Sunday Meditation· Open to Everyone

द्वितीयः प्रश्नः

संस्कृत

Passage 2.1

अथ हैनं भार्गवो वैदर्भिः पप्रच्छ । भगवन् कत्येव देवाः प्रजां विधारयन्ते कतर एतत् प्रकाशयन्ते कः पुनरेषां वरिष्ठ इति ॥ १ ॥

पदच्छेद

अथathaहhaएनम्enamभार्गवःbhārgavaḥवैदर्भिःvaidarbhiḥपप्रच्छpapracchaभगवन्bhagavanकतिkatiएवevaदेवाःdevāḥप्रजाम्prajāmविधारयन्तेvidhārayanteकतरेkatareएतत्etatप्रकाशयन्तेprakāśayanteकःkaḥपुनःpunaḥएषाम्eṣāmवरिष्ठःvariṣṭhaḥइतिiti

अन्वय

अथ ह वैदर्भिः भार्गवः एनम् पप्रच्छ-भगवन्, कति एव देवाः प्रजाम् विधारयन्ते? कतरे एतत् प्रकाशयन्ते? पुनः एषाम् कः वरिष्ठः [अस्ति] इति ।

Passage 2.2

तस्मै स होवाचाकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च । ते प्रकाश्याभिवदन्ति वयमेतद्बाणमवष्टभ्य विधारयामः ॥ २ ॥

पदच्छेद

तस्मैtasmaiसःsaḥहhaउवाचuvācaआकाशःākāśaḥहhaवैvaiएषःeṣaḥदेवःdevaḥवायुःvāyuḥअग्निःagniḥआपःāpaḥपृथिवीpṛthivīवाक्vākमनःmanaḥचक्षुःcakṣuḥश्रोत्रम्śrotramचcaतेteप्रकाश्यprakāśyaअभिवदन्तिabhivadantiवयम्vayamएतत्etatबाणम्bāṇamअवष्टभ्यavaṣṭabhyaविधारयामःvidhārayāmaḥ

अन्वय

सः तस्मै ह उवाच-आकाशः ह वा एषः देवः [अस्ति]; वायुः अग्निः आपः पृथिवी वाक् मनः चक्षुः श्रोत्रम् च [देवाः सन्ति] । ते प्रकाश्य अभिवदन्ति-वयम् एतत् बाणम् अवष्टभ्य विधारयामः ।

Passage 2.3

तान् वरिष्ठः प्राण उवाच । मा मोहमापद्यथ अहमेवैतत् पञ्चधाऽऽत्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामीति तेऽश्रद्दधाना बभूवुः ॥ ३ ॥

पदच्छेद

तान्tānवरिष्ठःvariṣṭhaḥप्राणःprāṇaḥउवाचuvācaमाmāमोहम्mohamआपद्यथāpadyathaअहम्ahamएवevaएतत्etatपञ्चधाpañcadhāआत्मानम्ātmānamप्रविभज्यpravibhajyaएतत्etatबाणम्bāṇamअवष्टभ्यavaṣṭabhyaविधारयामिvidhārayāmiइतिitiतेteअश्रद्दधानाःaśraddadhānāḥबभूवुःbabhūvuḥ

अन्वय

वरिष्ठः प्राणः तान् उवाच-मोहम् मा आपद्यथ । अहम् एव आत्मानम् पञ्चधा प्रविभज्य एतत् बाणम् अवष्टभ्य विधारयामि इति । ते अश्रद्दधानाः बभूवुः ।

Passage 2.4

सोऽभिमानादूर्ध्वमुत्क्रमत इव तस्मिन्नुत्क्रामत्यथेतरे सर्व एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रातिष्ठन्ते । तद्यथा मक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रातिष्ठन्त एवम् वाङ्मनश्चक्षुः श्रोत्रं च ते प्रीताः प्राणं स्तुन्वन्ति ॥ ४ ॥

पदच्छेद

सःsaḥअभिमानात्abhimānātऊर्ध्वम्ūrdhvamउत्क्रमतेutkramateइवivaतस्मिन्tasminउत्क्रामतिutkrāmatiअथathaइतरेitareसर्वेsarveएवevaउत्क्रामन्तेutkrāmanteतस्मिन्tasminचcaप्रतिष्ठमानेpratiṣṭhamāneसर्वेsarveएवevaप्रातिष्ठन्तेprātiṣṭhanteतत्tatयथाyathāमक्षिकाःmakṣikāḥमधुकरराजानम्madhukararājānamउत्क्रामन्तम्utkrāmantamसर्वाःsarvāḥएवevaउत्क्रामन्तेutkrāmanteतस्मिन्tasminचcaप्रतिष्ठमानेpratiṣṭhamāneसर्वाःsarvāḥएवevaप्रातिष्ठन्तेprātiṣṭhanteएवम्evamवाक्vākमनःmanaḥचक्षुःcakṣuḥश्रोत्रम्śrotramचcaतेteप्रीताःprītāḥप्राणम्prāṇamस्तुन्वन्तिstunvanti

अन्वय

सः अभिमानात् ऊर्ध्वम् उत्क्रमते इव । तस्मिन् उत्क्रामति अथ इतरे सर्वे एव उत्क्रामन्ते; तस्मिन् च प्रतिष्ठमाने सर्वे एव प्रातिष्ठन्ते । तत् यथा उत्क्रामन्तम् मधुकरराजानम् सर्वाः मक्षिकाः एव उत्क्रामन्ते, तस्मिन् च प्रतिष्ठमाने सर्वाः एव प्रातिष्ठन्ते, एवम् वाक् मनः चक्षुः श्रोत्रम् च [अनुवर्तन्ते] । ते प्रीताः प्राणम् स्तुन्वन्ति ।

Passage 2.5

एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष वायुः एष पृथिवी रयिर्देवः सदसच्चामृतं च यत् ॥ ५ ॥

पदच्छेद

एषःeṣaḥअग्निःagniḥतपतिtapatiएषःeṣaḥसूर्यःsūryaḥएषःeṣaḥपर्जन्यःparjanyaḥमघवान्maghavānएषःeṣaḥवायुःvāyuḥएषःeṣaḥपृथिवीpṛthivīरयिःrayiḥदेवःdevaḥसत्satअसत्asatचcaअमृतम्amṛtamचcaयत्yat

अन्वय

एषः अग्निः [सन्] तपति; एषः सूर्यः [अस्ति]; एषः पर्जन्यः मघवान् [अस्ति]; एषः वायुः [अस्ति] । एषः पृथिवी रयिः देवः [अस्ति]; यत् सत् असत् च अमृतम् च [अस्ति], [तत् एषः अस्ति] ।

Passage 2.6

अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् । ऋचो यजूँषि सामानि यज्ञः क्षत्रं ब्रह्म च ॥ ६ ॥

पदच्छेद

अराःarāḥइवivaरथनाभौrathanābhauप्राणेprāṇeसर्वम्sarvamप्रतिष्ठितम्pratiṣṭhitamऋचःṛcaḥयजूँषिyajūm̐ṣiसामानिsāmāniयज्ञःyajñaḥक्षत्रम्kṣatramब्रह्मbrahmaचca

अन्वय

रथनाभौ अराः इव प्राणे सर्वम् प्रतिष्ठितम् [अस्ति]-ऋचः यजूंषि सामानि यज्ञः क्षत्रम् ब्रह्म च ।

Passage 2.7

प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे । तुभ्यं प्राण प्रजास्त्विमा बलिं हरन्ति यः प्राणैः प्रतितिष्ठसि ॥ ७ ॥

पदच्छेद

प्रजापतिःprajāpatiḥचरसिcarasiगर्भेgarbheत्वम्tvamएवevaप्रतिजायसेpratijāyaseतुभ्यम्tubhyamप्राणprāṇaप्रजाःprajāḥतुtuइमाःimāḥबलिम्balimहरन्तिharantiयःyaḥप्राणैःprāṇaiḥप्रतितिष्ठसिpratitiṣṭhasi

अन्वय

प्राण, त्वम् प्रजापतिः [सन्] गर्भे चरसि; त्वम् एव प्रतिजायसे । यः प्राणैः प्रतितिष्ठसि, [तस्मै] तुभ्यम् तु इमाः प्रजाः बलिम् हरन्ति ।

Passage 2.8

देवानामसि वह्नितमः पितॄणां प्रथमा स्वधा । ऋषीणां चरितं सत्यमथर्वाङ्गिरसामसि ॥ ८ ॥

पदच्छेद

देवानाम्devānāmअसिasiवह्नितमःvahnitamaḥपितॄणाम्pitṝṇāmप्रथमाprathamāस्वधाsvadhāऋषीणाम्ṛṣīṇāmचरितम्caritamसत्यम्satyamअथर्वाङ्गिरसाम्atharvāṅgirasāmअसिasi

अन्वय

[त्वम्] देवानाम् वह्नितमः असि; पितॄणाम् प्रथमा स्वधा [असि] । अथर्वाङ्गिरसाम् ऋषीणाम् सत्यम् चरितम् असि ।

Passage 2.9

इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता । त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥ ९ ॥

पदच्छेद

इन्द्रःindraḥत्वम्tvamप्राणprāṇaतेजसाtejasāरुद्रःrudraḥअसिasiपरिरक्षिताparirakṣitāत्वम्tvamअन्तरिक्षेantarikṣeचरसिcarasiसूर्यःsūryaḥत्वम्tvamज्योतिषाम्jyotiṣāmपतिःpatiḥ

अन्वय

प्राण, त्वम् तेजसा इन्द्रः [असि]; रुद्रः परिरक्षिता असि । त्वम् अन्तरिक्षे चरसि; त्वम् सूर्यः ज्योतिषाम् पतिः [असि] ।

Passage 2.10

यदा त्वमभिवर्षस्यथेमाः प्राण ते प्रजाः । आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ॥ १० ॥

पदच्छेद

यदाyadāत्वम्tvamअभिवर्षसिabhivarṣasiअथathaइमाःimāḥप्राणprāṇaतेteप्रजाःprajāḥआनन्दरूपाःānandarūpāḥतिष्ठन्तिtiṣṭhantiकामायkāmāyaअन्नम्annamभविष्यतिbhaviṣyatiइतिiti

अन्वय

प्राण, यदा त्वम् अभिवर्षसि, अथ इमाः ते प्रजाः कामाय अन्नम् भविष्यति इति आनन्दरूपाः तिष्ठन्ति ।

Passage 2.11

व्रात्यस्त्वं प्राणैकर्षिरत्ता विश्वस्य सत्पतिः । वयमाद्यस्य दातारः पिता त्वं मातरिश्व नः ॥ ११ ॥

पदच्छेद

व्रात्यःvrātyaḥत्वम्tvamप्राणprāṇaएकर्षिःekarṣiḥअत्ताattāविश्वस्यviśvasyaसत्पतिःsatpatiḥवयम्vayamआद्यस्यādyasyaदातारःdātāraḥपिताpitāत्वम्tvamमातरिश्वmātariśvaनःnaḥ

अन्वय

प्राण, त्वम् व्रात्यः एकर्षिः विश्वस्य अत्ता सत्पतिः [असि] । वयम् आद्यस्य [तव अदनीयस्य हविषः] दातारः [स्मः] । मातरिश्व, त्वम् नः पिता [असि] ।

Passage 2.12

या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि । या च मनसि सन्तता शिवां तां कुरु मोत्क्रमीः ॥ १२ ॥

पदच्छेद

याyāतेteतनूःtanūḥवाचिvāciप्रतिष्ठिताpratiṣṭhitāयाyāश्रोत्रेśrotreयाyāचcaचक्षुषिcakṣuṣiयाyāचcaमनसिmanasiसन्तताsantatāशिवाम्śivāmताम्tāmकुरुkuruमाmāउत्क्रमीःutkramīḥ

अन्वय

ते या तनूः वाचि प्रतिष्ठिता [अस्ति], या श्रोत्रे [प्रतिष्ठिता], या च चक्षुषि [प्रतिष्ठिता], या च मनसि सन्तता [अस्ति], ताम् शिवाम् कुरु; मा उत्क्रमीः ।

Passage 2.13

प्राणस्येदं वशे सर्वं त्रिदिवे यत् प्रतिष्ठितम् । मातेव पुत्रान् रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥ १३ ॥

पदच्छेद

प्राणस्यprāṇasyaइदम्idamवशेvaśeसर्वम्sarvamत्रिदिवेtridiveयत्yatप्रतिष्ठितम्pratiṣṭhitamमाताmātāइवivaपुत्रान्putrānरक्षस्वrakṣasvaश्रीःśrīḥचcaप्रज्ञाम्prajñāmचcaविधेहिvidhehiनःnaḥइतिiti

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · द्वितीयः प्रश्नः

Read the whole section →