Sunday Meditation· Open to Everyone

षष्ठः प्रश्नः

संस्कृत

Passage 6.1

अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन् हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत । षोडशकलं भारद्वाज पुरुषं वेत्थ । तमहं कुमारमब्रुवं नाहमिमं वेद । यद्यहमिममवेदिषं कथं ते नावक्ष्यमिति । समूलो वा एष परिशुष्यति योऽनृतमभिवदति तस्मान्नार्हाम्यनृतं वक्तुम् । स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि क्वासौ पुरुष इति ॥ १ ॥

पदच्छेद

अथathaहhaएनम्enamसुकेशाsukeśāभारद्वाजःbhāradvājaḥपप्रच्छpapracchaभगवन्bhagavanहिरण्यनाभःhiraṇyanābhaḥकौसल्यःkausalyaḥराजपुत्रःrājaputraḥमाम्māmउपेत्यupetyaएतम्etamप्रश्नम्praśnamअपृच्छतapṛcchataषोडशकलम्ṣoḍaśakalamभारद्वाजbhāradvājaपुरुषम्puruṣamवेत्थvetthaतम्tamअहम्ahamकुमारम्kumāramअब्रुवम्abruvamनnaअहम्ahamइमम्imamवेदvedaयदिyadiअहम्ahamइमम्imamअवेदिषम्avediṣamकथम्kathamतेteनnaअवक्ष्यम्avakṣyamइतिitiसमूलःsamūlaḥवैvaiएषःeṣaḥपरिशुष्यतिpariśuṣyatiयःyaḥअनृतम्anṛtamअभिवदतिabhivadatiतस्मात्tasmātनnaअर्हामिarhāmiअनृतम्anṛtamवक्तुम्vaktumसःsaḥतूष्णीम्tūṣṇīmरथम्rathamआरुह्यāruhyaप्रवव्राजpravavrājaतम्tamत्वाtvāपृच्छामिpṛcchāmiक्वkvaअसौasauपुरुषःpuruṣaḥइतिiti

अन्वय

अथ ह सुकेशा भारद्वाजः एनम् पप्रच्छ-भगवन्, कौसल्यः राजपुत्रः हिरण्यनाभः माम् उपेत्य एतम् प्रश्नम् अपृच्छत-भारद्वाज, षोडशकलम् पुरुषम् वेत्थ? अहम् तम् कुमारम् अब्रुवम्-अहम् इमम् न वेद । यदि अहम् इमम् अवेदिषम्, कथम् ते न अवक्ष्यम् इति । यः अनृतम् अभिवदति, एषः वा समूलः परिशुष्यति; तस्मात् अनृतम् वक्तुम् न अर्हामि । सः तूष्णीम् रथम् आरुह्य प्रवव्राज । असौ पुरुषः क्व [अस्ति] इति तम् त्वा पृच्छामि ।

Passage 6.2

तस्मै स होवाच । इहैवान्तःशरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडशकलाः प्रभवन्तीति ॥ २ ॥

पदच्छेद

तस्मैtasmaiसःsaḥहhaउवाचuvācaइहihaएवevaअन्तःशरीरेantaḥśarīreसोम्यsomyaसःsaḥपुरुषःpuruṣaḥयस्मिन्yasminएताःetāḥषोडशकलाःṣoḍaśakalāḥप्रभवन्तिprabhavantiइतिiti

अन्वय

सः तस्मै ह उवाच-सोम्य, यस्मिन् एताः षोडश कलाः प्रभवन्ति, सः पुरुषः इह एव अन्तःशरीरे [अस्ति] इति ।

Passage 6.3

स ईक्षाञ्चक्रे । कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति ॥ ३ ॥

पदच्छेद

सःsaḥईक्षाम्īkṣāmचक्रेcakreकस्मिन्kasminअहम्ahamउत्क्रान्तेutkrānteउत्क्रान्तःutkrāntaḥभविष्यामिbhaviṣyāmiकस्मिन्kasminवाvāप्रतिष्ठितेpratiṣṭhiteप्रतिष्ठास्यामिpratiṣṭhāsyāmiइतिiti

अन्वय

सः ईक्षाञ्चक्रे-कस्मिन् उत्क्रान्ते अहम् उत्क्रान्तः भविष्यामि? कस्मिन् वा प्रतिष्ठिते [अहम्] प्रतिष्ठास्यामि इति ।

Passage 6.4

स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनः । अन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु च नाम च ॥ ४ ॥

पदच्छेद

सःsaḥप्राणम्prāṇamअसृजतasṛjataप्राणात्prāṇātश्रद्धाम्śraddhāmखम्khamवायुःvāyuḥज्योतिःjyotiḥआपःāpaḥपृथिवीpṛthivīइन्द्रियम्indriyamमनःmanaḥअन्नम्annamअन्नात्annātवीर्यम्vīryamतपःtapaḥमन्त्राःmantrāḥकर्मkarmaलोकाःlokāḥलोकेषुlokeṣuचcaनामnāmaचca

अन्वय

सः प्राणम् असृजत । प्राणात् श्रद्धाम् [असृजत] । [ततः सृष्टाः कलाः] खम् वायुः ज्योतिः आपः पृथिवी इन्द्रियम् मनः अन्नम् [च सन्ति] । अन्नात् वीर्यम् [असृजत] । [ततः सृष्टाः कलाः] तपः मन्त्राः कर्म लोकाः [च सन्ति] । लोकेषु नाम च [असृजत] ।

Passage 6.5

स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते । एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति भिद्येते चासां नामरूपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो भवति तदेष श्लोकः ॥ ५ ॥

पदच्छेद

सःsaḥयथाyathāइमाःimāḥनद्यःnadyaḥस्यन्दमानाःsyandamānāḥसमुद्रायणाःsamudrāyaṇāḥसमुद्रम्samudramप्राप्यprāpyaअस्तम्astamगच्छन्तिgacchantiभिद्येतेbhidyeteतासाम्tāsāmनामरूपेnāmarūpeसमुद्रःsamudraḥइतिitiएवम्evamप्रोच्यतेprocyateएवम्evamएवevaअस्यasyaपरिद्रष्टुःparidraṣṭuḥइमाःimāḥषोडशकलाःṣoḍaśakalāḥपुरुषायणाःpuruṣāyaṇāḥपुरुषम्puruṣamप्राप्यprāpyaअस्तम्astamगच्छन्तिgacchantiभिद्येतेbhidyeteचcaआसाम्āsāmनामरूपेnāmarūpeपुरुषःpuruṣaḥइतिitiएवम्evamप्रोच्यतेprocyateसःsaḥएषःeṣaḥअकलःakalaḥअमृतःamṛtaḥभवतिbhavatiतत्tatएषःeṣaḥश्लोकःślokaḥ

अन्वय

यथा इमाः समुद्रायणाः नद्यः स्यन्दमानाः समुद्रम् प्राप्य अस्तम् गच्छन्ति, तासाम् नामरूपे भिद्येते, समुद्रः इति एवम् प्रोच्यते, एवम् एव अस्य परिद्रष्टुः इमाः पुरुषायणाः षोडश कलाः पुरुषम् प्राप्य अस्तम् गच्छन्ति । आसाम् च नामरूपे भिद्येते; पुरुषः इति एवम् प्रोच्यते । सः एषः अकलः अमृतः भवति । तत् एषः श्लोकः [अस्ति] ।

Passage 6.6

अरा इव रथनाभौ कला यस्मिन्प्रतिष्ठिताः । तं वेद्यं पुरुषं वेद यथा मा वो मृत्युः परिव्यथा इति ॥ ६ ॥

पदच्छेद

अराःarāḥइवivaरथनाभौrathanābhauकलाःkalāḥयस्मिन्yasminप्रतिष्ठिताःpratiṣṭhitāḥतम्tamवेद्यम्vedyamपुरुषम्puruṣamवेदvedaयथाyathāमाmāवःvaḥमृत्युःmṛtyuḥपरिव्यथाःparivyathāḥइतिiti

अन्वय

रथनाभौ अराः इव यस्मिन् कलाः प्रतिष्ठिताः [सन्ति], तम् वेद्यम् पुरुषम् वेद [जानीयात्], यथा [हे शिष्याः] वः [युष्मान्] मृत्युः मा परिव्यथा [परिव्यथयतु] इति ।

Passage 6.7

तान् होवाचैतावदेवाहमेतत् परं ब्रह्म वेद । नातः परमस्तीति ॥ ७ ॥

पदच्छेद

तान्tānहhaउवाचuvācaएतावत्etāvatएवevaअहम्ahamएतत्etatपरम्paramब्रह्मbrahmaवेदvedaनnaअतःataḥपरम्paramअस्तिastiइतिiti

अन्वय

[ऋषिः] तान् ह उवाच-अहम् एतत् परम् ब्रह्म एतावत् एव वेद । अतः परम् न अस्ति इति ।

Passage 6.8

ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ८ ॥

पदच्छेद

तेteतम्tamअर्चयन्तःarcayantaḥत्वम्tvamहिhiनःnaḥपिताpitāयःyaḥअस्माकम्asmākamअविद्यायाःavidyāyāḥपरम्paramपारम्pāramतारयसिtārayasiइतिitiनमःnamaḥपरमऋषिभ्यःparamaṛṣibhyaḥनमःnamaḥपरमऋषिभ्यःparamaṛṣibhyaḥ

अन्वय

ते तम् अर्चयन्तः [ऊचुः]-त्वम् हि नः पिता [असि], यः अस्माकम् अविद्यायाः परम् पारम् तारयसि इति । परमऋषिभ्यः नमः; परमऋषिभ्यः नमः ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · षष्ठः प्रश्नः

Read the whole section →