Sunday Meditation· Open to Everyone

द्वितीयः प्रश्नः

संस्कृत

Passage 2.4

सोऽभिमानादूर्ध्वमुत्क्रमत इव तस्मिन्नुत्क्रामत्यथेतरे सर्व एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रातिष्ठन्ते । तद्यथा मक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रातिष्ठन्त एवम् वाङ्मनश्चक्षुः श्रोत्रं च ते प्रीताः प्राणं स्तुन्वन्ति ॥ ४ ॥

पदच्छेद

सःsaḥअभिमानात्abhimānātऊर्ध्वम्ūrdhvamउत्क्रमतेutkramateइवivaतस्मिन्tasminउत्क्रामतिutkrāmatiअथathaइतरेitareसर्वेsarveएवevaउत्क्रामन्तेutkrāmanteतस्मिन्tasminचcaप्रतिष्ठमानेpratiṣṭhamāneसर्वेsarveएवevaप्रातिष्ठन्तेprātiṣṭhanteतत्tatयथाyathāमक्षिकाःmakṣikāḥमधुकरराजानम्madhukararājānamउत्क्रामन्तम्utkrāmantamसर्वाःsarvāḥएवevaउत्क्रामन्तेutkrāmanteतस्मिन्tasminचcaप्रतिष्ठमानेpratiṣṭhamāneसर्वाःsarvāḥएवevaप्रातिष्ठन्तेprātiṣṭhanteएवम्evamवाक्vākमनःmanaḥचक्षुःcakṣuḥश्रोत्रम्śrotramचcaतेteप्रीताःprītāḥप्राणम्prāṇamस्तुन्वन्तिstunvanti

अन्वय

सः अभिमानात् ऊर्ध्वम् उत्क्रमते इव । तस्मिन् उत्क्रामति अथ इतरे सर्वे एव उत्क्रामन्ते; तस्मिन् च प्रतिष्ठमाने सर्वे एव प्रातिष्ठन्ते । तत् यथा उत्क्रामन्तम् मधुकरराजानम् सर्वाः मक्षिकाः एव उत्क्रामन्ते, तस्मिन् च प्रतिष्ठमाने सर्वाः एव प्रातिष्ठन्ते, एवम् वाक् मनः चक्षुः श्रोत्रम् च [अनुवर्तन्ते] । ते प्रीताः प्राणम् स्तुन्वन्ति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · द्वितीयः प्रश्नः

Read the whole section →