Sunday Meditation· Open to Everyone

चतुर्थः प्रश्नः

संस्कृत

Passage 4.1

अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ । भगवन्नेतस्मिन् पुरुषे कानि स्वपन्ति कान्यस्मिञ्जाग्रति कतर एष देवः स्वप्नान् पश्यति कस्यैतत् सुखं भवति कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्तीति ॥ १ ॥

पदच्छेद

अथathaहhaएनम्enamसौर्यायणीsauryāyaṇīगार्ग्यःgārgyaḥपप्रच्छpapracchaभगवन्bhagavanएतस्मिन्etasminपुरुषेpuruṣeकानिkāniस्वपन्तिsvapantiकानिkāniअस्मिन्asminजाग्रतिjāgratiकतरःkataraḥएषःeṣaḥदेवःdevaḥस्वप्नान्svapnānपश्यतिpaśyatiकस्यkasyaएतत्etatसुखम्sukhamभवतिbhavatiकस्मिन्kasminनुnuसर्वेsarveसम्प्रतिष्ठिताःsampratiṣṭhitāḥभवन्तिbhavantiइतिiti

अन्वय

अथ ह सौर्यायणी गार्ग्यः एनम् पप्रच्छ-भगवन्, एतस्मिन् पुरुषे कानि स्वपन्ति? अस्मिन् कानि जाग्रति? कतरः एषः देवः स्वप्नान् पश्यति? एतत् सुखम् कस्य भवति? सर्वे कस्मिन् नु सम्प्रतिष्ठिताः भवन्ति इति ।

Passage 4.2

तस्मै स होवाच । यथा गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति । ताः पुनः पुनरुदयतः प्रचरन्त्येवं ह वै तत् सर्वं परे देवे मनस्येकीभवति तेन तर्ह्येष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते ॥ २ ॥

पदच्छेद

तस्मैtasmaiसःsaḥहhaउवाचuvācaयथाyathāगार्ग्यgārgyaमरीचयःmarīcayaḥअर्कस्यarkasyaअस्तम्astamगच्छतःgacchataḥसर्वाःsarvāḥएतस्मिन्etasminतेजोमण्डलेtejomaṇḍaleएकीभवन्तिekībhavantiताःtāḥपुनःpunaḥपुनःpunaḥउदयतःudayataḥप्रचरन्तिpracarantiएवम्evamहhaवैvaiतत्tatसर्वम्sarvamपरेpareदेवेdeveमनसिmanasiएकीभवतिekībhavatiतेनtenaतर्हिtarhiएषःeṣaḥपुरुषःpuruṣaḥनnaशृणोतिśṛṇotiनnaपश्यतिpaśyatiनnaजिघ्रतिjighratiनnaरसयतेrasayateनnaस्पृशतेspṛśateनnaअभिवदतेabhivadateनnaआदत्तेādatteनnaआनन्दयतेānandayateनnaविसृजतेvisṛjateनnaईयायतेīyāyateस्वपितिsvapitiइतिitiआचक्षतेācakṣate

Passage 4.3

प्राणाग्नय एवैतस्मिन् पुरे जाग्रति । गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचनो यद्गार्हपत्यात् प्रणीयते प्रणयनादाहवनीयः प्राणः ॥ ३ ॥

पदच्छेद

प्राणाग्नयःprāṇāgnayaḥएवevaएतस्मिन्etasminपुरेpureजाग्रतिjāgratiगार्हपत्यःgārhapatyaḥहhaवैvaiएषःeṣaḥअपानःapānaḥव्यानःvyānaḥअन्वाहार्यपचनःanvāhāryapacanaḥयत्yatगार्हपत्यात्gārhapatyātप्रणीयतेpraṇīyateप्रणयनात्praṇayanātआहवनीयःāhavanīyaḥप्राणःprāṇaḥ

अन्वय

एतस्मिन् पुरे प्राणाग्नयः एव जाग्रति । एषः अपानः ह वै गार्हपत्यः [अस्ति]; व्यानः अन्वाहार्यपचनः [अस्ति] । यत् गार्हपत्यात् प्रणीयते, [तस्मात्] प्रणयनात् प्राणः आहवनीयः [अस्ति] ।

Passage 4.4

यदुच्छ्वासनिःश्वासावेतावाहुती समं नयतीति स समानः । मनो ह वाव यजमानः । इष्टफलमेवोदानः । स एनं यजमानमहरहर्ब्रह्म गमयति ॥ ४ ॥

पदच्छेद

यत्yatउच्छ्वासनिःश्वासौucchvāsaniḥśvāsauएतौetauआहुतीāhutīसमम्samamनयतिnayatiइतिitiसःsaḥसमानःsamānaḥमनःmanaḥहhaवावvāvaयजमानःyajamānaḥइष्टफलम्iṣṭaphalamएवevaउदानःudānaḥसःsaḥएनम्enamयजमानम्yajamānamअहःahaḥअहःahaḥब्रह्मbrahmaगमयतिgamayati

अन्वय

यत् एतौ उच्छ्वासनिःश्वासौ आहुती समम् नयति इति सः समानः [अस्ति] । मनः ह वाव यजमानः [अस्ति] । उदानः इष्टफलम् एव [अस्ति] । सः एनम् यजमानम् अहः अहः ब्रह्म गमयति ।

Passage 4.5

अत्रैष देवः स्वप्ने महिमानमनुभवति । यद्दृष्टं दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोति देशदिगन्तरैश्च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति सर्वः पश्यति ॥ ५ ॥

पदच्छेद

अत्रatraएषःeṣaḥदेवःdevaḥस्वप्नेsvapneमहिमानम्mahimānamअनुभवतिanubhavatiयत्yatदृष्टम्dṛṣṭamदृष्टम्dṛṣṭamअनुपश्यतिanupaśyatiश्रुतम्śrutamश्रुतम्śrutamएवevaअर्थम्arthamअनुशृणोतिanuśṛṇotiदेशदिगन्तरैःdeśadigantaraiḥचcaप्रत्यनुभूतम्pratyanubhūtamपुनःpunaḥपुनःpunaḥप्रत्यनुभवतिpratyanubhavatiदृष्टम्dṛṣṭamचcaअदृष्टम्adṛṣṭamचcaश्रुतम्śrutamचcaअश्रुतम्aśrutamचcaअनुभूतम्anubhūtamचcaअननुभूतम्ananubhūtamचcaसत्satचcaअसत्asatचcaसर्वम्sarvamपश्यतिpaśyatiसर्वःsarvaḥपश्यतिpaśyati

अन्वय

अत्र एषः देवः स्वप्ने महिमानम् अनुभवति । यत् दृष्टम् [अस्ति], [तत्] दृष्टम् अनुपश्यति; श्रुतम् श्रुतम् एव अर्थम् अनुशृणोति । देशदिगन्तरैः च प्रत्यनुभूतम् पुनः पुनः प्रत्यनुभवति । दृष्टम् च अदृष्टम् च, श्रुतम् च अश्रुतम् च, अनुभूतम् च अननुभूतम् च, सत् च असत् च, सर्वम् पश्यति; सर्वः पश्यति ।

Passage 4.6

स यदा तेजसाऽभिभूतो भवति । अत्रैष देवः स्वप्नान्न पश्यत्यथ तदैतस्मिञ्शरीर एतत्सुखं भवति ॥ ६ ॥

पदच्छेद

सःsaḥयदाyadāतेजसाtejasāअभिभूतःabhibhūtaḥभवतिbhavatiअत्रatraएषःeṣaḥदेवःdevaḥस्वप्नान्svapnānनnaपश्यतिpaśyatiअथathaतदाtadāएतस्मिन्etasminशरीरेśarīreएतत्etatसुखम्sukhamभवतिbhavati

अन्वय

सः यदा तेजसा अभिभूतः भवति, अत्र एषः देवः स्वप्नान् न पश्यति । अथ तदा एतस्मिन् शरीर एतत् सुखम् भवति ।

Passage 4.7

स यथा सोम्य वयांसि वासोवृक्षं संप्रतिष्ठन्ते । एवं ह वै तत् सर्वं पर आत्मनि संप्रतिष्ठते ॥ ७ ॥

पदच्छेद

सःsaḥयथाyathāसोम्यsomyaवयांसिvayāṃsiवासोवृक्षम्vāsovṛkṣamसम्प्रतिष्ठन्तेsampratiṣṭhanteएवम्evamहhaवैvaiतत्tatसर्वम्sarvamपरेpareआत्मनिātmaniसम्प्रतिष्ठतेsampratiṣṭhate

अन्वय

सोम्य, यथा वयांसि वासोवृक्षम् सम्प्रतिष्ठन्ते, एवम् ह वै तत् सर्वम् पर आत्मनि सम्प्रतिष्ठते ।

Passage 4.8

पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसश्च रसयितव्यं च त्वक्च स्पर्शयितव्यं च वाक्च वक्तव्यं च हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं चाहङ्कारश्चाहङ्कर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विधारयितव्यं च ॥ ८ ॥

पदच्छेद

पृथिवीpṛthivīचcaपृथिवीमात्राpṛthivīmātrāचcaआपःāpaḥचcaआपोमात्राāpomātrāचcaतेजःtejaḥचcaतेजोमात्राtejomātrāचcaवायुःvāyuḥचcaवायुमात्राvāyumātrāचcaआकाशःākāśaḥचcaआकाशमात्राākāśamātrāचcaचक्षुःcakṣuḥचcaद्रष्टव्यम्draṣṭavyamचcaश्रोत्रम्śrotramचcaश्रोतव्यम्śrotavyamचcaघ्राणम्ghrāṇamचcaघ्रातव्यम्ghrātavyamचcaरसःrasaḥचcaरसयितव्यम्rasayitavyamचcaत्वक्tvakचcaस्पर्शयितव्यम्sparśayitavyamचcaवाक्vākचcaवक्तव्यम्vaktavyamचcaहस्तौhastauचcaआदातव्यम्ādātavyamचcaउपस्थःupasthaḥचcaआनन्दयितव्यम्ānandayitavyamचcaपायुःpāyuḥचcaविसर्जयितव्यम्visarjayitavyamचcaपादौpādauचcaगन्तव्यम्gantavyamचcaमनःmanaḥचcaमन्तव्यम्mantavyamचcaबुद्धिःbuddhiḥचcaबोद्धव्यम्boddhavyamचcaअहङ्कारःahaṅkāraḥचcaअहङ्कर्तव्यम्ahaṅkartavyamचcaचित्तम्cittamचcaचेतयितव्यम्cetayitavyamचcaतेजःtejaḥचcaविद्योतयितव्यम्vidyotayitavyamचcaप्राणःprāṇaḥचcaविधारयितव्यम्vidhārayitavyamचca

अन्वय

पृथिवी च पृथिवीमात्रा च, आपः च आपोमात्रा च, तेजः च तेजोमात्रा च, वायुः च वायुमात्रा च, आकाशः च आकाशमात्रा च, चक्षुः च द्रष्टव्यम् च, श्रोत्रम् च श्रोतव्यम् च, घ्राणम् च घ्रातव्यम् च, रसः च रसयितव्यम् च, त्वक् च स्पर्शयितव्यम् च, वाक् च वक्तव्यम् च, हस्तौ च आदातव्यम् च, उपस्थः च आनन्दयितव्यम् च, पायुः च विसर्जयितव्यम् च, पादौ च गन्तव्यम् च, मनः च मन्तव्यम् च, बुद्धिः च बोद्धव्यम् च, अहङ्कारः च अहङ्कर्तव्यम् च, चित्तम् च चेतयितव्यम् च, तेजः च विद्योतयितव्यम् च, प्राणः च विधारयितव्यम् च [पर आत्मनि सम्प्रतिष्ठन्ते] ।

Passage 4.9

एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः । स परेऽक्षर आत्मनि संप्रतिष्ठते ॥ ९ ॥

पदच्छेद

एषःeṣaḥहिhiद्रष्टाdraṣṭāस्प्रष्टाspraṣṭāश्रोताśrotāघ्राताghrātāरसयिताrasayitāमन्ताmantāबोद्धाboddhāकर्ताkartāविज्ञानात्माvijñānātmāपुरुषःpuruṣaḥसःsaḥपरेpareअक्षरेakṣareआत्मनिātmaniसम्प्रतिष्ठतेsampratiṣṭhate

अन्वय

एषः हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः [अस्ति] । सः परे अक्षर आत्मनि सम्प्रतिष्ठते ।

Passage 4.10

परमेवाक्षरं प्रतिपद्यते स यो ह वै तदच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य । स सर्वज्ञः सर्वो भवति । तदेष श्लोकः ॥ १० ॥

पदच्छेद

परम्paramएवevaअक्षरम्akṣaramप्रतिपद्यतेpratipadyateसःsaḥयःyaḥहhaवैvaiतत्tatअच्छायम्acchāyamअशरीरम्aśarīramअलोहितम्alohitamशुभ्रम्śubhramअक्षरम्akṣaramवेदयतेvedayateयःyaḥतुtuसोम्यsomyaसःsaḥसर्वज्ञःsarvajñaḥसर्वःsarvaḥभवतिbhavatiतत्tatएषःeṣaḥश्लोकःślokaḥ

अन्वय

सोम्य, यः ह वै तत् अच्छायम् अशरीरम् अलोहितम् शुभ्रम् अक्षरम् वेदयते, सः परम् एव अक्षरम् प्रतिपद्यते । यः तु [सर्वत्यागी एवम् वेदयते], सः सर्वज्ञः सर्वः भवति । तत् [अर्थे] एषः श्लोकः [भवति] ।

Passage 4.11

विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि संप्रतिष्ठन्ति यत्र तदक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेशेति ॥ ११ ॥

पदच्छेद

विज्ञानात्माvijñānātmāसहsahaदेवैःdevaiḥचcaसर्वैःsarvaiḥप्राणाःprāṇāḥभूतानिbhūtāniसम्प्रतिष्ठन्तिsampratiṣṭhantiयत्रyatraतत्tatअक्षरम्akṣaramवेदयतेvedayateयःyaḥतुtuसोम्यsomyaसःsaḥसर्वज्ञःsarvajñaḥसर्वम्sarvamएवevaआविवेशāviveśaइतिiti

अन्वय

सोम्य, यत्र विज्ञानात्मा सर्वैः देवैः च सह, प्राणाः भूतानि [च] सम्प्रतिष्ठन्ति, तत् अक्षरम् यः तु वेदयते, सः सर्वज्ञः सर्वम् एव आविवेश इति ।

Text settings

Paper color

Read mode

Hide menus for a clear reading page.

Sections

Passages · चतुर्थः प्रश्नः

Read the whole section →