Sunday Meditation· Open to Everyone

तृतीयः प्रश्नः

संस्कृत

Passage 3.1

अथ हैनं कौसल्यश्चाश्वलायनः पप्रच्छ । भगवन् कुत एष प्राणो जायते कथमायात्यस्मिञ्शरीर आत्मानं वा प्रविभज्य कथं प्रातिष्ठते केनोत्क्रमते कथं बाह्यमभिधत्ते कथमध्यात्ममिति ॥ १ ॥

पदच्छेद

अथathaहhaएनम्enamकौसल्यःkausalyaḥचcaआश्वलायनःāśvalāyanaḥपप्रच्छpapracchaभगवन्bhagavanकुतःkutaḥएषःeṣaḥप्राणःprāṇaḥजायतेjāyateकथम्kathamआयातिāyātiअस्मिन्asminशरीरेśarīreआत्मानम्ātmānamवाvāप्रविभज्यpravibhajyaकथम्kathamप्रातिष्ठतेprātiṣṭhateकेनkenaउत्क्रमतेutkramateकथम्kathamबाह्यम्bāhyamअभिधत्तेabhidhatteकथम्kathamअध्यात्मम्adhyātmamइतिiti

अन्वय

अथ ह कौसल्यः आश्वलायनः च एनम् पप्रच्छ-भगवन्, एषः प्राणः कुतः जायते? अस्मिन् शरीर [एषः] कथम् आयाति? आत्मानम् वा प्रविभज्य कथम् प्रातिष्ठते? केन उत्क्रमते? बाह्यम् कथम् अभिधत्ते? अध्यात्मम् कथम् [अभिधत्ते] इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · तृतीयः प्रश्नः

Read the whole section →