्पतिषुvanaspatiṣuतस्मैtasmaiदेवायdevāyaनमःnamaḥनमःnamaḥ

अन्वय

यः देवः अग्नौ [अस्ति], यः अप्सु [अस्ति], यः विश्वम् भुवनम् आविवेश, यः ओषधीषु [अस्ति], यः वनस्पतिषु [अस्ति], तस्मै देवाय नमः नमः ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · द्वितीयः अध्यायः

Read the whole section →