Sunday Meditation· Open to Everyone

पञ्चमः अध्यायः

संस्कृत

Passage 5.1

द्वे अक्षरे ब्रह्मपरे त्वनन्ते विद्याविद्ये निहिते यत्र गूढे । क्षरं त्वविद्या ह्यमृतं तु विद्या विद्याविद्ये ईशते यस्तु सोऽन्यः ॥ १ ॥

पदच्छेद

द्वेdveअक्षरेakṣareब्रह्मपरेbrahmapareतुtuअनन्तेananteविद्याविद्येvidyāvidyeनिहितेnihiteयत्रyatraगूढेgūḍheक्षरम्kṣaramतुtuअविद्याavidyāहिhiअमृतम्amṛtamतुtuविद्याvidyāविद्याविद्येvidyāvidyeईशतेīśateयःyaḥतुtuसःsaḥअन्यःanyaḥ

अन्वय

यत्र अक्षरे अनन्ते ब्रह्मपरे गूढे द्वे विद्याविद्ये निहिते [स्तः], अविद्या तु क्षरम् [अस्ति], विद्या हि अमृतम् तु [अस्ति] । यः तु विद्याविद्ये ईशते, सः अन्यः [अस्ति] ।

Passage 5.2

यो योनिं योनिमधितिष्ठत्येको विश्वानि रूपाणि योनीश्च सर्वाः । ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत् ॥ २ ॥

पदच्छेद

यःyaḥयोनिम्yonimयोनिम्yonimअधितिष्ठतिadhitiṣṭhatiएकःekaḥविश्वानिviśvāniरूपाणिrūpāṇiयोनीःyonīḥचcaसर्वाःsarvāḥऋषिम्ṛṣimप्रसूतम्prasūtamकपिलम्kapilamयःyaḥतम्tamअग्रेagreज्ञानैःjñānaiḥबिभर्तिbibhartiजायमानम्jāyamānamचcaपश्येत्paśyet

Passage 5.3

एकैकं जालं बहुधा विकुर्वन्नस्मिन्क्षेत्रे संहरत्येष देवः । भूयः सृष्ट्वा पतयस्तथेशः सर्वाधिपत्यं कुरुते महात्मा ॥ ३ ॥

पदच्छेद

एकैकम्ekaikamजालम्jālamबहुधाbahudhāविकुर्वन्vikurvanअस्मिन्asminक्षेत्रेkṣetreसंहरतिsaṃharatiएषःeṣaḥदेवःdevaḥभूयःbhūyaḥसृष्ट्वाsṛṣṭvāपतयःpatayaḥतथाtathāईशःīśaḥसर्वाधिपत्यम्sarvādhipatyamकुरुतेkuruteमहात्माmahātmā

Passage 5.4

सर्वा दिश ऊर्ध्वमधश्च तिर्यक्प्रकाशयन्भ्राजते यद्वनड्वान् । एवं स देवो भगवान्वरेण्यो योनिस्वभावानधितिष्ठत्येकः ॥ ४ ॥

पदच्छेद

सर्वाःsarvāḥदिशःdiśaḥऊर्ध्वम्ūrdhvamअधःadhaḥचcaतिर्यक्tiryakप्रकाशयन्prakāśayanभ्राजतेbhrājateयदुyaduअनड्वान्anaḍvānएवम्evamसःsaḥदेवःdevaḥभगवान्bhagavānवरेण्यःvareṇyaḥयोनिस्वभावान्yonisvabhāvānअधितिष्ठतिadhitiṣṭhatiएकःekaḥ

Passage 5.5

यच्च स्वभावं पचति विश्वयोनिः पाच्यांश्च सर्वान् परिणामयेद्यः । सर्वमेतद्विश्वमधितिष्ठत्येको गुणांश्च सर्वान्विनियोजयेद्यः ॥ ५ ॥

पदच्छेद

यत्yatचcaस्वभावम्svabhāvamपचतिpacatiविश्वयोनिःviśvayoniḥपाच्यान्pācyānचcaसर्वान्sarvānपरिणामयेत्pariṇāmayetयःyaḥसर्वम्sarvamएतत्etatविश्वम्viśvamअधितिष्ठतिadhitiṣṭhatiएकःekaḥगुणान्guṇānचcaसर्वान्sarvānविनियोजयेत्viniyojayetयःyaḥ

Passage 5.6

तद्वेदगुह्योपनिषत्सु गूढं तद्ब्रह्मा वेदते ब्रह्मयोनिम् । ये पूर्वं देवा ऋषयश्च तद्विदुस्ते तन्मया अमृता वै बभूवुः ॥ ६ ॥

पदच्छेद

तत्tatवेदगुह्योपनिषत्सुvedaguhyopaniṣatsuगूढम्gūḍhamतत्tatब्रह्माbrahmāवेदतेvedateब्रह्मयोनिम्brahmayonimयेyeपूर्वम्pūrvamदेवाःdevāḥऋषयःṛṣayaḥचcaतत्tatविदुःviduḥतेteतन्मयाःtanmayāḥअमृताःamṛtāḥवैvaiबभूवुःbabhūvuḥ

Passage 5.7

गुणान्वयो यः फलकर्मकर्ता कृतस्य तस्यैव स चोपभोक्ता । स विश्वरूपस्त्रिगुणस्त्रिवर्त्मा प्राणाधिपः सञ्चरति स्वकर्मभिः ॥ ७ ॥

पदच्छेद

गुणान्वयःguṇānvayaḥयःyaḥफलकर्मकर्ताphalakarmakartāकृतस्यkṛtasyaतस्यtasyaएवevaसःsaḥचcaउपभोक्ताupabhoktāसःsaḥविश्वरूपःviśvarūpaḥत्रिगुणःtriguṇaḥत्रिवर्त्माtrivartmāप्राणाधिपःprāṇādhipaḥसञ्चरतिsañcaratiस्वकर्मभिःsvakarmabhiḥ

अन्वय

यः गुणान्वयः फलकर्मकर्ता [अस्ति], सः च तस्य कृतस्य एव उपभोक्ता [अस्ति] । सः विश्वरूपः त्रिगुणः त्रिवर्त्मा प्राणाधिपः स्वकर्मभिः सञ्चरति ।

Passage 5.8

अङ्गुष्ठमात्रो रवितुल्यरूपः सङ्कल्पाहङ्कारसमन्वितो यः । बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रोऽप्यपरोऽपि दृष्टः ॥ ८ ॥

पदच्छेद

अङ्गुष्ठमात्रःaṅguṣṭhamātraḥरवितुल्यरूपःravitulyarūpaḥसङ्कल्पाहङ्कारसमन्वितःsaṅkalpāhaṅkārasamanvitaḥयःyaḥबुद्धेःbuddheḥगुणेनguṇenaआत्मगुणेनātmaguṇenaचcaएवevaआराग्रमात्रःārāgramātraḥअपिapiअपरःaparaḥअपिapiदृष्टःdṛṣṭaḥ

Passage 5.9

बालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ ९ ॥

पदच्छेद

बालाग्रशतभागस्यbālāgraśatabhāgasyaशतधाśatadhāकल्पितस्यkalpitasyaचcaभागःbhāgaḥजीवःjīvaḥसःsaḥविज्ञेयःvijñeyaḥसःsaḥचcaअनन्त्यायanantyāyaकल्पतेkalpate

अन्वय

शतधा कल्पितस्य बालाग्रशतभागस्य भागः सः जीवः विज्ञेयः [अस्ति]; सः च आनन्त्याय कल्पते ।

Passage 5.10

नैव स्त्री न पुमानेष न चैवायं नपुंसकः । यद्यच्छरीरमादत्ते तेन तेन स युज्यते ॥ १० ॥

पदच्छेद

नnaएवevaस्त्रीstrīनnaपुमान्pumānएषःeṣaḥनnaचcaएवevaअयम्ayamनपुंसकःnapuṃsakaḥयत्yatयत्yatशरीरम्śarīramआदत्तेādatteतेनtenaतेनtenaसःsaḥयुज्यतेyujyate

अन्वय

एषः स्त्री न एव [अस्ति], पुमान् न [अस्ति], अयम् नपुंसकः च न एव [अस्ति] । सः यत् यत् शरीरम् आदत्ते, तेन तेन युज्यते ।

Passage 5.11

सङ्कल्पनस्पर्शनदृष्टिमोहैर्ग्रासांबुवृष्ट्यात्मविवृद्धिजन्म । कर्मानुगान्यनुक्रमेण देही स्थानेषु रूपाण्यभिसम्प्रपद्यते ॥ ११ ॥

पदच्छेद

सङ्कल्पनस्पर्शनदृष्टिमोहैःsaṅkalpanasparśanadṛṣṭimohaiḥग्रासाम्बुवृष्ट्याgrāsāmbuvṛṣṭyāआत्मविवृद्धिजन्मātmavivṛddhijanmaकर्मानुगानिkarmānugāniअनुक्रमेणanukrameṇaदेहीdehīस्थानेषुsthāneṣuरूपाणिrūpāṇiअभिसम्प्रपद्यतेabhisamprapadyate

Passage 5.12

स्थूलानि सूक्ष्माणि बहूनि चैव रूपाणि देही स्वगुणैर्वृणोति । क्रियागुणैरात्मगुणैश्च तेषां संयोगहेतुरपरोऽपि दृष्टः ॥ १२ ॥

पदच्छेद

स्थूलानिsthūlāniसूक्ष्माणिsūkṣmāṇiबहूनिbahūniचcaएवevaरूपाणिrūpāṇiदेहीdehīस्वगुणैःsvaguṇaiḥवृणोतिvṛṇotiक्रियागुणैःkriyāguṇaiḥआत्मगुणैःātmaguṇaiḥचcaतेषाम्teṣāmसंयोगहेतुःsaṃyogahetuḥअपरःaparaḥअपिapiदृष्टःdṛṣṭaḥ

अन्वय

देही स्थूलानि सूक्ष्माणि बहूनि च एव रूपाणि स्वगुणैः वृणोति । क्रियागुणैः आत्मगुणैः च तेषाम् संयोगहेतुः अपरः अपि दृष्टः [अस्ति] ।

Passage 5.13

अनाद्यनन्तं कलिलस्य मध्ये विश्वस्य स्रष्टारमनेकरूपम् । विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ १३ ॥

पदच्छेद

अनाद्यनन्तम्anādyanantamकलिलस्यkalilasyaमध्येmadhyeविश्वस्यviśvasyaस्रष्टारम्sraṣṭāramअनेकरूपम्anekarūpamविश्वस्यviśvasyaएकम्ekamपरिवेष्टितारम्pariveṣṭitāramज्ञात्वाjñātvāदेवम्devamमुच्यतेmucyateसर्वपाशैःsarvapāśaiḥ

अन्वय

कलिलस्य मध्ये अनादि अनन्तम् अनेकरूपम् विश्वस्य स्रष्टारम् विश्वस्य एकम् परिवेष्टितारम् देवम् ज्ञात्वा [ज्ञाता] सर्वपाशैः मुच्यते ।

Passage 5.14

भावग्राह्यमनीडाख्यं भावाभावकरं शिवम् । कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ॥ १४ ॥

पदच्छेद

भावग्राह्यम्bhāvagrāhyamअनीडाख्यम्anīḍākhyamभावाभावकरम्bhāvābhāvakaramशिवम्śivamकलासर्गकरम्kalāsargakaramदेवम्devamयेyeविदुःviduḥतेteजहुःjahuḥतनुम्tanum

अन्वय

ये भावग्राह्यम् अनीडाख्यम् भावाभावकरम् शिवम् कलासर्गकरम् देवम् विदुः, ते तनुम् जहुः ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · पञ्चमः अध्यायः

Read the whole section →