Sunday Meditation· Open to Everyone

प्रथमः अध्यायः

संस्कृत

Passage 1.1

किं कारणं ब्रह्म कुतः स्म जाता जीवाम केन क्व च सम्प्रतिष्ठा । अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्थाम् ॥ १ ॥

पदच्छेद

किम्kimकारणम्kāraṇamब्रह्मbrahmaकुतःkutaḥस्मsmaजाताःjātāḥजीवामjīvāmaकेनkenaक्वkvaचcaसम्प्रतिष्ठाःsampratiṣṭhāḥअधिष्ठिताःadhiṣṭhitāḥकेनkenaसुखेतरेषुsukhetareṣuवर्तामहेvartāmaheब्रह्मविदःbrahmavidaḥव्यवस्थाम्vyavasthām

Passage 1.2

कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम् । संयोग एषां न त्वात्मभावादात्माप्यनीशः सुखदुःखहेतोः ॥ २ ॥

पदच्छेद

कालःkālaḥस्वभावःsvabhāvaḥनियतिःniyatiḥयदृच्छाyadṛcchāभूतानिbhūtāniयोनिःyoniḥपुरुषःpuruṣaḥइतिitiचिन्त्यम्cintyamसंयोगःsaṃyogaḥएषाम्eṣāmनnaतुtuआत्मभावात्ātmabhāvātआत्माātmāअपिapiअनीशःanīśaḥसुखदुःखहेतोःsukhaduḥkhahetoḥ

Passage 1.3

ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निगूढाम् । यः कारणानि निखिलानि तानि कालात्मयुक्तान्यधितिष्ठत्येकः ॥ ३ ॥

पदच्छेद

तेteध्यानयोगानुगताःdhyānayogānugatāḥअपश्यन्apaśyanदेवात्मशक्तिम्devātmaśaktimस्वगुणैःsvaguṇaiḥनिगूढाम्nigūḍhāmयःyaḥकारणानिkāraṇāniनिखिलानिnikhilāniतानिtāniकालात्मयुक्तानिkālātmayuktāniअधितिष्ठतिadhitiṣṭhatiएकःekaḥ

अन्वय

ते ध्यानयोगानुगताः स्वगुणैः निगूढाम् देवात्मशक्तिम् अपश्यन् । यः एकः तानि निखिलानि कालात्मयुक्तानि कारणानि अधितिष्ठति, [तस्य देवस्य शक्तिम् अपश्यन्] ।

Passage 1.4

तमेकनेमिं त्रिवृतं षोडशान्तं शतार्धारं विंशतिप्रत्यराभिः । अष्टकैः षड्भिर्विश्वरूपैकपाशं त्रिमार्गभेदं द्विनिमित्तैकमोहम् ॥ ४ ॥

पदच्छेद

तम्tamएकनेमिम्ekanemimत्रिवृतम्trivṛtamषोडशान्तम्ṣoḍaśāntamशतार्धारम्śatārdhāramविंशतिप्रत्यराभिःviṃśatipratyarābhiḥअष्टकैःaṣṭakaiḥषड्भिःṣaḍbhiḥविश्वरूपैकपाशम्viśvarūpaikapāśamत्रिमार्गभेदम्trimārgabhedamद्विनिमित्तैकमोहम्dvinimittaikamoham

Passage 1.5

पञ्चस्रोतोऽम्बुं पञ्चयोन्युग्रवक्त्रां पञ्चप्राणोर्मिं पञ्चबुद्ध्यादिमूलाम् । पञ्चावर्तां पञ्चदुःखौघवेगां पञ्चाशद्भेदां पञ्चपर्वामधीमः ॥ ५ ॥

पदच्छेद

पञ्चस्रोतोऽम्बुम्pañcasroto’mbumपञ्चयोन्युग्रवक्त्राम्pañcayonyugravaktrāmपञ्चप्राणोर्मिम्pañcaprāṇormimपञ्चबुद्ध्यादिमूलाम्pañcabuddhyādimūlāmपञ्चावर्ताम्pañcāvartāmपञ्चदुःखौघवेगाम्pañcaduḥkhaughavegāmपञ्चाशद्भेदाम्pañcāśadbhedāmपञ्चपर्वाम्pañcaparvāmअधीमःadhīmaḥ

Passage 1.6

सर्वाजीवे सर्वसंस्थे बृहन्ते तस्मिन्हंसो भ्राम्यते ब्रह्मचक्रे । पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति ॥ ६ ॥

पदच्छेद

सर्वाजीवेsarvājīveसर्वसंस्थेsarvasaṃstheबृहन्तेbṛhanteतस्मिन्tasminहंसःhaṃsaḥभ्राम्यतेbhrāmyateब्रह्मचक्रेbrahmacakreपृथक्pṛthakआत्मानम्ātmānamप्रेरितारम्preritāramचcaमत्वाmatvāजुष्टःjuṣṭaḥततःtataḥतेनtenaअमृतत्वम्amṛtatvamएतिeti

अन्वय

सर्वाजीवे सर्वसंस्थे बृहन्ते तस्मिन् ब्रह्मचक्रे हंसः भ्राम्यते । आत्मानम् प्रेरितारम् च पृथक् मत्वा [भ्राम्यते] । ततः तेन जुष्टः [सः] अमृतत्वम् एति ।

Passage 1.7

उद्गीतमेतत्परमं तु ब्रह्म तस्मिंस्त्रयं सुप्रतिष्ठाऽक्षरं च । अत्रान्तरं ब्रह्मविदो विदित्वा लीना ब्रह्मणि तत्परा योनिमुक्ताः ॥ ७ ॥

पदच्छेद

उद्गीतम्udgītamएतत्etatपरमम्paramamतुtuब्रह्मbrahmaतस्मिन्tasminत्रयम्trayamसुप्रतिष्ठाsupratiṣṭhāअक्षरम्akṣaramचcaअत्रatraअन्तरम्antaramब्रह्मविदःbrahmavidaḥविदित्वाviditvāलीनाःlīnāḥब्रह्मणिbrahmaṇiतत्पराःtatparāḥयोनिमुक्ताःyonimuktāḥ

Passage 1.8

संयुक्तमेतत्क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः । अनीशश्चात्मा बध्यते भोक्तृभावाज्ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ ८ ॥

पदच्छेद

संयुक्तम्saṃyuktamएतत्etatक्षरम्kṣaramअक्षरम्akṣaramचcaव्यक्ताव्यक्तम्vyaktāvyaktamभरतेbharateविश्वम्viśvamईशःīśaḥअनीशःanīśaḥचcaआत्माātmāबध्यतेbadhyateभोक्तृभावात्bhoktṛbhāvātज्ञात्वाjñātvāदेवम्devamमुच्यतेmucyateसर्वपाशैःsarvapāśaiḥ

अन्वय

ईशः संयुक्तम् एतत् क्षरम् अक्षरम् च व्यक्ताव्यक्तम् विश्वम् भरते । अनीशः च आत्मा भोक्तृभावात् बध्यते । देवम् ज्ञात्वा [सः] सर्वपाशैः मुच्यते ।

Passage 1.9

ज्ञाज्ञौ द्वावजावीशनीशावजा ह्येका भोक्तृभोग्यार्थयुक्ता । अनन्तश्चात्मा विश्वरूपो ह्यकर्ता त्रयं यदा विन्दते ब्रह्ममेतत् ॥ ९ ॥

पदच्छेद

ज्ञाज्ञौjñājñauद्वौdvauअजौajauईशनीशौīśanīśauअजाajāहिhiएकाekāभोक्तृभोग्यार्थयुक्ताbhoktṛbhogyārthayuktāअनन्तःanantaḥचcaआत्माātmāविश्वरूपःviśvarūpaḥहिhiअकर्ताakartāत्रयम्trayamयदाyadāविन्दतेvindateब्रह्मम्brahmamएतत्etat

Passage 1.10

क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः । तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः ॥ १० ॥

पदच्छेद

क्षरम्kṣaramप्रधानम्pradhānamअमृताक्षरम्amṛtākṣaramहरःharaḥक्षरात्मानौkṣarātmānauईशतेīśateदेवःdevaḥएकःekaḥतस्यtasyaअभिध्यानात्abhidhyānātयोजनात्yojanātतत्त्वभावात्tattvabhāvātभूयःbhūyaḥचcaअन्तेanteविश्वमायानिवृत्तिःviśvamāyānivṛttiḥ

अन्वय

प्रधानम् क्षरम् [अस्ति]; हरः अमृताक्षरम् [अस्ति] । एकः देवः क्षरात्मानौ ईशते । तस्य अभिध्यानात् योजनात् तत्त्वभावात् भूयः च अन्ते विश्वमायानिवृत्तिः [भवति] ।

Passage 1.11

ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः । तस्याभिध्यानात्तृतीयं देहभेदे विश्वैश्वर्यं केवल आप्तकामः ॥ ११ ॥

पदच्छेद

ज्ञात्वाjñātvāदेवम्devamसर्वपाशापहानिःsarvapāśāpahāniḥक्षीणैःkṣīṇaiḥक्लेशैःkleśaiḥजन्ममृत्युप्रहाणिःjanmamṛtyuprahāṇiḥतस्यtasyaअभिध्यानात्abhidhyānātतृतीयम्tṛtīyamदेहभेदेdehabhedeविश्वैश्वर्यम्viśvaiśvaryamकेवलःkevalaḥआप्तकामःāptakāmaḥ

Passage 1.12

एतज्ज्ञेयं नित्यमेवात्मसंस्थं नातः परं वेदितव्यं हि किञ्चित् । भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् ॥ १२ ॥

पदच्छेद

एतत्etatज्ञेयम्jñeyamनित्यम्nityamएवevaआत्मसंस्थम्ātmasaṃsthamनnaअतःataḥपरम्paramवेदितव्यम्veditavyamहिhiकिञ्चित्kiñcitभोक्ताbhoktāभोग्यम्bhogyamप्रेरितारम्preritāramचcaमत्वाmatvāसर्वम्sarvamप्रोक्तम्proktamत्रिविधम्trividhamब्रह्मम्brahmamएतत्etat

Passage 1.13

वह्नेर्यथा योनिगतस्य मूर्तिर्न दृश्यते नैव च लिङ्गनाशः । स भूय एवेन्धनयोनिगृह्यस्तद्वोभयं वै प्रणवेन देहे ॥ १३ ॥

पदच्छेद

वह्नेःvahneḥयथाyathāयोनिगतस्यyonigatasyaमूर्तिःmūrtiḥनnaदृश्यतेdṛśyateनnaएवevaचcaलिङ्गनाशःliṅganāśaḥसःsaḥभूयःbhūyaḥएवevaइन्धनयोनिगृह्यःindhanayonigṛhyaḥतत्tatवाvāउभयम्ubhayamवैvaiप्रणवेनpraṇavenaदेहेdehe

अन्वय

यथा योनिगतस्य वह्नेः मूर्तिः न दृश्यते, लिङ्गनाशः च न एव [भवति], सः भूयः एव इन्धनयोनिगृह्यः [भवति], तत् उभयम् वै वः देहे प्रणवेन [गृह्यम् भवति] ।

Passage 1.14

स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत् ॥ १४ ॥

पदच्छेद

स्वदेहम्svadehamअरणिम्araṇimकृत्वाkṛtvāप्रणवम्praṇavamचcaउत्तरारणिम्uttarāraṇimध्याननिर्मथनाभ्यासात्dhyānanirmathanābhyāsātदेवम्devamपश्येत्paśyetनिगूढवत्nigūḍhavat

अन्वय

स्वदेहम् अरणिम् कृत्वा, प्रणवम् च उत्तरारणिम् [कृत्वा], ध्याननिर्मथनाभ्यासात् निगूढवत् देवम् पश्येत् ।

Passage 1.15

तिलेषु तैलं दधनीव सर्पिरापः स्रोतःस्वरणीषु चाग्निः । एवमात्माऽत्मनि गृह्यतेऽसौ सत्येनैनं तपसा योऽनुपश्यति ॥ १५ ॥

पदच्छेद

तिलेषुtileṣuतैलम्tailamदधनिdadhaniइवivaसर्पिःsarpiḥआपःāpaḥस्रोतःसुsrotaḥsuअरणीषुaraṇīṣuचcaअग्निःagniḥएवम्evamआत्माātmāआत्मनिātmaniगृह्यतेgṛhyateअसौasauसत्येनsatyenaएनम्enamतपसाtapasāयःyaḥअनुपश्यतिanupaśyati

अन्वय

यथा तिलेषु तैलम्, दधनि सर्पिः इव, स्रोतःसु आपः, अरणीषु च अग्निः [गृह्यते], एवम् असौ आत्मा आत्मनि गृह्यते । यः एनम् सत्येन तपसा अनुपश्यति, [तस्य आत्मनि गृह्यते] ।

Passage 1.16

सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम् । आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत्परं तद्ब्रह्मोपनिषत्परमिति ॥ १६ ॥

पदच्छेद

सर्वव्यापिनम्sarvavyāpinamआत्मानम्ātmānamक्षीरेkṣīreसर्पिःsarpiḥइवivaअर्पितम्arpitamआत्मविद्यातपोमूलम्ātmavidyātapomūlamतत्tatब्रह्मbrahmaउपनिषत्upaniṣatपरम्paramतत्tatब्रह्मbrahmaउपनिषत्upaniṣatपरम्paramइतिiti

अन्वय

क्षीरे अर्पितम् सर्पिः इव सर्वव्यापिनम् आत्मविद्यातपोमूलम् आत्मानम् [अनुपश्यति] । तत् ब्रह्म उपनिषत्परम् [अस्ति]; तत् ब्रह्म उपनिषत्परम् [अस्ति] इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · प्रथमः अध्यायः

Read the whole section →