Sunday Meditation· Open to Everyone

प्रथमः प्रश्नः

संस्कृत

Passage 1.1

ॐ सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ १ ॥

पदच्छेद

ॐoṃसुकेशाsukeśāचcaभारद्वाजःbhāradvājaḥशैब्यःśaibyaḥचcaसत्यकामःsatyakāmaḥसौर्यायणीsauryāyaṇīचcaगार्ग्यःgārgyaḥकौसल्यःkausalyaḥचcaआश्वलायनःāśvalāyanaḥभार्गवःbhārgavaḥवैदर्भिःvaidarbhiḥकबन्धीkabandhīकात्यायनःkātyāyanaḥतेteहhaएतेeteब्रह्मपराःbrahmaparāḥब्रह्मनिष्ठाःbrahmaniṣṭhāḥपरम्paramब्रह्मbrahmaअन्वेषमाणाःanveṣamāṇāḥएषःeṣaḥहhaवैvaiतत्tatसर्वम्sarvamवक्ष्यतिvakṣyatiइतिitiतेteहhaसमित्पाणयःsamitpāṇayaḥभगवन्तम्bhagavantamपिप्पलादम्pippalādamउपसन्नाःupasannāḥ

अन्वय

ॐ । भारद्वाजः सुकेशा च, शैब्यः सत्यकामः च, सौर्यायणी गार्ग्यः च, कौसल्यः आश्वलायनः च, वैदर्भिः भार्गवः, कात्यायनः कबन्धी, ते ह एते ब्रह्मपराः ब्रह्मनिष्ठाः परम् ब्रह्म अन्वेषमाणाः, एषः ह वै तत् सर्वम् वक्ष्यति इति, ते ह समित्पाणयः भगवन्तम् पिप्पलादम् उपसन्नाः ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · प्रथमः प्रश्नः

Read the whole section →